अध्याय ३२० - मण्डलानि
अग्निपुराणात त्रिदेव – ब्रह्मा, विष्णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.
सर्व्वतो भद्रकान्यष्टमण्डलानि वदे गुह ।
शक्तिमासाधयेत् प्राचीमिष्टायां विषुवे सुधीः ॥१॥
चित्रास्वात्यन्तरेणाथ दृष्टसूत्रेण वा पुनः ।
पूर्व्वापरायतं सूत्रमास्फाल्य मद्यतोऽङ्कयेत् ॥२॥
कोटचिद्वयन्तु तन्मध्यादङ्कयेद्दक्षिणोत्तरम् ।
मध्ये द्वयं प्रकर्त्तव्यं स्फालयेद्दक्षिणोत्तरम् ॥३॥
शतक्षेत्रार्द्धमानेन कोणसम्पातमादिशेत् ।
एवं सूत्रचतुष्कस्य स्फालनाच्चतुरस्रकम् ॥४॥
जायते तत्र कर्त्तव्यं भद्रस्वेदकरं शुभम् ।
वसुभक्तेन्दुद्विपदे क्षेत्रे वीथी च भागिका ॥५॥
द्वारं द्विपदिकं पद्ममानाद्वै सकपोलकम् ।
कोणबन्धविवित्त्रन्तु द्विपदं तत्र वर्त्तयेत् ॥६॥
शुक्लं पद्मं कर्णिका तु पीता चित्रन्तु केशरम्।
रक्ता वीथी तत्र कल्प्या द्वारं लोकेशरूपकं ॥७॥
रक्तकोणं विधौ नित्ये नैमित्तिकेऽव्जकं श्रृणु ।
असंसक्तन्तु संसक्तं द्विधाव्जं भुक्तिमुक्तिकृत् ॥८॥
असंसक्तं सुमुक्षूणां संसक्तं तत्त्रिधा पृथक् ।
बालो युवा च वृद्धश्च नामतः फलसिद्धिदाः ॥९॥
पद्मक्षेत्रे तु सूत्राणि दिग्विदिशु विनिक्षिपेत् ।
वृत्तानि पञ्चकल्पानि पद्मक्षेत्रसमानि तु ॥१०॥
प्रथमे कर्णिका तत्र पुष्करैर्न्नवभिर्युता ।
केशराणि चतुर्व्विशद्वितीयेऽथ तृतीयके ॥११॥
दलसन्धिर्गजकुम्भनिभान्तर्यद्दलाग्रकम् ।
पञ्चमे व्योमरूपन्तु संसक्तं कमलं स्मृतं ॥१२॥
असंसक्ते दलाग्रे तु दिग्भागैर्विस्तराद्भजेत् ।.
भागद्वयपरित्यागाद्वस्वंशैर्वर्त्तयेद्दलम् ॥१३॥
सन्धिविस्तरसूत्रेण तन्मूलादञ्जयेद्दलम्
सव्यासव्यक्रमेणैव वृद्धमेतद्भवेत्तथा ॥१४॥
अथ वा सन्धिमध्यात्तु भ्रामयेदर्द्धचन्द्रवत् ।
सन्धिद्वयाग्रसूत्रं वा बालपद्मन्तथा भवेत् ॥१५॥
सन्धिसूत्रार्द्धमानेन पृष्ठतः परिवर्त्तयेत् ।
तीक्ष्णाग्रन्तु सुवातेन कमलं भुक्तिमुक्तिदम् ॥१६॥
मुक्तवृद्धौ च वश्यादौ बालं पद्मं समानकं ।
नवनाभंनवहस्तं भागैर्म्मन्त्रात्मकैश्च तत् ॥१७॥
मध्येऽव्जं पट्टिकावीजं द्वारेणाब्जस्य मानतः ।
कण्ठोपकण्ठमुक्तानि तद्वाह्ये वीथिका मता ॥१८॥
पञ्चभागान्विता सा तु समन्ताद्दशभागिका ।
दिग्विदिक्ष्वष्ट पद्मानि द्वारपद्मं सवीथिकम् ॥१९॥
तद्वाह्ये पञ्च पदिका वीथिका यत्र भूषिता ।
पद्मवद्द्वारकण्ठन्तु पदिकञ्चौष्ठकण्ठकं ॥२०॥
कपोलं पदिकं कार्य्यं दिक्षु द्वारत्रयं स्फुटम् ।
कोणबन्धं त्रिपट्टन्तु द्विपट्टं वज्रवद्भवेत् ॥२१॥
मध्यन्तु कमलं शुक्लं पीतं रक्तञ्च नीलकम् ।
पीतशुक्लञ्च धूम्रञ्च रक्तं पीतञ्च मुक्तिदम् ॥२२॥
पूर्व्वादौ कमलान्यष्ट शिवविष्ण्वादिकंजपेत् .
प्रासादमध्यतोऽभ्यर्च्य शक्रादीन्व्जकादिषु ॥२३॥
अस्त्राणि वाह्यवीथ्यान्तु विष्ण्वादीनश्वमेधभाक् ।
पवित्रारोहणादौ च महामण्डलमालिखेत् ॥२४॥
अष्टहस्तं पुरा क्षेत्रं रसपक्षैर्विवर्त्तयेत् ।
द्विपदं कमलं मध्ये वीथिका पदिका ततः ॥२५॥
दिग्विदिक्षु ततोऽष्ठै च नीलाब्जानि विवर्त्तयेत् ।
मध्यपद्मप्रमाणेन त्रिंशत्पद्मानि तानि तु ॥२६॥
दलसन्धिविहीनानि नीलेन्दीवरकानि च ।
तत्पृष्ठे पदिका वीथी स्वस्तिकानि तदूर्द्धतः ॥२७॥
द्विपदानि तथा चाष्टौ कृतिभागकृतानि तु .
वर्त्तयेत् स्वस्तिकांश्तत्र वीथिका पूर्व्ववद्वहिः ॥२८॥
द्वाराणि कमलं यद्वदुपकण्ठयुतानि तु ।
वक्त्तयेत् स्वस्तिकांस्तत्र वीथका पूर्व्ववद्वहिः ॥२९॥
स्वस्तिकादि विचित्रञ्च सर्व्वकामपदं गुह ।
पञ्चाब्जं पञ्चहस्तं स्यात् समन्ताद्दशभाजितम् ॥३०॥
द्विपदं कमलं वीथी पट्टिका दिक्षु पङ्कजम् ।
चतुष्कं पृष्ठतो वीथी पदिका द्विपदान्यथा ॥३१॥
कण्ठोपकण्ठयुक्तानि द्वारान्यब्जन्तु मध्यतः ।
पञ्चाब्जमण्डले ह्यस्मिन् सितं पीतञ्च पूर्व्वकम् ॥३२॥
वैदूर्य्याभं दक्षिणाब्जं कुन्दाभं वारुणं कजम् ।
उत्तराब्जन्तु शङ्गाभमन्यत् सर्व्वं विचित्रकम् ॥३३॥
सर्व्वकामप्रदं वक्ष्ये दशहस्तन्तु मण्डलम् ।
विकारक्तन्तुर्य्याश्रं द्वारन्तु द्विपदं भवेत् ॥३४॥
मध्ये पद्मं पूर्व्ववच्च विघ्नध्वंसं वदाम्यथ ।
चतुर्हस्तं पुरं कृत्वा वृतञ्चैव करद्वयम् ॥३५॥
वीथिका हस्तमात्रन्तु स्वस्तिकैर्वहुभिर्वृता ।
हस्तमात्राणि द्वाराणि दिशु वृत्तं सपद्मकम् ॥३६॥
पद्मानि पञ्च शुक्लानि मध्ये पूज्यश्च निष्कलः ।
हृदयादीनि पूर्व्वादौ विकदिक्ष्वस्त्राणि वै यजेत् ॥३७॥
प्राग्वच्च पञ्च ब्रह्माणि बुद्ध्याधारमतो वदे .
शतभागो तिथिभागे पद्मं लिङ्गाष्टकं दिशि ॥३८॥
मे खलाभागसंयुक्तं कण्ठं द्विपदिकं भवेत् ।
आचार्य्यो बुद्धिमाश्रित्य कल्पयेच्च लतादिकम् ॥३९॥
चतुःपट्पञ्चमाष्टादि खाछिशाद्यादि मण्डलम् ।
खाक्षीन्दुसूर्य्यगं सर्वं खाक्षि चैवेन्दुवर्णनात् ॥४०॥
चत्वारिंशदधिकानि चतुर्द्दशसतानि हि ।
मण्डलानि हरेःशम्भोर्देव्याः सूर्य्यस्य सन्ति च ॥४१॥
दशसप्तविभक्ते तु लतालिङ्गोद्भवं श्रृणु ।
दिक्षु पञ्चत्रयञ्चैकं त्रयं पञ्च च लोमयेत् ॥४२॥
ऊद्र्ध्वगो द्विपदे लिङ्गमन्दिरं पार्श्वकोष्ठयोः ।
मध्येन द्विपदं पद्ममथ चैकञ्च पङ्कजं ॥४३॥
लिङ्गस्य पार्श्वयोर्भद्रेपदद्वारमलोपनात् ।
तत्पार्श्वशोभाः षड्लोप्य लताः शेषास्तथा हरेः ॥४४॥
ऊद्र्ध्वं द्विपदिकं लोप्य हरेर्भद्राष्टकं स्मृतम् .
रश्मिमानसमायुक्तवेदलोपाच्च शोभिकम् ॥४५॥
पञ्चविंशतिकं पद्मं ततः पीठमपीठकम् ।
द्वयं द्वयं रक्षयित्वा उपशोभास्तथाष्ट च ॥४६॥
देव्यादिख्यापकं भद्रं बृहन्मध्ये परं लघु ।
मध्ये नवपदं पद्मं कोणे भद्रचतुष्टयम् ॥४७॥
त्रयोदशपदं शेषं बुद्ध्याधारन्तु मण्हलं ।
शतपत्रं षष्ट्यधिकं बुद्ध्याधारं हरादिषु ॥४८॥
इत्यादिमहापुराणे आग्नेये मण्डलानि नाम विंशत्यधिकत्रिशततमोऽध्यायः॥
N/A
References : N/A
Last Updated : September 23, 2020
TOP