संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
सर्वदेवपवित्राशेहणविधिः

अध्याय ३७ - सर्वदेवपवित्राशेहणविधिः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
सङ्क्षेपात् सर्वदेवानां पवित्रारोहणं श्रृणु ।
पवित्रं सर्वलक्ष्म स्यात् खरमानलगं त्व ॥१॥

जगद्योने समागच्छ परिवारगणैः सह ।
निमन्त्रयाम्यहं प्रातर्द्दद्यान्तुभ्यं पवित्रकम् ॥२॥

जगत्‌सृजे नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम् ।
पवित्रीकरणार्थाय वर्षपूजाफलप्रदम् ॥३॥

शिवदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम् ।
मणिविद्रुममालाभिर्म्मन्दारकुसुमादिभिः ॥४॥

इयं संवत्सरी पूजा तवास्तु वेदवित्पते ।
सांवत्सरीमिमां पूजां सम्पाद्य विधिवन्मम ॥५॥

ब्रज पवित्रकेदानीं स्वर्गलोकं विसर्ज्जितः ।
सूर्य्यदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम् ॥६॥

पवित्रीकरणार्थय वर्षपूजाफलप्रदम् ।
शिवदेव नमस्तुभ्यं गृह्णोष्वेदं पवित्रकम् ॥७॥

पवित्रीकरणार्थाय वर्षपूजाफलप्रदम् ।
वाणेश्वर नस्तुभ्यं गृह्लीष्वेदं पवित्रकम् ॥८॥

पवित्रीकरणार्थय वर्षपूजाफलप्रदम् ।
शक्तिदेवि नमस्तुभ्यं गृह्णीषवेदं पवित्रकम् ॥९॥

पवित्रीकरणार्थय वर्षपूजाफलप्रदम् ।
नारायणमयं सूत्रमनिरुद्धणमयं वरम् ॥१०॥

धनधान्यायुरारोग्यप्रदं सम्प्रददामि ते ।
कामदेवमयं सूत्रं सङ्कर्षणमयं वरम् ॥११॥

विद्यासन्ततिसौभाग्यप्रदं सम्प्रददामि ते ।
वासुदेवमयं सूत्रं धर्म्मकामार्थमोक्षदम् ॥१२॥

संसारसागरोत्तारकारणं प्रददामि ते ।
विश्वरूपमयं सूत्रं सर्व्वदं पापनाशनम् ॥१३॥

अतीतानागतकुलसमुद्दारं ददामि ते ।
कनिष्ठादीनि चत्वारि मनुभिस्तु क्रमाद्ददे ॥१४॥

इत्यादिमहापुराणे आग्नेये सङ्‌क्षेपपवित्रारोहणं नाम सप्तत्रिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP