संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
नर्मदादिमाहात्म्यम्

अध्याय ११३ - नर्मदादिमाहात्म्यम्

भगवान् अग्निदेवांनी या अग्नि पुराणात चौसष्ट योगनींचे का सविस्तार वर्णन केले आहे.


अग्निरुवाच
नर्मदादिकमाहात्म्यं वक्ष्येहं नर्मदां परां(१) ॥१॥
सद्यः पुनाति गाङ्गेयं दर्शनाद्वारि नार्मदं ॥१॥
विस्तराद्योजनशतं योजनद्वयमायता ॥२॥
षष्टिस्तीर्थसहस्राणि षष्टिकोट्यस्तथापराः ॥२॥
पर्वतस्य समन्तात्तु तिष्ठन्त्यमरकण्टके(२) ॥३॥
कावेरीसङ्गमं पुण्यं श्रीपर्वतमतः शृणु ॥३॥
गौरी श्रीरूपिणी तेपे तपस्तामब्रवीद्धरिः(३) ॥४॥
अवाप्स्यसि त्वमध्यात्म्यं नाम्ना श्रीपर्वतस्तव ॥४॥
समन्ताद्योजनशतं महापुण्यं भविष्यति ॥५॥
अत्र दानन्तपो जप्यं(४) श्राद्धं सर्वमथाक्षयं(५) ॥५॥
टिप्पणी
१ नर्मदापरमिति झ..
२ निर्यान्त्यमरकण्टके इति झ..
३ तपस्तामब्रवीद्धर इति ग..
४ अत्र दानं तथा जप्यमिति झ..
५ सर्वमथाक्षरमिति ख.. , छ.. च
मरणं शिवलोकाय सर्वदं तीर्थमुत्तमं ॥६॥
हरोऽत्र क्रीडते देव्या हिरण्यकशिपुस्तथा ॥६॥
तपस्तप्त्वा बली चाभून्मुनयः सिद्धिमाप्नुवन्(१) ॥७॥

इत्याग्नेये महापुराणे नर्मदाश्रीपर्वतादिमाहात्म्यं नाम त्रयोदशाधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP