संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
विष्णुपञ्जरम्

अध्याय २७० - विष्णुपञ्जरम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


पुष्कर उवाच
त्रिपुरञ्जघ्नुषः पूर्वं ब्रह्मणा विष्णुपञ्जरं ।
शङ्करस्य द्विजश्रेष्ठ रक्षणाय निरूपितं ॥१॥

वागीशेन च शक्रस्य बलं हन्तुं प्रयास्यतः ।
तस्य स्वरूपं वक्ष्यामि तत्त्वं श्रृणु जयादिमत् ॥२॥

विष्णुऋ प्राच्यां स्थितश्चक्री हरिर्दक्षिणतो गदी ।
प्रतीच्यां शार्ङ्गधृग्‌विष्णुर्जिष्णुः खड्गी ममोत्तरे ॥३॥

हृषीकेशो विकीर्णेषु तच्छिद्रेषु जनार्दनः ।
क्रोड़रूपी हरिर्भूमौ नरसिंहोऽम्बरे मम ॥४॥

क्षुरान्तममलञ्चक्रं भ्रमत्येतत् सुदर्शनं ।
अस्याशुमाला दुष्प्रेक्ष्या हन्तुं प्रेतनिशाचरान् ॥५॥

गदा चेयं सहस्रार्च्चिः प्रदीप्तपावकोज्जवला ।
रक्षोभूतपिशाचानां डाकिनीनाञअच नाशनी ॥६॥

शार्ङ्गविस्फूर्ज्जिञ्चैव वासुदेवस्य मद्रिपून् ।
तिर्य्यङ्‌मनुष्यकुष्माण्डप्रेतादीन् हन्त्वशेषतः ॥७॥

खड्गधारोज्ज्वलज्योऽत्स्नानिर्द्धूता ये समाहिताः ।
ते यान्तु शाम्यतां सद्यो गरुडेनेव चपन्नगः ॥८॥

ये कुष्णाण्डास्तथा यक्षा ये दैत्या ये निशाचराः ।
प्रेता विनायकाः क्रूरा मनुष्या जम्भगाः खगाः ॥९॥

सिंहादयश्च पशवो दन्दसूकाश्च पन्नागाः ।
सर्व्वे भवन्तु ते सौम्याः कृष्णशङ्खरवाहताः ॥१०॥

चित्तवृत्तिहरा ये मे ये जनाः स्मृतिहारकाः ।
बलौजसाञ्च हर्त्तारश्छायाविभ्रंशकाश्च ये ॥११॥

ये चोपभोगहर्त्तारो ये च लक्षणनाशकाः ।
कुष्माण्डास्ते प्रणश्यन्तु विष्णुचक्ररवाहताः ॥१२॥

बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थ्यमैन्द्रियकं तथा ।
ममास्तु देवदेवस्य वासुदेवस्य कीर्त्तनात् ॥१३॥

पृष्ठे पुरस्तान्मम दक्षिणोत्तरे विकोणतश्चास्तु जनार्दनो हरिः ।
तमीड्यमीशानमनन्तमच्युतं जनार्दनं प्रणिपतितो न सीदति ॥१४॥

यथा परं ब्रह्म हरिस्तथा परः जगत्स्वरूपश्च स एव केशवः ।
सत्येन तेनाच्युतनामकीर्त्तनात् प्रणाशयेत्तु त्रिविधं ममाशुभं ॥१५॥

इत्यादिमहापुराणे आग्नेये विष्णुपञ्जरं नाम सप्तत्यधिकद्विशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP