संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
ग्रन्थप्रस्तावना

अध्याय ३३५ - ग्रन्थप्रस्तावना

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
छन्दोऽत्र सिद्धं गाथा स्यात् पादे सर्व्वगुरौ तथा ।
प्रस्तार आद्यगाथोनः परतुल्योऽथ पूर्व्वगः ॥१॥

नष्टमध्ये समेऽङ्कोनः समेऽर्द्ध विषमे गुरुः ।
प्रतिलोमगुणं नाद्यं द्विरुद्दिष्टग एकनुत् ॥२॥

सङ्‌ख्याद्विरर्द्धे रूपे तु शून्यं शून्ये द्विरीरितं ।
तावदर्द्धे तद्‌गुणितं द्वि द्‌व्यूनञ्च तदन्ततः ॥३॥

परे पूर्णं परे पूर्णं मेरुप्रस्तारतो भवेत् ।
नगसंख्या वृत्तसंख्या चाध्वाङ्गुलमधोद्‌र्धतः ॥४॥

सङ्‌ख्यैव द्विगुणैकोना छन्दः सारोऽथमीरितः ॥५॥

इत्यादिमहापुराणे आग्नेये प्रस्तारनिरूपणं नाम पञ्चत्रिंशदधिकत्रिशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP