संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
गयायात्राविधिः

अध्याय ११६ - गयायात्राविधिः

भगवान् अग्निदेवांनी या अग्नि पुराणात चौसष्ट योगनींचे का सविस्तार वर्णन केले आहे.


अग्निरुवाच
गायत्र्यैव महानद्यां स्नातः(१) सन्ध्यां समाचरेत् ॥१॥
गायत्र्या अग्रतः प्रातः श्राद्धं पिण्डमथाक्षयं ॥१॥
मध्याह्ने चोद्यति(२) स्नात्वा गीतवाद्यैर्ह्युपास्य च ॥२॥
सावित्रीपुरतः सन्ध्यां पिण्डदानञ्च तत्पदे ॥२॥
अगस्त्यस्य पदे कुर्याद्योनिद्वारं प्रविश्य च ॥३॥
निर्गतो न पुनर्योनिं प्रविशेन्मुच्यते भवात्(३) ॥३॥
टिप्पणी
१ प्रात इति क..
२ मध्याह्ने सरसीति ग..
३ मुच्यते भयादिति छ.. , झ.. च
बलिं काकशिलायाञ्च कुमारञ्च नमेत्ततः(१) ॥४॥
स्वर्गद्वार्यां सोमकुण्डे वायुतीर्थेऽथ पिण्डदः ॥४॥
भवेदाकशगङ्गायां कपिलायाञ्च पिण्डदः ॥५॥
कपिलेशं शिवं नत्वा रुक्मिकुण्डे च पिण्डदः ॥५॥
कोटीतीर्थे च कोटीशं नत्वामोघपदे नरः(२) ॥६॥
गदालोले वानरके गोप्रचारे च पिण्डदः(३) ॥६॥
नत्वा गावं वैतरण्यामेकविंशकुलोद्धृतिः ॥७॥
श्राद्धपिण्डप्रदाता(४) स्यात्क्रौञ्चपदे च पिण्डदः(५) ॥७॥
तृतीयायां विशालायां निश्चिरायाञ्च पिण्डदः ॥८॥
ऋणमोक्षे पापमोक्षे भस्मकुण्डेऽथ भस्मना ॥८॥
स्नानकृन्मुच्यते पापान्नमेद्देवं जनार्दनम् ॥९॥
एष पिण्डो मया दत्तस्तव हस्ते जनार्दन ॥९॥
परलोकगते मह्यमक्ष्यय्यमुपतिष्ठतां ॥१०॥
गयायां पितृरूपेण स्वयमेव जनार्दनः ॥१०॥
तं दृष्ट्वा पुण्डरीकाक्षं मुच्यते वै ऋणत्रयात् ॥११॥
मार्कण्डेयेश्वरं नत्वा नमेद्गृध्रेश्वरं नरः(६) ॥११॥
मूलक्षेत्रे महेशस्य धारायां पिण्डदो भवेत् ॥१२॥
टिप्पणी
१ नमेन्नर इति ख.. , ग.. , घ.. , ङ.. , छ.. च
२ मासपदेऽन्नद इति ख.. , घ.. च
३ कपिलेशमित्यादिः, गोप्रचारे च पिण्डद इत्यन्तः पाठो ग.. पुस्तके नास्ति
४ श्राद्धे पिण्डप्रदतेति ख..
५ भवेदाकाशगङ्गायामैत्यादिः, क्रौञ्चपादे च पिण्डद इत्यन्तः पाठः छ.. पुस्तके नास्ति
६ नमेद्भूतेश्वरं नर इति घ..
(१)गृध्रकूटे गृध्रवटे धौतपादे च पिण्डदः ॥१२॥
पुष्करिण्यां कर्दमाले रामतीर्थे च पिण्डदः ॥१३॥
प्रभासेशन्नमेत्प्रेतशिलायां पिण्डदो भवेत् ॥१३॥
दिव्यान्तरीक्षभूमिष्ठाः पितरो बान्धवादयः ॥१४॥
प्रेतादिरूपा मुक्ताः(२) स्युः पिण्डैर्दत्तैर्मयाखिलाः ॥१४॥
स्थानत्रये प्रेतशिला गयाशिरसि पावनी ॥१५॥
प्रभासे प्रेतकुण्डे च पिण्डदस्तारयेत्कुलम् ॥१५॥
वसिष्ठेशन्नमस्कृत्य तदग्रे पिण्डदो भवेत् ॥१६॥
गयानाभौ सुषुम्णायां महाकोष्ट्याञ्च पिण्डदः ॥१६॥
गदाधराग्रतो मुण्डपृष्ठे देव्याश्च सन्निधौ ॥१७॥
मुण्दपृष्ठं नमेदादौ क्षेत्रपालादिसंयुतम् ॥१७॥
पूजयित्वा भयं न स्याद्विषरोगादिनाशनम् ॥१८॥
ब्रह्माणञ्च नमस्कृत्य ब्रह्मलोकं नयेत्कुलम् ॥१८॥
सुभद्रां बलभद्रञ्च प्रपूज्य पुरुषोत्तमम् ॥१९॥
सर्वकामसमायुक्तः कुलमुद्धृत्य नाकभाक्(३) ॥१९॥
हृषीकेशं नमस्कृत्य तदग्रे पिण्डदो भवेत् ॥२०॥
माधवं पूजयित्वा च देवो वैमानिको(४) भवेत् ॥२०॥
महालक्ष्मीं प्रार्च्य गौरीं मङ्गलाञ्च सरस्वतीम् ॥२१॥
पितॄनुद्धृत्य स्वर्गस्थो भुक्तभोगोऽत्र शास्त्रधीः ॥२१॥
टिप्पणी
१ सर्वकामसमायुक्तः कुलमुद्धृत्य लोकभागिति पाठोत्र झ.. पुस्तकेऽधिकोऽस्ति
२ प्रेतादिरूपमुक्ता इति ख.. , ग.. , घ.. , ङ.. , ज.. च
३ कुलमुद्धृत्य लोकभागिति ग.. , ज.. च । वशिष्ठेशमित्यादिः, कुलमुद्धृत्य नाकभागित्यन्तः पाठो झ.. पुस्तके नास्ति
४ देवैर्वैमानिक इति छ..
द्वादशादित्यमभ्यर्य वह्निं रेवन्तमिन्द्रकम् ॥२२॥
रोगादिमुक्तः स्वर्गी स्याच्छ्रीकपर्दिविनायकम् ॥२२॥
प्रपूज्य कार्त्तिकेयञ्च निर्विघ्नः सिद्धिमाप्नुयात् ॥२३॥
सोमनाथञ्च कालेशङ्केदारं प्रपितामहम् ॥२३॥
सिद्धेश्वरञ्च रुद्रेशं रामेशं ब्रह्मकेश्वरम् ॥२४॥
अष्टलिङ्गानि गुह्यानि पूजयित्वा तु(१) सर्वभाक् ॥२४॥
नारायणं वराहञ्च नारसिंहं नमेच्छ्रिये ॥२५॥
ब्रह्मविष्णुमहेशाख्यं त्रिपुरघ्नमशेषदम् ॥२५॥
सीतां रामञ्च गरुडं वामनं सम्प्रपूज्य च ॥२६॥
सर्वकामानवाप्नोति ब्रह्मलोकं नयेत्पितॄन् ॥२६॥
देवैः सार्धं सम्प्रपूज्य देवमादिगदाधरम् ॥२७॥
ऋणत्रयविनिर्मुक्तस्तारयेत्सकलं कुलम् ॥२७॥
देवरूपा शिला पुण्या तस्माद्देवमयी शिला ॥२८॥
गयायां नहि तत्स्थानं यत्र तीर्थं न विद्यते ॥२८॥
यन्नाम्ना पातयेत्पिण्डं तन्नयेद्ब्रह्म शाश्वतम् ॥२९॥
फल्ग्वीशं फल्गुचण्डीं च प्रणम्याङ्गारकेश्वरम् ॥२९॥
मतङ्गस्य पदे श्राद्धी भरताश्रमके भवेत् ॥३०॥
हंसतीर्थे कोटितीर्थे यत्र पाण्डुशिलान्नदः ॥३०॥
तत्र स्यादग्निधारायां मधुस्रवसि पिण्डदः ॥३१॥
रुद्रेशं किलिकिलेशं नमेद्वृद्धिविनायकम्(२) ॥३१॥
पिण्डदो धेनुकारण्ये पदे धेनोर्नमेच्च गाम् ॥३२॥
टिप्पणी
१ पूजयित्वाथेति क.. , घ.. , ङ.. , ज.. च
२ नमेद्बुद्धिविनायकमिति ख.. , ग.. , छ.. च । नमेद्वृद्धविनायकमिति घ..
सर्वान् पितॄंस्तारयेच्च सरस्वत्याञ्च पिण्डदः ॥३२॥
सन्ध्यामुपास्य सायाह्ने नमेद्देवीं सरस्वतीम् ॥३३॥
त्रिसन्ध्याकृद्भवेद्विप्रो वेदवेदाङ्गपारगः ॥३३॥
गयां प्रदक्षिणीकृत्य गयाविप्रान् प्रपूज्य च ॥३४॥
अन्नदानादिकं सर्वं कृतन्तत्राक्षयं भवेत् ॥३४॥
स्तुत्वा सम्प्रार्थयेदेवमादिदेवं गदाधरम् ॥३५॥
गदाधरं गयावासं पित्रादीनां गतिप्रदम् ॥३५॥
धर्मार्थकाममोक्षार्थं योगदं प्रणमाम्यहम् ॥३६॥
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम् ॥३६॥
नित्यशुद्धं बुद्धियुक्तं(१) सत्यं ब्रह्म नमाम्यहम् ॥३७॥
आनन्दमद्वयं देवं देवदानववन्दितम् ॥३७॥
देवदेवीवृन्दयुक्तं सर्वदा प्रणमाम्यहम् ॥३८॥
कलिकल्मषकालार्तिदमनं(२) वनमालिनम् ॥३८॥
पालिताखिललोकेशं(३) कुलोद्धरणमानसम् ॥३९॥
व्यक्ताव्यक्तविभक्तात्माविभक्तात्मानमात्मनि ॥३९॥
स्थितं स्थिरतरं(४) सारं वन्दे घोराघमर्दनम्(५) ॥४०॥
आगतोऽस्मि गयां देव पितृकार्ये गदाधरः ॥४०॥
त्वं मे साक्षी भवाद्येह अनृणोऽहमृणत्रयात् ॥४१॥
टिप्पणी
१ नित्यशुद्धबुद्धियुक्तमिति घ.. , छ.. च
२ कालार्तिनाशनमिति घ.. । कालार्तिदलनमिति ग.. , ङ.. , घ.. , ज.. च
३ पालिताखिलदेवेशमिति घ..
४ स्थिततरमिति ग.. , घ.. , ङ.. च
५ वन्देहमरिमर्दनमिति ङ.. । वन्दे संसारमर्दनमिति ज..
साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा ॥४१॥
मया गयां समासाद्य पितॄणां निष्कृतिः कृता ॥४२॥
गयामाहात्म्यपठनाच्छ्राद्धादौ ब्रह्मलोकभाक् ॥४२॥
पितॄणामक्षयं श्राद्धमक्षयं ब्रह्मलोकदम् ॥४३॥

इत्याग्नेये महापुराणे गयामाहात्म्ये गयायात्रा नाम षोडशाधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP