संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
स्रावाद्याशौचं

अध्याय १५८ - स्रावाद्याशौचं

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


पुष्कर उवाच
स्रावाशौचं प्रवक्ष्यामि मन्वादिमुनिसम्मतं ॥१॥
रात्रिभिर्मासतुल्याभिर्गर्भस्रावे त्र्यहेण या ॥१॥
चातुर्मासिकपातान्ते दशाहं पञ्चमासतः ॥२॥
राजन्ये च चतूरात्रं वैश्ये पञ्चाहमेव च ॥२॥
अष्टाहेन तु शूद्रस्य द्वादशाहादतः परं ॥३॥
स्त्रीणां विशुद्धिरुदिता(१) स्नानमात्रेण वै पितुः ॥३॥
न स्नानं हि सपिण्डे स्यात्त्रिरात्रं सप्तमाष्टयोः ॥४॥
सद्यः शौचं सपिण्डानामादन्तजननात्तथा ॥४॥
आचूडादेकरात्रं स्यादाव्रताच्च त्रिरात्रकं ॥५॥
दशरात्रं भवेदस्मान्मातापित्रोस्त्रिरात्रकं ॥५॥
अजातदन्ते तु मृते कृतचूडेऽर्भके तथा ॥६॥
प्रेते न्यूने त्रिभिर्वर्षैर्मृते शुद्धिस्तु नैशिल्की ॥६॥
द्व्यहेण क्षत्रिये शुद्धिस्त्रिभिर्वैश्ये मृते तथा ॥७॥
शुद्धिः शूद्रे पञ्चभिः स्यात्प्राग्विवाहद्द्विषट्त्वहः(२) ॥७॥
यत्र त्रिरात्रं विप्राणामशौचं सम्प्रदृश्यते ॥८॥
तत्र शूद्रे द्वादशाहः षण्णव क्षत्रवैशय्योः ॥८॥
द्व्यब्दे नैवाग्निसंस्कारो मृते तन्निखनेद्भुवि ॥९॥
न चोदकक्रिया तस्य नाम्नि चापि कृते सति ॥९॥
जातदन्तस्य वा कार्या स्यादुपनयनाद्दश ॥१०॥
एकाहाच्छुद्ध्यते विप्रो योऽग्निवेदसमन्वितः ॥१०॥
हीने हीनतरे चैव त्र्यहश्चतुरहस्तथा ॥११॥
पञ्चाहेनाग्निहीनस्तु दशाहाद्ब्राह्मणव्रुवः ॥११॥
टिप्पणी
१ विशुद्धिः कथितेति घ.. , ङ.. , ञ.. च
२ द्विषट्ककमिति ट..
क्षत्रियो नवसप्ताहच्छुद्ध्येद्विप्रो गुणैर्युतः ॥१२॥
दशाहात्सगुणो वैश्यो विंशाहाच्छूद्र एव च ॥१२॥
दशाहाच्छुद्ध्यते विप्रो द्वादशाहेन भूमिपः ॥१३॥
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्ध्यति ॥१३॥
गुणोत्कर्षे दशाहाप्तौ त्र्यहमेकाहकं त्र्यहे ॥१४॥
एकाहाप्तौ सद्यः शौचं सर्वत्रैवं समूहयेत् ॥१४॥
दासान्तेवासिभृतकाः शिष्याश्चैवात्र वासिनः ॥१५॥
स्वामितुल्यमशौचं स्यान्मृते पृथक्पृथग्भवेत् ॥१५॥
मरणादेव कर्तव्यं संयोगो यस्य नाग्निभिः ॥१६॥
दाहादूर्ध्वमशौचं स्याद्यस्य वैतानिको विधिः ॥१६॥
सर्वेषामेव वर्णानान्त्रिभागात्स्पर्शनम्भवेत् ॥१७॥
त्रिचतुःपञ्चदशभिः स्पृश्यवर्णाः क्रमेण तु ॥१७॥
चतुर्थे पञ्चमे चैव सप्तमे नवमे तथा ॥१८॥
अस्थिसञ्चयनं कार्यं वर्णानामनुपूर्वशः ॥१८॥
अहस्त्वदत्तकन्यासु प्रदत्तासु त्र्यहं भवेत् ॥१९॥
पक्षिणी संस्कृतास्वेव स्वस्रादिषु विधीयते ॥१९॥
पितृगोत्रं कुमारीणां व्यूढानां भर्तृगोत्रता ॥२०॥
जलप्रदानं पित्रे च उद्वाहे चोभयत्र तु ॥२०॥
दशाहोपरि पित्रोश्च दुहितुर्मरणे त्र्यहं ॥२१॥
सद्यः शौचं सपिण्डानां पूर्वं चूडाकृतेर्द्विज ॥२१॥
एकाहतो ह्याविविहादूर्ध्वं हस्तोदकात्त्र्यहं ॥२२॥
पक्षिणी भ्रातृपुत्रस्य सपिण्डानां च सद्यतः ॥२२॥
दशाहाच्छुद्ध्यते विप्रो जन्महानौ स्वयोनिषु ॥२३॥
षद्भिस्त्रिभिरहैकेन क्षत्रविट्शूद्रयोनिषु ॥२३॥
एतज्ज्ञेयं सपिण्डानां वक्ष्ये चानौरसादिषु ॥२४॥
अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च ॥२४॥
परपूर्वासु च स्त्रीषु त्रिरात्राच्छुद्धिरिष्यते ॥२५॥
वृथासङ्करजातानां प्रव्रज्यासु च तिष्ठतां ॥२५॥
आत्मनस्त्यागिनाञ्चैव निवर्तेतोदकक्रिया ॥२६॥
मात्रैकया द्विपितरौ भ्रतरावन्यगामिनौ ॥२६॥
एकाहः सूतके तत्र मृतके तु द्व्यहो भवेत्(१) ॥२७॥
सपिण्डानामशौचं हि समानोदकतां वदे ॥२७॥
बाले देशान्तरस्थे च पृथक्पिण्डे च संस्थिते ॥२८॥
सवासा जलमाप्लुत्य सद्य एव विशुद्ध्यति ॥२८॥
दशाहेन सपिण्डास्तु शुद्ध्यन्ति प्रेतसूतके ॥२९॥
त्रिरात्रेण सुकुल्यास्तु स्नानात्(२) शुद्ध्यन्ति गोत्रिणः ॥२९॥
सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ॥३०॥
समानोदकभावस्तु निवर्तेताचतुर्दशात् ॥३०॥
जन्मनामस्मृते वैतत्तत्परं गोत्रमुच्यते ॥३१॥
विगतन्तु विदेशस्थं शृणुयाद्यो ह्यनिर्दशं ॥३१॥
यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥३२॥
अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् ॥३२॥
संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुद्ध्यति ॥३३॥
टिप्पणी
१ मृतके तु त्र्यहो भवेदिति घ.. , ङ.. , ञ.. च । मतके तु तथा भवेदिति झ..
२ स्नाता इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च
मातुले पक्षिणो रात्रिः शिष्यत्विग्बान्धवेषु च ॥३३॥
मृटे जामातरि प्रेते दैहित्रे भगिनीसुते(१) ॥३४॥
श्यालके तत्सुते चैव स्नानमात्रं विधीयते ॥३४॥
मातामह्यां तथाचार्ये मृते मातामहे त्र्यहं ॥३५॥
दुर्भिक्षे राष्ट्रसम्पाते आगतायां तथापदि ॥३५॥
उपसर्गमृतानाञ्च दाहे ब्रह्मविदान्तथा ॥३६॥
सत्रिव्रति(२) ब्रह्मत्तारिसङ्ग्रामे देशविप्लवे ॥३६॥
दाने यज्ञे विवाहे च सद्यः शौचं विधीयते ॥३७॥॥
विप्रगोनृपहन्तॄणामनुक्तं चात्मघातिनां ॥३७॥
असाध्यव्याधियुक्तस्य स्वाध्याये चाक्षमस्य च ॥३८॥
प्रायश्चित्तमनुज्ञातमग्नितोयप्रवेशनं ॥३८॥
अपमानात्तथा(३) क्रोधात्स्नेहात्परिभवाद्भयात् ॥३९॥
उद्बध्य म्रियते नारी पुरुषो वा कथञ्चन ॥३९॥
आत्मघाती चैकलक्षं वसेत्स नरके शुचौ ॥४०॥
वृद्धः श्रौतस्मृतेर्लुप्तः परित्यजति यस्त्वसून् ॥४०॥
त्रिरात्रं तत्र शाशौचं द्वितीये चास्थिसञ्चयं ॥४१॥
तृतीये तूदकं कार्यं चतुर्थे श्राद्धमाचरेत् ॥४१॥
विद्युदग्निहतानाञ्च त्र्यहं शुद्धिः सपिण्डिके(४) ॥४२॥
पाषण्डाश्रिता भर्तृघ्न्यो नाशौचोदकगाः स्त्रियः ॥४२॥
पितृमात्रादिपाते तु आर्द्रवासा ह्युपोषितः ॥४३॥
टिप्पणी
१ प्रेते, भगिनीसुत इत्यपि इति ट..
२ यतिव्रतीति ज..
३ अपमानादथेति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च
४ विद्युदादिहतानाञ्च त्र्यहाच्छुद्धिर्विधीयते इति ट..
अतीतेब्दे प्रकुर्वीत प्रेतकार्यं यथाविधि ॥४३॥
यः कश्चित्तु हरेत्प्रेतमसपिण्डं कथञ्चन ॥४४॥
स्नात्वा स्चेलः स्पृष्ट्वाग्निं घृतं प्राश्य विशुद्ध्यति ॥४४॥
यद्यन्नमत्ति तेषान्तु दशाहेनैव शुद्ध्यति ॥४५॥
अनदन्नन्नमह्न्येव न वै तस्मिन् गृहे वसेत् ॥४५॥
अनाथं व्राह्मणं प्रेतं ये वहन्ति द्विजातयः ॥४६॥
पदे पदे यज्ञफलं शुद्धिः स्यात्स्नानमात्रतः ॥४६॥
प्रेतीभूतं द्विजः शूद्रमनुगच्छंस्त्र्यहाच्छुचिः ॥४७॥
मृतस्य बान्धवैः सार्धं कृत्वा च परिदेवनं ॥४७॥
वर्जयेत्तदहोरात्रं दानश्राद्धादि कामतः(१) ॥४८॥
शूद्रायाः प्रसवो गेहे शूद्रस्य मरणं तथा ॥४८॥
भाण्डानि तु परित्यज्य त्र्यहाद्भूलेपतः शुचिः ॥४९॥
न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण नाययेत् ॥४९॥
नयेत्प्रेतं स्नापितञ्च पूजितं कुसुमैर्दहेत् ॥५०॥
नग्नदेहं दहेन्नैव किञ्चिद्देहं परित्यजेत् ॥५०॥
गोत्रजस्तु गृहीत्वा तु चितां चारोपयेत्तदा ॥५१॥
आहिताग्निर्यथान्यायं दग्धव्यस्तिभिरग्निभिः ॥५१॥
अनाहिताग्निरेकेन लौकिकेनापरस्तथा ॥५२॥
अस्मात्त्वमभिजातोऽसि त्वदयं जायतां पुनः ॥५२॥
असौ स्वर्गाय लोकाय सुखाग्निं प्रददेत्सुतः ॥५३॥
सकृत्प्रसिञ्चन्त्युदकं नामगोत्रेण बान्धवाः ॥५३॥
टिप्पणी
१ दानश्राद्धादिकर्म चेति झ..
एवं मातामहाचार्यप्रेतानाञ्चोदकक्रिया ॥५४॥
काम्योदकं सखिप्रेतस्वस्रीयश्वश्रुरर्त्विजां ॥५४॥
अपो नः शोशुचिदयं दशाहञ्च सुतोऽर्पयेत् ॥५५॥
ब्राह्मणे दशपिण्डाः स्युः क्षत्रिये द्वादश स्मृताः ॥५५॥
वैश्ये पञ्चदश प्रोक्ताः शूद्रे त्रिंशत्प्रकीर्तिता ॥५६॥
पुत्रो वा पुत्रिकान्यो वा पिण्डं दद्याच्च पुत्रवत् ॥५६॥
विदिश्य निम्बपत्राणि नियतो द्वारि वेश्मनः ॥५७॥
आचम्य चाग्निमुदकं गोमयं गौरसर्षपान् ॥५७॥
प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ॥५८॥
अक्षरलवणान्नः स्युर्निर्मांसा भूमिशायिनः ॥५८॥
क्रीतलब्धाशनाः स्नाता आदिकर्ता दशाहकृत् ॥५९॥
अभावे ब्रह्मचारी तु कुर्यात्पिण्डोदकादिकं ॥५९॥
यथेदं शावमाशौचं सपिण्डेषु विधीयते ॥६०॥
जननेप्येवं स्यान्निपुणां शुद्धिमिच्छतां ॥६०॥
सर्वेषां शावमाशौचं मातापित्रोश्च सूतकं ॥६१॥
सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ॥६१॥
पुत्रजन्मदिने श्राद्धं कर्तव्यमिति निश्चितं ॥६२॥
तदहस्तत्प्रदानार्थं गोहिरण्यादिवाससां ॥६२॥
मरणं मरणेनैव सूतकं सूतकेन तु ॥६३॥
उभयोरपि यत्पूर्वं तेनाशौचेन शुद्ध्यति ॥६३॥
सूतके मृतकं चेत्स्यान्मृतके त्वथ सूतकं ॥६४॥
तत्राधिकृत्य मृतकं शौचं कुर्यान्न सूतकं ॥६४॥
समानं लघ्वशौचन्तु प्रथमेन समापयेत् ॥॥॥६५॥
असमानं द्वितीयेन धर्मराजवचो यथा ॥६५॥
शावान्तः शाव आयाते(१) पूर्वाशौचेन शुद्ध्यति ॥६६॥
गुरुणा लघु बाध्येत लघुना नैव तद्गुरु ॥६६॥
मृतके सूतके वापि रात्रिमध्येऽन्यदापतेत् ॥६७॥
तच्छेषेणैव सुद्ध्येरन् रात्रिशेषे द्व्यहाधिकात् ॥६७॥
प्रभाते यद्यशौचं स्याच्छुद्धेरंश्च त्रिभिर्दिनैः ॥६८॥
उभयत्र दशाहानि कुलस्यान्नं न भुज्यते ॥६८॥
दानादि निनिवर्तेत कुलस्यान्नं न भुज्यते ॥६९॥
अज्ञाते पातकं नाद्ये भोक्तुरेकमहोऽन्यथा(२) ॥६९॥

इत्याग्नेये महापुराणे स्रावाद्याशौचं नाम अष्टपञ्चाशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP