संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
षट्त्रिंशत्पदकज्ञानम्

अध्याय १४१ - षट्त्रिंशत्पदकज्ञानम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
षट्त्रिंशत्पदसंस्थानामोषधीनां वदे फलं ॥१॥
अमरीकरणं नृणां ब्रह्मरुद्रेन्द्रसेवितं ॥१॥
हरीतक्यक्ष्यधात्राश्च मरीचम्पिप्पलीशिफा ॥२॥
वह्निः शुण्ठी पिप्पली च गुडूचीवचनिम्बकाः(१) ॥२॥
वासकः शतमूली च सैन्धवं सिन्धुवारकं ॥३॥
कण्टकारी गोक्षुरका विल्वम्पौनर्नवं बला ॥३॥
एरण्डमुण्डी रुचको भृङ्गः क्षारोऽथ पर्पटः ॥४॥
धन्याको जीरकश्चैव शतपुष्यी जवानिका ॥४॥
विडङ्गः खदिरश्चैव कृतमालो हरिद्रया ॥५॥
वचा सिद्धार्थ एतानि षट्त्रिंशत्पदगानि हि ॥५॥
क्रमादेकादिसञ्ज्ञानि ह्यौपधानि महान्ति हि ॥६॥
सर्वरोगहराणि स्युरमरीकरणानि च ॥६॥
बलीपलितभेत्तॄणि(२) सर्वकोष्ठगतानि तु ॥७॥
एषां चूर्णञ्च वटिका रसेन परिभाविता ॥७॥
अवलेहः कषायो वा मोदको गुडखण्डकः ॥८॥
टिप्पणी
१ चव्यनिम्बका इति ज.. , झ.. च
२ बलीपलितभेदीनीति छ..
मधुतो धृततो वापि घृतन्तैलमथापि वा ॥८॥
सर्वात्मनोपयुक्तं हि मृतसञ्जीवनम्भवेत् ॥९॥
कर्षार्धं कर्षमेकं वा पलार्धं पलमेककं ॥९॥
यथेष्टाचारनिरतो(१) जीवेद्वर्षशतत्रयं ॥१०॥
मृतसञ्जीवनीकल्पे योगो नास्मात्परोऽस्ति हि ॥१०॥
प्रथमान्नवकाद्योगात्सर्वरोगैः प्रमुच्यते ॥११॥
द्वितीयाच्च तृतीयाच्च चतुर्थान्मुच्यते रुजः ॥११॥
एवं षट्काच्च प्रथमाद्द्वितीयाच्च तृतीयतः ॥१२॥
चतुर्थात्पञ्चमात्षष्ठात्तथा नवचतुष्कतः ॥१२॥
एकदित्रिचतुःपञ्चषट्सप्ताष्टमतोऽनिलात् ॥१३॥
अग्निभास्करषड्विंशसप्तविंशैश्च पित्ततः ॥१३॥
वाणर्तुशैलवसुभिस्तिथिभिर्मुच्यते कफात् ॥१४
वेदाग्निभिर्बाणगुणैः षद्गुणैः स्याद्वशे धृते ॥१४॥
ग्रहादिग्रहणान्तैश्च सर्वैरेव विमुच्यते ॥१५॥
एकद्वित्रिरसैः शैलैर्वसुग्रहशिवैः क्रमात् ॥१५॥
द्वात्रिंशत्तिथिसूर्यैश्च नात्र कार्या विचारणा ॥१६॥
षट्त्रिंशत्पदकज्ञानं न देयं यस्य कस्य चित् ॥१६॥

इत्याग्नेये महापुराणे युद्धजयार्णवे षट्त्रिंशत्पदकज्ञानं नाम एकचत्वारिंशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP