अध्याय ८३ - निर्वाणादीक्षाकथनम्
अग्निपुराणात त्रिदेव – ब्रह्मा, विष्णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.
ईश्वर उवाच
अथ निर्वाणदीक्षायां कुर्य्यान्मूलादिदीपनं ।
पाशबन्धनशक्त्यर्थं ताडनादिकृतेन वा ॥१॥
एकैकया तदाहुत्या प्रत्येकं तत्त्रयेण वा ।
वीजगर्भशिखार्द्धन्तु हूंफडन्तध्रुवादिना ॥२॥
ओं ह्रूं ह्रौं हौं ह्रूं फडिति मूलमन्त्रस्य दीपनं ।
ओं ह्रूं हौं हौं ह्रूं फडति हृदय एवं शिरोमुखे ॥३॥
प्रत्येकं दी पनंकुर्य्यात् सर्व्वस्मिन् क्रूरकर्म्मण ।
शान्तिके पौष्टिके चास्य वषडन्तादिनाणुना ॥४॥
वषड्वौषट्समोपेतैः सर्वकाम्योपरि स्थितैः ।
हवनं संवरैः कुर्य्यात् सर्वत्राप्यायनादिषु ॥५॥
ततः स्वसब्यभागस्थ मण्डले शुद्धविग्रहं ।
शिष्यं सम्पूज्य तत् सूत्रं सुषुम्णेति विभावितं ॥६॥
मूलेन तच्छिखाबन्धं पादाङ्गुष्ठान्तमानयेत् ।
संहारेण मुमुक्षोस्तु बध्नीयाच्छिष्यकायके ॥७॥
पुंसस्तु दक्षिणे भागे वामे नार्य्या नियोजयेत् ।
शक्ति च शक्तिमन्त्रेण पूजितान्तस्य मस्तके ॥८॥
संहारमुद्रयाऽऽदाय सूत्रं तेनैव योकजयेत् ।
नाडीन्त्वादाय मूलेन सूत्रेन्यस्य हृदार्च्चयेत् ॥९॥
अवगुण्ठ्य तु रुद्रणे हृदयेनाहुतित्रयं ।
प्रदद्यात्सन्निधानार्थं शक्तावाप्येवमेव हि ॥१०॥
ओं हां वर्णाध्वनेनमो हं भवनाध्वने नमः ।
ओं हां कलाध्वने नमः शाध्याध्वानं हि सूत्रके ॥११॥
न्यस्यास्त्रवारिणा शिष्यं प्रोक्ष्यास्त्रमन्त्रितेन च ।
पुष्पेण हृदी सन्ताड्य शिष्यदेहे प्रविश्य च ॥१२॥
गुरुश्च तत्र हूङ्कारयुक्तं रेचकयोगतः ।
चैतन्यं हंसवीजस्थं विश्लिष्येदायुधात्मना॥१३॥
ओं हौं हूं फट् । आच्छिद्य शक्तिसूत्रेण हां हं स्वाहेति चाणुना ।
संहारमुद्रया सूत्रे नाडीभूते नियोजयेत् ॥१४॥
ओं हां हं हां आत्मने नमः ।
व्यापकं भावयेदेनं तनुत्रेणावगुण्ठयेत् ।
आहुतित्रितयं दद्यात् हृदा सन्निधिहेतवे ॥१५॥
विद्यादेहञ्च विन्यस्य शान्त्यतीतावलोकनं ।
तस्यामितरतत्त्वाद्यं मन्त्रभूतं विचिन्तयेत् ॥१६॥
ओं हां हौं शान्त्यतीतकलापाशाय नम इत्यनेनावलोकयेत् ।
द्वे तत्त्वे मन्त्रमप्येकं पदं वर्णाश्च षोडश ।
तथाऽष्टौ भुवनान्यस्यां वीजनाडीकथद्वयं ॥१७॥
विषयञ्च गुणञ्चैकं कारणं च सदा शिवं ।
सितायां शान्त्यतीतायामन्तर्भाव्य प्रपीडयेत् ॥१८॥
संहारमुद्रयाऽऽदाय विदध्यात् सूत्रमस्तके ।
पूजयेदाहुतीस्तिस्रो दद्यात् सन्निधिहेतवे ॥१९॥
तत्त्वे द्वे अक्षरे द्वे च वीजनाडीकथद्वयं ।
गुणौ मन्त्रौ तथाऽब्जस्थमेकं कारणमीश्वरं ॥२०॥
पदानि भानुसङ्ख्यानि भुवनानि दश सप्त च ।
एकञ्च विषयं शान्तौ कृष्णायामच्युतं स्मरेत् ॥२१॥
ताडयित्वा समादाय मुखसूत्रे नियोजयेत् ।
जुहुयान्निजवीजेन सान्निध्यायाहुतित्रयं ॥२२॥
विद्यायां सप्त तत्त्वानि पादानामेकविंशतिं ।
षड् वर्णान् सञ्चरं चैकं लोकानां पञ्चविंशतिं ॥२३॥
गुणानान्त्रयमेकञ्च विषयं रुद्रकारणं ।
अन्तर्भाव्यातिरिक्तायां वीजनाडीकथद्वयं ॥२४॥
अस्त्रमादाय दध्याच्च परं द्व्यधिकविंशति ।
लोकानाञ्च कलानाञ्च षष्टिं गुणचतुष्टयं ॥२५॥
मन्त्राणं त्रयमेकञ्च विषयं कारणं हरिं ।
अन्तर्भाव्य प्रतिष्ठायां शुक्लायान्ताडनादिकं ॥२६॥
विधाय नाभिसूत्रस्थां सन्निधायाहुतीर्यजेत् ।
ह्रीं भुवनाना शतं साग्रं पदानामष्टविंशतिं ॥२७॥
वीजनाडीसमीराणं द्वयोरिन्द्रययोरपि ।
वर्णन्तत्त्वञ्च विषयमेकैकं गुणपञ्चकं ॥२८॥
हेतुं ब्रह्माण्डमन्त्रस्थं शम्बराणं चतुष्टयं ।
निवृत्तौ पीतवर्णायामन्तर्भाव्य प्रताडयेत् ॥२९॥
आदौ यत्तत्त्वभागान्ते सूत्रे विन्यस्य पूजयेत् ।
जुहुयादाहुतीस्तिस्रः सन्निधानाय पावके ॥३०॥
इत्यादाय कलासूत्रे योजयेच्छिष्यविग्रहात् ।
सवीजायान्तु दी क्षायां समयाचारयागतः ॥३१॥
देहारम्भकरक्षार्थं मन्त्रसिद्धिफलादपि ।
इष्टापूर्त्तादिधर्म्मार्थं व्यतिरिक्तं प्रबन्धकं ॥३२॥
चैतन्यबोधकं सूक्ष्मं कलानामन्तरे स्मरेत् ।
अमुनैव क्रमेणाय कुर्य्यात्तर्पणदीपने ॥३३॥
आहुतिभिः स्वमन्त्रेण तिसृभिस्तिसृभिस्तथा ।
ओं हौं शान्त्यतीतकलापाशाय स्वाहेत्यादितर्पणं ।
ओं हां हं हां शान्त्यतीतकलापाशाय हूम्फडित्यादिदीपनं ।
तत् सूत्रं व्याप्तिबोधाय कलास्थानेषु पञ्चसु ॥३४॥
सङ्गृह्य कुङ्कुमाज्येन तत्र साङ्गं शिवं यजेत् ।
हूम्फडन्तैः कलामन्त्रैर्भित्त्वा पाशाननुक्रमात् ॥३५॥
नमोऽन्तैश्च प्रविश्यान्तः कुर्य्याद् ग्रहणबन्धने ।
ओं हूं हां हौं हां हूं फट् सान्त्यतीतकलां गृह्णामि ।
बध्नामि चेत्यादिमन्त्रैः कलानां ग्रहणबन्धनादिप्रयोगः ।
पाशादीनाञ्च स्वीकारो ग्रहणं बन्धनं पुनः ॥३६॥
पुरुषं प्रति निः शेषव्यापारप्रतिपत्तये ।
उपवेश्याथ तत् सूत्रं शिष्यस्कन्धे निवेशयेत् ॥३७॥
विस्तृताघप्रमोषाय शतं मूलेन होमयेत् ।
शरावसम्पुटे पुंसः स्त्रियाश्च प्रणितोदरे ॥३८॥
हृदस्त्रसम्पुटं सूत्रं विधायाभ्यर्च्चयेद्धृदा ।
सूत्रं शिवेन साङ्गेन कृत्वा सम्पातशोधितं ॥३९॥
निदध्यात् कलशस्याधो रक्षां विज्ञापयेदिति ।
शिष्यं पुष्पं करे दत्वा सम्पूज्य कलशादिकं ॥४०॥
प्रणमय्य वहिर्यायाद् यागमन्दिरमध्यतः ।
मण्डलत्रितयं कृत्वा मुमुक्षूनुत्तराननान् ॥४१॥
भुक्तये पूर्व्ववक्त्रांश्च शिष्यांस्तत्र निवेशयेत् ।
प्रथमे पञ्चगव्यस्य प्राशयेच्चुल्लकत्रयं ॥४२॥
पाणिना कुशयुक्तेन अर्च्चितानन्तरान्तरं ।
चरुन्ततस्तृतीये तु ग्रासत्रितयसम्मितं ॥४३॥
अष्टग्रासप्रमाणं वा दर्शनस्पर्शवर्जितं ।
पालाशपुटके मुक्तौ भुक्तौ पिप्पलपत्रके ॥४४॥
हृदा सम्भोजनं दत्वा पूतैराचामयेज्जलैः ।
दन्तकाष्ठं हृदा कृत्वा प्रक्षिपेच्छोभने शुभं ॥४५॥
न्युनादिदोषमोषाय मूलेनाष्टोत्तरं शतं ।
विधाय स्थण्डिलेशाय सर्व्वकर्म्मसमर्पणं ॥४६॥
पूजाविसर्जनञ्चास्य चण्डेशस्य च पूजनं ।
निर्म्माल्यमपनीयाथ शेषमग्नौ यजेच्चरोः ॥४७॥
कलशं लोकपालंश्च पूजयित्वा विसृज्य च ।
विसृजेद्गणमग्निञ्च रक्षितं यदि वाह्यतः ॥४८॥
वाह्यतो लोकपालानां दत्वा सङ्क्षेपतो बलिं ।
भस्मना शुद्धलोयैर्वा स्नात्वा यागालयं विशेत् ॥४९॥
गृहस्थान् दर्भशय्यायां पूर्वशीर्षान् सुरक्षितान् ।
हृदा सद्भस्मश्य्यायां यतीन् दक्षिणमस्तकान् ॥५०॥
शिखाबद्धशिखानस्त्रसप्तमाणवकान्वितान् ।
विज्ञाय स्नापयेच्छिष्यांस्ततो यायात् पुनर्वहिः ॥५१॥
ओं हिलि हिलि त्रिशूलपाणये स्वाहा ।
पञ्चगव्यञ्चरुं प्राश्य गृहीत्वा दन्तधावनं ।
समाचम्य शिवं ध्यात्वा शय्यामास्थाय पावनीं ॥५२॥
दीक्षागतङ्क्रियाकाण्डं संस्मरन् संविशेद् गुरुः ।
इति सङ्क्षेपतः प्रोक्तो विधिर्दीक्षाधिवासने ॥५३॥
इत्यादिमहापुराणे आग्नेये निर्वाणदीक्षायामधिवासनं नाम त्र्यशीतितमोऽध्यायः ॥
N/A
References : N/A
Last Updated : September 16, 2020
TOP