संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|अग्निपुराण| श्राद्धकल्पः अग्निपुराण महत्व ग्रन्थप्रस्तावना मत्स्यावतारवर्णनम् कूर्मावतारवर्णनम् वराहाद्यवतारवर्णनम् श्रीरामावतारवर्णनम् अयोध्याकाण्डवर्णनं आरण्यककाण्डवर्णनं किष्किन्धाकाण्डर्णनं सुन्दरकाण्डवर्णनं युद्धकाण्डवर्णनं उत्तरकाण्डवर्णनं श्रीहरिवंशवर्णनम् कुरुपाण्डवोत्पच्यादिकथनम् कुरुपाण्डवसङ्ग्रामवर्णनम् पाण्डवचरितवर्णनम् बुद्धाद्यतारकथनम् सृष्टिविषयकवर्णनम् स्वायम्भुववंशवर्णनम् कश्यपवंशवर्णनम् सर्गविषयकवर्णनम् सामान्यपूजाकथनम् स्नानविधिकथनम् पूजाविधिकथनम् वासुदेवादिमन्त्रनिरूपणम् मुद्रालक्षणकथनम् अभिषेकविधानम् सर्वतोभद्रमण्डलकथनम् मण्डलविधिः मार्जनविधानम् संस्कारकथनं पवित्रारोहणविधानम् होमादिविधिः पवित्राधिवासनादिविधिः पवित्राशेपणविधानम् सर्वदेवपवित्राशेहणविधिः देवालयनिर्म्माणफलम् भृपरिग्रहविधानम् अर्घ्यदानविधानम् शिलादिन्यासविधानम् प्रासादलक्षणकथनम् प्रासाददेवतास्थापनम् भूतशान्त्यादिकथनम् वासुदेवादिप्रातिमालक्षणविधिः पिण्डिकालक्षणकथनम् शालग्रामादिमूर्त्तिलक्षणकथनम् शालग्रामादिपूजनकथनम् चतुर्विंशतिमूर्त्तिंस्तोत्रकथनम् मत्स्यादिसक्षणवर्णनम् देवीप्रतिमालक्षणकथनम् सूर्यादिप्रतिमालक्षणम् देवीप्रतिमालक्षणम् लिङ्गलक्षणम् लिङ्गमानादिकथनम् पिण्डिकालक्षणकथनम् दिक्पालयागकथनम् कुम्भाधिवासविधिः स्नानादिविधिः अधिवासकथनम् वासुदेवप्रतिष्ठादिविधिः ध्वजारोहणं लक्ष्मीप्रतिष्ठाविधिः सुदर्शनचक्रादिप्रतिष्ठाकथनं कूपादिप्रतिष्ठाकथनं सभास्थापनकथनं साधारणप्रतिष्ठाविधानं जीर्णोद्धारविधानं यात्रोत्सवविधिकथनं स्नानविधानं अध्याय ७० -पादपारामप्रतिष्ठाकथनं अग्नि पुराण अग्नि पुराण सुदर्शनचक्रादिप्रतिष्ठाकथनम् अग्निस्थापनादिप्रतिष्ठाकथनम् अग्निस्थापनादिप्रतिष्ठाकथनम् कपिलादिपूजाविधानम् पवित्रारोहणकथनम् पवित्रारोहणविधि दमनकारोहणावेधिः समयदीक्षाविधानम् संस्कारदीक्षाकथनम् निर्वाणादीक्षाकथनम् निर्वाणदीक्षाविधानम् प्रतिष्ठाकलाशोधनोक्तिः विद्याविशोधनविधानम् शान्तिशोधनकथनम् निर्वाणदीक्षाकथनम् एकतत्त्वदीक्षाकथनम् अभिषेकादिकथनम् विविधमन्त्रादिकथनम् प्रतिष्ठाविधिकथनम् वास्तुपूजादिविधानम् शिलाविन्यासविधानम् प्रतिष्ठासामग्रीविधानम् अधिवासनविधिः शिवप्रतिष्ठाकथनम् गौरीप्रतिष्ठाकथनम् अध्याय ९९- सूर्यप्रतिष्ठाकथनं द्वारप्रतिष्ठा प्रासादप्रतिष्ठा ध्वजारोपणं जीर्णोद्धारः सामान्यप्रासादलक्षणं गृहादिवास्तुर्नामः नगरादिवास्तुः स्वायम्भुवसर्गः भुवनकोषः तीर्थमाहात्म्यम् गङ्गामाहात्म्यं प्रयागमाहात्म्यं वाराणसीमाहात्म्यम् नर्मदादिमाहात्म्यम् गयामाहात्म्यम् गयायात्राविधिः गयायात्राविधिः श्राद्धकल्पः भारतवर्षं महाद्वीपादि भुवनकोषः ज्योतिःशास्त्रं कालगणनं युद्धजयार्णवीयनानायोगाः युद्धजयार्णवीयज्योतिःशास्त्रसारः युद्धजयार्णवीयनानाचक्राणि नक्षत्रनिर्णयः नानाबलानि कोटचक्रम् अर्घकाण्डम् घातचक्रं घातचक्रादि सेवाचक्रम् नानाबलानि त्रैलोक्यविजयविद्या सङ्ग्रामविजयविद्या नक्षत्रचक्रं महामारीविद्या षट्कर्माणि षष्टिसंवत्सराः वश्यादियोगाः षट्त्रिंशत्पदकज्ञानम् मन्त्रौषधादिः कुब्जिकापूजा कुब्जिकापूजा मालिनीनानामन्त्राः अष्टाष्टकदेव्यः त्वरितापूजादिः सङ्ग्रामविजयपूजा लक्षकोटिहोमः मन्वन्तराणि वर्णेतरधर्माः गृहस्थवृत्तिः ब्रह्मचर्याश्रमधर्मः विवाहः आचारः द्रव्यशुद्धिः शावाशौचादिः स्रावाद्याशौचं असंस्कृतादिशौचं वानप्रस्थाश्रमः यतिधर्मः धर्मशास्त्रकथनं श्राद्धकल्पकथनं नवग्रहहोमः नानाधर्माः वर्णधर्मादिकथनं अयुतलक्षकोटिहोमाः महापातकादिकथनम् प्रायश्चित्तानि प्रायश्चित्तानि प्रायश्चित्तानि सर्वपापप्रायश्चित्तानि प्रायश्चित्तं प्रायश्चित्तानि व्रतपरिभाषा प्रतिपद्व्रतानि द्वितीयाव्रतानि तृतीयाव्रतानि चतुर्थीव्रतानि पञ्चमीव्रतानि सप्तमीव्रतानि षष्ठीव्रतानि सप्तमीव्रतानि जयन्त्यष्टमीव्रताणी अष्टमीव्रतानि नवमीव्रतानि दशमीव्रतानि एकादशीव्रताणी नानाद्वादशीव्रतानि श्रवणद्वादशीव्रतम् अखण्डद्वादशीव्रतं त्रयोदशी व्रतानि चतुर्दशीव्रतानि शिवरात्रिव्रतम् अशोकपूर्णिमादिव्रतं वारव्रतानि नक्षत्रव्रतानि दिवसव्रतानि मासव्रतानि नानाव्रतानि दीपदानव्रतं नवव्यूहार्चनं पुष्पाध्यायकथनं नरकस्वरूपम् मासोपवासव्रतं भीष्मपञ्चकव्रतं अगस्त्यार्घ्यदानकथनं कौमुदव्रतं व्रतदानादिसमुच्चयः दानपरिभाषाकथनं महादानानि नानादानानि मेरुदानानि पृथ्वीदानानि मन्त्रमाहात्म्यं सन्ध्याविधिः गायत्रीनिर्वाणं गायत्रीनिर्वाणं राज्यभिषेकः अभिषेकमन्त्राः सहायसम्पत्तिः अनुजीविवृत्तं दुर्गसम्पत्तिः राजधर्माः स्त्रीरक्षादिकामशास्त्रं राकजधर्मो सामाद्युपायो दण्डप्रणयनं युद्धयात्रा स्वप्नाध्यायः शकुनानि शकुनानि शकुनानि यात्रामण्डलचिन्तादिः षाड्गुण्यम् प्रात्यहिकराजकर्म रणदीक्षा श्रीस्तोत्रम् रामोक्तनीतिः राजधर्माः षाड्गुण्यम् सामादिः राजनीतिः पुरुषलक्षणम् स्त्रीलक्षणम् चामरादिलक्षणम् रत्नपरीक्षा वास्तुलक्षणम् पुष्पादिपूजाफलम् धनुर्वेदः धनुर्वेदकथनम् धनुर्वेदकथनम् धनुर्वेदकथनम् व्यवहारकथनम् व्यवहारकथनम् दिव्यानि प्रमाणानि दायविभागकथनम् सीमाविवादादिनिर्णयः वाक्पारुष्यादिप्रकरणम् ऋग्विधानम् यजुर्विधानम् सामविधानम् अथर्ववविधानम् उत्पातशान्तिः देवपूजावैश्वदेवबलिः दिक्पालादिस्नानम् विनायकस्नानम् माहेश्वरस्नानलक्षकोटिहोमादयः नीराजनाविधिः छत्रादिमन्त्रादयः विष्णुपञ्जरम् वेदशाखादिकीर्तनम् दानादिमाहात्म्यम् सूर्य्यवंशकीर्त्तनम् सोमवंशवर्णनम् यदुवंशवर्णनम् द्वादशसङ्ग्रामाः राजवंशवर्णनम् पुरुवंशवर्णनम् सिद्धौषधानि सर्वरोगहराण्यौषधानि रसादिलक्षणम् वृक्षायुर्वेदः नानारोगहराण्यौषधानि मन्त्ररूपौषधकथनम् मृतसञ्जीवनीकरसिद्धयोगः कल्पसागरः गजचिकित्सा अछश्ववाहनसारः अश्वचिकित्सा अश्वशान्तिः गजशान्तिः शान्त्यायुर्वेदः मन्त्रपरिभाषा नागलक्षणानि दष्टचिकित्सा पञ्चाह्गरुद्रविधानम् विषहृन्मन्त्रौषधम् गोनसादिचिकित्सा बालग्रहहरबालतन्त्रम् ग्रहहृन्मन्त्रादिकम् सूर्य्यार्च्चनम् नानामन्त्राः अङ्गाक्षरार्च्चनम् पञ्चाक्षरादिपूजामन्त्राः पञ्चपञ्चाशद्विष्णुनामानि नारसिंहादिमन्त्राः त्रैलोक्य मोहननम्त्राः त्रैलोक्यमोहनीलक्ष्म्यादिपूजा त्वरितापूजा त्वरितामन्त्रादिः त्वरितामूलमन्त्रादिः त्वरिताविद्या नानामन्त्राः त्वरिताज्ञानम् ग्रन्थप्रस्तावना नानामन्त्राः सकलादिमन्त्रोद्धारः गणपूजा वागीश्वरीपूजा मण्डलानि अघोरास्त्रादिशान्तिकल्पः पाशुपतशान्तिः षडङ्गान्यघोरास्त्राणि रुद्रशान्तिः अंशकादिः गौर्य्यादिपूजा देवालयमाहात्म्यम् छन्दःसारः छन्दःसारः छन्दःसारः छन्दोजातिनिरूपणम् विषमकथनम् अर्द्धसमनिरूपणम् समवृत्तनिरूपणम् ग्रन्थप्रस्तावना शिक्षानिरूपणम् काव्यादिलक्षणं नाटकनिरूपणम् शृङ्गारादिरसनिरूपणम् रीतिनिरूपणम् नृत्यादावङ्गकर्म्मनिरूपणम् अभिनयादिनिरूपणम् शब्दालङ्काराः अर्थालङ्गाराः शब्दार्थालङ्काराः काव्यगुणविवेकः काव्यदोषविवेकः एकाक्षराभिधानम् व्याकरणम् सन्धिसिद्धरूपम् सुब्विभक्तिसिद्धरूपम् स्त्रीलिङ्गशब्दसिद्धरूपम् नपुंसकशब्दसिद्धरूपम् कारकम् समासः तद्धितम् उणादिसिद्धरूपम् तिङ्विभक्तिसिद्धरूपम् कृत्सिद्धरूपम् स्वर्गपातालादिवर्गाः अव्ययवर्गानाम नानार्थवर्गा भूमिवनौषध्यादिवर्गाः नृब्रह्मक्षत्रविट्शूद्रवर्गाः ब्रह्मवर्गः क्षत्रविट्शूद्रबर्गाः सामान्यनामलिङ्गानि नित्यनैमित्तिकप्राकृतप्रलयाः नित्यनैमित्तिकप्राकृतप्रलयाः आत्यन्तिकलयगर्भोत्पत्तिनिरूपणम् नरकनिरूपणम् यमनियमाः आसनप्राणायामप्रत्याहाराः ध्यानम् धारणा समाधिः ब्रह्मज्ञानम् ब्रह्मज्ञानम् ब्रह्मज्ञानम् अद्वैतब्रह्मविज्ञानम् गीतासारः यमगीता आग्न्येयपुराणमाहात्म्यम् अध्याय ११७ - श्राद्धकल्पः भगवान् अग्निदेवांनी या अग्नि पुराणात चौसष्ट योगनींचे का सविस्तार वर्णन केले आहे. Tags : agnipuranpuransanskritअग्निपुराणपुराणसंस्कृत श्राद्धकल्पः Translation - भाषांतर अग्निरुवाचकात्यायनी मुनीनाह यथा श्राद्धं तथा वदे ॥१॥गयादौ श्राद्धं कुर्वीत सङ्क्रान्त्यादौ विशेषतः ॥१॥काले वापरपक्षे च चतुर्थ्या ऊर्ध्वमेव व ॥२॥सम्याद्य च पदर्क्षे च(१) पूर्वेद्युश्च निमन्त्रयेत् ॥२॥यतीन् गृहस्थसाधून् वा स्नातकाञ्छ्रोत्रियान् द्विजान् ॥३॥अनवद्यान् कर्मनिष्ठान् शिष्टानाचारसंयुतान्(२) ॥३॥टिप्पणी१ सम्पाद्य परमर्क्षे चेति छ..२ आचारसंस्कृतानिति ग.. , ज.. चवर्जयेच्छित्रिकुष्ठ्यादीन्न गृह्णीयान्निमन्त्रितान् ॥४॥स्नाताञ्छुचींस्तथा दान्तान् प्राङ्मुखान् देवकर्मणि ॥४॥उपवेशयेत्त्रीन् पित्र्यादीनेकैकमुभयत्र वा ॥५॥एवं मातामहादेश्च शाकैरपि च कारयेत् ॥५॥तदह्नि ब्रह्मचारी स्यादकोपोऽत्वरितो मृदुः(१) ॥६॥सत्योऽप्रमत्तोऽनध्वन्यो अस्वाध्यायश्च(२) वाग्यतः ॥६॥सर्वांश्च पङ्क्तिमूर्धन्यान् पृच्छेत्प्रश्ने तथासने ॥७॥दर्भानास्तीर्य द्विगुणान् पित्रे देवादिकञ्चरेत् ॥७॥विश्वान्देवानावाहयिष्ये पृच्छेदावाहयेति च ॥८॥विश्वेदेवास आवाह्य विकीर्याथ यवान् जपेत् ॥८॥विश्वे देवाः शृणुतेमं पितॄनावाहयिष्ये च ॥९॥पृच्छेदावाहयेत्युक्ते उशन्तस्त्वा समाह्वयेत् ॥९॥तिलान् विकीर्याथ जपेदायान्त्वित्यादि पित्रके ॥१०॥सपित्रित्रे निषिञ्चेद्वा शन्नो देवीरभि तृचा ॥१०॥यवोऽसीति यवान् दत्वा पित्रे सर्वत्र वै तिलान् ॥११॥तिलोऽसि सोमदेवत्यो गोसवो देवनिर्मितः ॥११॥प्रत्नमद्भिः पृक्तः स्वधया पितॄन् लोकान् प्रीणाहि नः स्वधा । इतिश्रीश्च तेति ददेत्पुष्पं पात्रे हैमेऽथ राजते ॥११॥औदुम्वरे वा खड्गे वा पर्णपात्रे प्रदक्षिणम् ॥१२॥देवानामपसव्यं तु पितॄणां सव्यमाचरेत् ॥१२॥टिप्पणी१ अत्वरितोऽत्यृजुरिति ङ..२ सत्ये प्रपन्नोऽनध्वन्यो ह्यस्वाध्यायश्चेति ख.. , घ.. चएकैकस्य एकैकेन सपवित्रकरेषु च ॥१३॥या दिव्या आपः पयसा सम्बभूवुर्या अन्तरिक्षा उतपार्थिवीर्याःहिरण्यवर्णा यज्ञियास्ता न आपः शिवाः संश्योनाः सुहवा भवन्तु ॥विश्वे देवा एष वोऽर्घः स्वाहा च पितरेष ते ॥१३॥अवधैवं पितामहदेः संस्रवात्प्रथमे चरेत्(१) ॥१४॥पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः ॥१४॥अत्र गन्धपुष्पधूपदीपाच्छादनदानकं ॥१५॥घृताक्तमन्नमुद्धृत्य पृच्छत्यग्नौ करिष्ये च ॥१५॥कुरुष्वेत्यभ्यनुज्ञातो जुहुयात्साग्निकोऽनले ॥१६॥अनग्निकः पितृहस्ते(२) सपवित्रे तु मन्त्रतः ॥१६॥अग्नये कव्यवाहनाय स्वाहेति(३) प्रथमाहुतिः ॥१७॥सोमाय पितृमतेऽथ यमायाङ्गिरसे परे ॥१७॥हुतशेषं चान्नपात्रे दत्वा पात्रं समालभेत् ॥१८॥पृथिवी ते पात्रन्द्यौः पिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहोमि स्वाहेतिजप्त्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठन्निवेशयेत् ॥१८॥अपहतेति च तिलान् विकीर्यान्नं प्रदाययेत् ॥१९॥जुषध्वमिति चोक्त्वाथ गायत्र्यादि ततो जपेत् ॥१९॥टिप्पणी१ एकैकस्येत्यादिः, प्रथमे चरेदित्यन्तः पाठो झ.. पुस्तके नास्ति२ अनग्निको जले चैवेति ङ..३ स्वधेति क..देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ॥२०॥नमः स्वधायै स्वाहयै नित्यमेव नमो नमः(१) ॥२०॥तृप्तान् ज्ञात्वान्नं विकिरेदपो दद्यात्सकृत्सकृत् ॥२१॥गायत्रीं पूर्ववज्जप्त्वा मधु मध्विति वै जपेत् ॥२१॥तृप्ताः स्थ इति सम्पृच्छेत्तृप्ताः स्म इति वै वदेत् ॥२२॥शेषमन्नमनुज्ञाप्य सर्वमन्नमथैकतः ॥२२॥उद्धृत्योच्छिष्टपार्श्वे तु कृत्वा चैवावनेजनं ॥२३॥दद्यात्कुशेषु त्रीन् पिण्डानाचान्तेषु परे जगुः ॥२३॥आचान्तेषूदकं पुष्पाण्यक्षतानि प्रदापयेत् ॥२४॥अक्षय्योदकमेवाथ आशिषः प्रार्थयेन्नरः(२) ॥२४॥अघोराः पितरः सन्तु गोत्रन्नो वर्धतां सदा ॥२५॥दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ॥२५॥श्रद्धा च नो माव्यगमद्बहुदेयं च नोऽस्त्विति ॥२६॥अन्नञ्च नो बहु भवेदतिथींश्च लभेमहि ॥२६॥याचितारश्च नः सन्तु मा च याचिस्म कञ्चन ॥२७॥स्वधावाचनीयान् कुशानास्तीर्य सपवित्रकान्(३) ॥२७॥स्वधां वाचयिष्ये पृच्छेदनुज्ञातश्च वाच्यतां ॥२८॥पितृभ्यः पितामहेभ्यः प्रपितामहमुख्यके ॥२८॥स्वधोच्यतामस्तु स्वधा उच्यमानस्तथैव च ॥२९॥अपो निषिञ्चेदुत्तानं पात्रं कृत्वाथ दक्षिणां ॥२९॥टिप्पणी१ स्वाहायै नित्यमेव भवन्त्विति इति ख.. , छ.. च२ प्रार्थयेत्तत इति घ.. , ज.. , झ.. च३ अघोराः पितर इत्यादिः, आस्तीर्य सपवित्रकानित्यन्तः पाठः ख.. , छ.. पुस्तकद्वये नास्तियथाशक्ति प्रदद्याच्च दैवे पैत्रेऽथ वाचयेत् ॥३०॥विश्वे देवाः प्रीयन्ताञ्च वाजे विसर्जयेत् ॥३०॥आमावाजस्येत्यनुव्रज्य कृत्वा विप्रान् प्रदक्षिणं ॥३१॥गृहे विशेदमावास्यां मासि मासि चरेत्तथा ॥३१॥एकोद्दिष्टं प्रवक्ष्यामि श्राद्धं पूर्ववदाचरेत् ॥३२॥एकं पवित्रमेकार्धं एकं पिण्डम्प्रदापयेत् ॥३२॥नावाहनाग्नौकरणं विश्वे देवा न चात्र हि ॥३३॥तृप्तिप्रश्ने स्वदितमिति वदेत्सुखदितं द्विजः ॥३३॥उपतिष्ठतामित्यक्षय्ये विसर्गे चाभिरम्यतां ॥३४॥अभिरताः स्म इत्यपरे शेषं पूर्ववदाचरेत् ॥३४॥सपिण्ठीकरणं वक्ष्ये अब्दान्ते मध्यतोऽपि वा ॥३५॥पितॄणां त्रीणि पात्राणि एकम्प्रेतस्य पात्रकं ॥३५॥सपवित्राणि चत्वारि तिलपुष्पयुतानि च ॥३६॥गन्धोदकेन युक्तानि(१) पूरयित्वाभिषिञ्चति ॥३६॥प्रेतपात्रं पितृपात्रे ये समना इति द्वयात् ॥३७॥पूर्ववत्पिण्डदानादि प्रेतानां पितृता भवेत् ॥३७॥अथाभ्युदयिकं श्राद्धं वक्ष्ये सर्वं तु पूर्ववत् ॥३८॥जपेत्पितृमन्त्रवर्जं पूर्वाह्णे तत्प्रदक्षिणं ॥३८॥उपचारा ऋजुकुशास्तिलार्थैश्च यवैरिह(२) ॥३९॥तृप्तिप्रश्नस्तु सम्पन्नं सुसम्पन्नं वदेद्द्विजः ॥३९॥टिप्पणी१ गन्धोदकेन सिक्तानि इति ज..२ अथाभ्युदयिकमित्यादिः, यवैरिह इत्यन्तः पाठो झ.. पुस्तके नास्तिदध्यक्षतवदराद्याः(१) पिण्डा नान्दीमुखान् पितॄन् ॥४०॥आवाहयिष्ये पृच्छेच्च प्रीयन्तामिति चाक्षये ॥४०॥नान्दीमुखाश्च पितरो वाचयिष्येऽथ पृच्छति ॥४१॥नान्दीमुखान् पितृगणान् प्रीयन्तामित्यथो वदेत् ॥४१॥नान्दीमुखाश्च पितरस्तत्पिता प्रपितामहः ॥४२॥मातामहः प्रमातामहो वृद्धप्रमातृकामहः ॥४२॥स्वधाकारन्न युञ्जीत युग्मान् विप्रांश्च भोजयेत् ॥४३॥तृप्तिं वक्ष्ये पितॄणां च ग्राम्यैरोषधिभिस्तथा ॥४३॥मासन्तृप्तिस्तथारण्यैः(२) कन्दमूलफलादिभिः ॥४४॥मत्स्यैर्मासद्वयं मार्गैस्त्रयं वै शाकुनेन च ॥४४॥चतुरो रौरवेणाथ(३) पञ्च षट्छागलेन तु(४) ॥४५॥कूर्मेण सप्त चाष्टौ च वाराहेण नवैव तु ॥४५॥मेषमांसेन दश च माहिषैः पार्षतैः शिवैः ॥४६॥संवत्सरन्तु गव्येन पयसा पायसेन वा ॥४६॥वार्धीनसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥४७॥खड्गमांसं कालशाकं लोहितच्छागलो(५) मधु ॥४७॥महाशल्काश्च वर्षासु मघाश्राद्धमथाक्षयं(६) ॥४८॥मन्त्राध्याय्यग्निहोत्री च शाखाध्यायी षडङ्गवित् ॥४८॥तृणाचिकेतः त्रिमधुर्धर्मद्रोणस्य(७) पाठकः ॥४९॥त्रिषुपर्णज्येष्ठसामज्ञानी स्युः पङ्क्तिपावनाः ॥४९॥टिप्पणी१ दध्यक्षतवदर्याद्या इति ग.. , छ.. च२ तथा वन्यैरिति ख.. , ङ.. च३ वत्सरं रौरवेणाथेति घ..४ पञ्चकं छागस्तेन तु इति ङ..५ लोहितच्छागक इति ग.. , घ.. , ङ.. च६ मघाश्राद्धमिहाक्षयमिति झ..७ जलद्रोणस्येति झ..कम्यानां कल्पमाख्यास्ये(१) प्रतिपत्सु धनं बहु ॥५०॥स्त्रियः परा द्वितीयायाञ्चतुर्थ्यां धर्मकामदः ॥५०॥पञ्चम्यां पुत्रकामस्तु षष्ठ्याञ्च श्रैष्ठ्यभागपि(२) ॥५१॥कृषिभागी च सप्तम्यामष्टम्यामर्थलाभकः ॥५१॥नवम्याञ्च एकशफा(३) दशम्याङ्गोगणो भवेत् ॥५२॥एकदश्यां परीवारो द्वादश्यान्धनधान्यकं ॥५२॥ज्ञातिश्रेष्ठ्यं त्रयोदश्यां चतुर्दश्याञ्च शस्त्रतः(४) ॥५३॥मृतानां श्राद्धं सर्वाप्तममावास्यां समीरितं(५) ॥५३॥सप्त व्याधा दशारण्ये(६) मृगाः कालञ्जरे गिरौ ॥५४॥चक्रवाकाः शरद्वीपे हंसाः सरसि मान्से ॥५४॥तेऽपि जाताः(७) कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ॥५५॥प्रस्थिता दूरमध्वानं यूयन्तेभ्योऽवसीदत ॥५५॥श्राद्धादौ पठिते श्राद्धं पूर्णं स्याद्ब्रह्मलोकदं ॥५६॥श्राद्धं कुर्याच्च पुत्रादिः(८) पितुर्जीवति तत्पितुः ॥५६॥तत्पितुस्तत्पितुः कुर्याज्जीवति प्रपितामहे ॥५७॥पितुः पितामस्हस्याथ परस्य प्रपितामात्(९) ॥५७॥टिप्पणी१ कालमाख्यास्ये इति झ.. च२ श्रेष्ठभाग्यपि इति ख.. , ग.. , ङ.. , छ.. च । ज्येष्ठभागपि इति घ..३ नवम्यां वै शफपतिरिति ज..४ चतुर्दश्याञ्च शास्त्रत इति ख.. , घ.. च५ मृतानां श्राद्धं सर्वाप्तिरमावास्या समीरिता इति क..६ दशार्णेषु इति ख.. , ग.. , ङ.. , छ.. च७ तेऽभिजाता इति ख.. , घ.. च८ कुर्यात्सुपुत्रोऽपि इति छ..९ तत्पितुरित्यादिः, प्रपितामहादित्यन्तः पाठो झ.. पुस्तके नास्तिएवं मात्रादिकस्यापि तथा मातामहादिके ॥५८॥श्राद्धकल्पं पठेद्यस्तु स लभेत्श्राद्धकृत्फलं(१) ॥५८॥तीर्थे युगादौ मन्वादौ श्राद्धं दत्तमथाक्षयं ॥५९॥अश्वयुच्छुक्लनवमी द्वादशी कर्तिके तथा ॥५९॥तृतीया चैव माघस्य तथा भाद्रपदस्य च ॥६०॥फाल्गुनस्याप्यमावास्या पौषयैकादशी तथा ॥६०॥आषाढस्यापि दशमी माघमासस्य सप्तमी ॥६१॥श्रावणे चाष्टमी कृष्णा तथाषाढे च पूर्णिमा ॥६१॥कर्तिकी फाल्गुनी तद्वज्ज्यैष्ठे पञ्चदशी सिता ॥६२॥स्वायम्भुवाद्या मनवस्तेषामाद्याः किलाक्षयाः ॥६२॥गया प्रयागो गङ्गा च कुरुक्षेत्रं च नर्मदा ॥६३॥श्रीपर्वतः प्रभासश्च शालग्रामो वराणसी(२) ॥६३॥गोदावरी तेषु श्राद्धं स्त्रीपुरुषोत्तमादिषु ॥६४॥११७.०६४॥इत्याग्नेये महापुराणे श्राद्धकल्पो नाम सप्तदशाधिकशततमोऽध्यायः ॥ N/A References : N/A Last Updated : September 17, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP