संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
चतुर्विंशतिमूर्त्तिंस्तोत्रकथनम्

अध्याय ४८ - चतुर्विंशतिमूर्त्तिंस्तोत्रकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


भगवानुवाच
ओं रूपः केशवः पद्मशङ्खचक्रगदाधरः ।
नारायणः शङ्खपद्मगदाचक्री प्रदक्षिणम् ॥१॥

ततो गदी माधवोरिशङ्खपद्मी नमामि तम् ।
चक्रकौमोदकीपद्मशङ्खी गोविन्द ऊर्जितः ॥२॥

मोक्षदः श्रीगदी पद्मी शङ्खी विष्णुश्च चक्रधृक् ।
शङ्खचक्राब्जगदिनं मधुसूदनमानमे ॥३॥

भक्त्या त्रिविक्रमः पद्मगदी चक्री च शङ्ख्यपि ।
शङ्खचक्रगदापद्मी वामनः पातु मां सदा ॥४॥

गतिदः श्रीधरः पद्मी चक्रशार्ङ्गी च शङ्ख्यपि ॥
हृपीकेशो गदा चक्री पद्मी शङ्खी च पातु नः ॥५॥

वरदः पद्मनाभस्तु शङ्खाब्जारिगदाधरः ।
दामोदरः पद्मशङ्खगदाचक्री नमामि तम् ॥६॥

तेने गदी शङ्खचक्री वासुदेवोब्जभृज्जगत् ।
सङ्कर्षणो गदी शङ्‌खी पद्मी चक्री च पातु वः ॥७॥

गदी चक्री शङ्खगदी प्रद्युम्नः पद्मभृत् प्रभुः ।
अनिरुद्धस्चक्रगदी शङ्खी पद्मी च पातु नः ॥८॥
सुरेशोर्यब्जशङ्खाढ्यः श्रीगदी पुरुपोत्तमः ।
अधोक्षजः पद्मगदी शङखी चक्री च पातु वः ॥९॥

देवो नृसिंहश्चक्राब्जगदाशङ्खी नमामि तम् ।
अच्युतः श्रीगदी पद्मी चक्री शङ्खी च पातु वः ॥१०॥

बालरूपी शङ्खगदी उपेन्द्रश्चक्रपद्म्यपि ।
जनार्द्दनः पद्म चक्री शङ्खधारी गदाधरः ॥११॥

शङ्खीपद्मी च चक्री चहरिः कौमोदकीधरः ।
कृष्णः शङ्खी गदी पद्मी चक्री मे भुक्तिमुक्तिदः ॥१२॥

आदि मूर्त्तिर्वासुदेवस्तस्मात् सङ्कर्पणोभवत् ।
सङ्कर्पणाच्च प्रद्युम्नः प्रद्युम्नादनिरुद्धकः ॥१३॥

केशवादिप्रभेदेन एकैकस्य त्रिधा क्रमात् ।
द्वादशाक्षरकं स्तोत्रं चतुर्विंशातिमूर्त्तिमत् ॥१४॥

यः पठेच्छृणुयाद्वापि निर्मलः सर्वमाप्नुयात् ॥१५॥

इत्यादिमहापुराणे आग्नेये चतुर्विंशतिमूर्त्तिस्तोत्रं नाम अष्टाचत्वारिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP