संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
नपुंसकशब्दसिद्धरूपम्

अध्याय ३५३ - नपुंसकशब्दसिद्धरूपम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


स्कन्द उवाच
नपुंसके किं के कानि किं के कानि ततो जलं ।
सर्वं सर्वे च पूर्वाद्याः सोमपं सोमपानि च ॥१॥

ग्रामणि ग्राणणिनी च ग्रामणि ग्रामणीन्यपि ।
वारि वारिणी वारीणि वारिणां वारिणीदृशं ॥२॥

शुचये शुचिने देहि मृदुने मृदवे तथा ।
त्रपु त्रपुणि त्रपुणाञ्च चखलपूनि खलप्वि च ॥३॥

कर्त्त्त्रा च कर्तृणे कर्त्त्त्रे अतिर्व्यतिरिणान्तथा ।
अभिन्यभिनिनी चैव सुवचांसि सुवाक्षु च ॥४॥

यद्‌यत्‌त्विमे तत् कर्म्माणि इदञ्चेमे त्विमानि च ।
ईदृक्त्वदोऽमुनी अमूनि अमुना स्यादमीषु च ॥५॥

अहमावां वयं मां वै आवामस्मान्मया कृतं ।
आवाभ्याञ्च तथास्माभिर्म्मह्यमस्मभ्यमेव च ॥६॥

मदावाभ्यां मदस्मच्च पुत्रोऽयं मम चावयोः ।
अस्माकमपि चास्मासु त्वं युवां यूयंमीजिरे ॥७॥

त्वां युवाञ्च युष्मांश्च त्वया युष्माभिरीरितं ।
तुभ्यं युवाभ्यां युष्मभ्यं त्वत् युवाभ्याञ्च युष्मत् ॥८॥

तव युवयोर्युष्माकं त्वयि युष्मासु भारती ।
उपलक्षणमत्रैव अज्भ्क्तलन्ताश्च ते स्मृताः ॥९॥

इत्यादिमहापुराणे आग्नेये व्याकरणे नपुंसकशब्दसिद्धरूपं नाम त्रिपञ्चाशदधिक
त्रिशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP