संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
काव्यदोषविवेकः

अध्याय ३४७ - काव्यदोषविवेकः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
उद्वेगजनको दोषः सभ्यानां स च सप्तधा ।
वक्तृवाचकवाच्यानामेकद्वित्रिनियोगतः ॥१॥

तत्र वक्ता कविर्नाम प्रथते स च भेदतः ।
सन्दिहानोऽविनीतः सन्नज्ञो ज्ञाता चतुर्व्विंधः ॥२॥

निमित्तपरिभाषाभ्यामर्थसंस्पर्शिवाचकम् ।
तद्‌भेदो पदवाक्ये द्वे कथितं लक्षणं द्व्योः ॥३॥

असाधुत्वाप्रयुक्तत्वे द्वावेव पदनिग्रहौ ।
शब्दशास्त्रविरुद्धत्वमसाधुत्वं विदुर्बुधाः ॥४॥

व्युत्पन्नैरनिबद्धत्वमप्रयुक्तत्वमुच्यते ।
छान्दसत्वमविस्पष्टत्वञ्च कष्टत्वमेव च ॥५॥

तदसामयिकत्वञ्च ग्राम्यत्वञ्चेति पञ्चधा ।
छान्दसत्वं न भाषायामविस्पष्टमबोधतः ॥६॥

गूढ़ार्थता विपर्य्यस्तार्थता संशयितार्थता ।
अविस्पष्टार्थता भेदास्तत्र गूढ़ार्थतेति सा ॥७॥

यत्रार्थो दुःखसंवेद्यो विपर्य्यस्तार्थ्ता पुनः ।
विवक्षितान्यशब्दार्थप्रतिपत्तिर्मलीमसा ॥८॥

अन्यार्थत्वासमर्थत्वे एतामेवोपसर्पतः ।
सन्दिह्यमानवाच्यत्वमाहुः संशयितार्थतां ॥९॥

दोषत्वमनुबध्नाति सज्जनोद्वेजनादृते ।
असुखोच्चार्य्यमाणत्वं कष्टत्वं समयाच्युतिः ॥१०॥

असामयितता नेयामेताञ्च मुनयो जगुः ।
ग्राम्यता तु जघन्यार्थप्रतिपत्तिः शलीकृता ॥११॥

वक्तव्यग्राम्यवाच्यस्य वचनात्स्मरणादपि ।
तद्वाचकपदेनाभिसाम्याद्भवति सा त्रिधा ॥१२॥

दोषः साधारणः प्रातिस्विकोऽर्थस्य स तु द्विधा ।
अनेकभागुपालम्भः साधारण इति स्मृतः ॥१३॥

क्रियाकारकयोर्भ्रंशो विसन्धिः पुनरुक्तता ।
व्यस्तसम्बन्धता चेति पञ्च साधारणा मताः ॥१४॥

अक्रियत्वं त्रियाभ्रंशो भ्रष्टकारकता पुनः ।
सर्त्त्र्यादिकारकाभावो विसन्धिः सन्धिदूषणम् ॥१५॥

विगतो वा विरुद्धो वा सन्धिः स भवति द्विधा ।
सन्धेर्व्विरुद्धता कष्टपादादर्थान्तरागमात् ॥१६॥

पुनरुक्तत्वमाभीक्ष्ण्यादभिधानं द्विधैव तत् ।
अर्थावृत्तिः पदावृत्तिरर्थावृत्तिरपि द्विधा ॥१७॥

प्रयुक्त वरशब्देन तथा शब्दान्तरेण च ।
नावर्त्तते पदावृत्तौ वाच्यमावर्त्तते पदम् ॥१८॥

व्यस्तसम्बन्धता सुष्ठुसम्बन्धो व्यवधानतः ।
सम्बन्धान्तरनिर्भाषात् सम्बन्धान्तरजन्मनः ॥१९॥

अभावेपि तयोरन्तर्व्यवधानात्त्त्रिधैव सा ।
अन्तरा पदवाक्याभ्यां पुनर्द्विधा ॥२०॥

वाच्यमर्थार्थ्यमानत्वात्तद्‌द्विधा पदवाक्ययोः ।
व्युत्पादितपूर्व्ववाच्यं व्युत्पाद्यञ्चेति भिद्यते ॥२१॥

इष्टव्याघातकारित्वं हेतोः स्यादसमर्थता ।
असिद्धत्वं विरुद्धत्वमनैकान्तिकता तथा ॥२२॥

एवं सत्प्रतिपक्षत्वं कालातीतत्वसङ्करः ।
पक्षे सपक्षे नास्तित्वं विपक्षेऽस्तित्वमेव तत् ॥२३॥

काव्येषु परिषद्यानां न भवेदप्यरुन्तुदम् ।
एकादशनिरर्थत्वं दुष्करादौ न दुष्यति ॥२४॥

दुःखीकरोति दोषज्ञान् गूढार्थत्वं न दुष्करे ।
न ग्राम्यतोद्वेगकारी प्रसिद्धेर्ल्लोकशास्त्रयोः ॥२५॥

क्रियाभ्रंशेन लक्ष्मास्ति क्रियाध्याहारयोगतः ।
भ्रष्टकारकताक्षेपबलाध्याहृतकारके ॥२६॥

प्रगृह्यो गृह्यते नैव क्षतं विगतसन्धिना ।
कष्टपाठाद्विसन्धित्वं दुर्व्वचादौ न दुर्भगम् ॥२७॥

अनुप्रासे पदावृत्तिर्व्यस्तसम्बन्धता शुभा ।
नार्थसंग्रहणे दोषो व्युत्क्रमाद्यैर्न्न लिप्यते ॥२८॥

विभक्तिसंज्ञालिङ्गानां यत्रोद्वेगो न धीमतां ।
संख्यायास्तत्र भिन्नत्वमुप्मानोपमेययोः ॥२९॥

अनेकस्य तथैकेन बहूनां बहुभिः शुभा ।
कवीनां समुदाचारः समयो नाम गीयते ॥३०॥

सामान्यश्च विशिष्टश्च धर्म्मवद्भवति द्विधा ।
सिद्धसैद्धान्तिकानाञ्च कवीनाञ्चाविवादतः ॥३१॥

यः प्रसिध्यति सामान्य इत्यसौ समयो मतः ।
सर्व्वे सिद्धान्तिका येन सञ्चरन्ति निरत्ययं ॥३२॥

कियन्त एव वा येन सामान्यस्तेन स द्विधा ।
छेदसिद्धान्ततोऽन्यः स्यात् केषाञ्चिद्‌ भ्रान्तितो यथा ॥३३॥

तर्कज्ञानां मुनेः कस्य कस्यचित् क्षणभङ्गिका ।
भूतचैतन्यता कस्य ज्ञानस्य सुप्रकाशता ॥३४॥

प्रज्ञातस्थूलताशबप्दानेकान्तत्वं तथार्हतः ।
शैववैष्णवशाक्तेयसौरसिद्धान्तिनां मतिः ॥३५॥

जगतः कारणं ब्रह्म साङ्‌ख्यानां सप्रधानकं ।
अस्मिन् सरस्वतीलोके सञ्चरन्तः परस्परम् ॥३६॥

बध्नन्ति व्यतिपश्यन्तो यद्विशिष्टः स उच्यते ।
परिग्रहादप्यसतां सतामेवापरिग्रहात् ॥३७॥

भिद्यमानस्य तस्यायं द्वैविध्यमुपगीयते ।
प्रत्यज्ञादिप्रमाणैर्यद्बाधितं तदसद्विदुः ॥३८॥

कविभिस्तत् प्रतिग्राह्यं ज्ञानस्य द्योतमानता ।
यदेवार्थक्रियाकारि तदेव परमार्थसत् ॥३९॥

अज्ञानाज्ज्ञानतस्त्वेकं ब्रह्मैव परमार्थसत् ।
विष्णुः स्वर्गादिहेतुः स शब्दालङ्काररूपवान् ॥४०॥

अपरा च परा विद्या तां ज्ञात्वा मुच्यते भवात् ॥४१॥

इत्यादिमहापुराणे आग्नेये अलङ्कारे काव्यदोषविवेको नाम सप्तचत्वारिंशदधिकत्रिशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP