संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
सृष्टिविषयकवर्णनम्

अध्याय १७ - सृष्टिविषयकवर्णनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
जगत्सर्गादिकां क्रीडां विष्णोर्वक्ष्येधुना श्रृणु ।
स्वर्गादिकृत् स सर्गादिः सृष्ट्यादिः सगुणोगुणः ॥१॥

ब्रह्माव्यक्तं सदाग्रेऽभूत् न खं रात्रिदिनादिकम् ।
प्रकृतिं पुरुषं विष्णुः प्रविश्याक्षोभयत्ततः ॥२॥

सर्गकाले महत्तत्त्वमहङ्कारस्ततोऽभवत् ।
वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ॥३॥

अहङ्काराच्छब्दमात्रमाकाशमभवत्ततः ।
स्पर्शमात्रोऽनिलस्तस्माद्रूपमात्रोऽनलस्ततः ॥४॥

रसमात्रा आप इतो गन्धमात्रा मही स्मृता ।
अहङ्कारात्तामसात्तु तैजसानी न्द्रियाणि च ॥५॥

वैकारिका दशदेवा मन एकादशेन्द्रियम् ।
ततः स्वयम्भूर्भगवान् सिसृक्षुर्विविधाः प्रजाः ॥६॥

अप एव ससर्जादौ तासु वीर्यमवासृजत् ।
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥७॥

अयनन्तस्य ताः पूर्वन्तेन नारायणः स्मृतः ।
हिरण्यवर्णमभवत् तदण्डमुदकेशयम् ॥८॥

तस्मिन् जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति नः श्रुतम् ।
हिरण्यगर्भो भगवानुषित्वा परिवत्सरम् ॥९॥

तदण्डमकरोद् द्वैधन्दिवं भुवमथापि च ।
तयोः शकलयोर्म्मध्ये आकाशमसृजत् प्रभुः ॥१०॥

अप्सुं पारिप्लवां पृथ्वीं दिशश्च दशधा दधे ।
तत्र कालंमनोवाचं कामं क्रोधमयो रतिम् ॥११॥

ससर्ज सृष्टिन्तद्रूपां स्त्रष्टुमिच्छन् प्रजापतिः ।
विद्युतोशनिमेघांश्च रोहितेन्द्रधनूंषि च ॥१२॥

वयांसि च ससर्जादौ पर्जन्यञ्चाथ वक्त्रतः ।
ऋचो यजूंषि सामानि निर्ममे यज्ञासिद्धये ॥१३॥

साध्यास्तैरयजन्देवान् भूतमुच्चावचं भुजात् ।
सनत्कुमारं रुद्रञ्च ससर्ज्ज क्रोधसम्भवम् ॥१४॥

मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ।
वसिष्ठं मानसाः सप्त ब्रह्माण इति निश्चिताः ॥१५॥

सप्तैते जनयन्ति स्म प्रजा रुद्रश्च सत्तम ।
द्विधा कृत्वात्मनो देहमर्द्धेन पुरुषोऽभवत्॥
अर्द्धेन नारी तस्यां स ब्रह्मा वै चासृजत् प्रजाः ॥१६॥

N/A

References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP