संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
महादानानि

अध्याय २१० - महादानानि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
सर्वदानानि वक्ष्यामि महादानानि षोडश ॥१॥
तुलापुरुष आद्यन्तु हिरण्यगर्भदानकं ॥१॥
ब्रह्माण्डं कल्पवृक्षश्च गोसहस्रञ्च पञ्चमं ॥२॥
हिरण्यकामधेनुश्च हिरण्याश्वश्च सप्तमं ॥२॥
हिरण्याश्वरथस्तद्वद्धेमहस्तिरथस्तथा ॥३॥
पञ्चलाङ्गलकन्तद्वद्धरादानं तथैव च ॥३॥
टिप्पणी
१ समुत्पाताद्यपापहृतिति ङ.. । समुत्पातादिपापहृदिति घ..
विश्वचक्रं कल्पलता सप्तसागरकं परं ॥४॥
रत्नधेनुर्महाभूतघटः शुभदिनेऽर्पयेत् ॥४॥
मण्डपे मण्डले दानं देवान् प्रार्च्यार्पयेद्द्विजे ॥५॥
मेरुदानानि पुण्यानि मेरवो दश तान् शृणु ॥५॥
धान्यद्रोणसहस्रेण उत्तमोऽर्धार्धतः परौ ॥६॥
उत्तमः षोडशद्रोणः कर्तव्यो लवणाचलः ॥६॥
दशभारैर्गुडाद्रिः स्यादुत्तमोऽर्धार्धतः परौ ॥७॥
उत्तमः पलसाहस्रैः स्वर्णमेरुस्तथा परौ ॥७॥
दशद्रोणैस्तिलाद्रिः स्यात्पञ्चभिश्च त्रिभिः क्रमात् ॥८॥
कार्पासपर्वतो विंशभारैश्च दशपञ्चभिः ॥८॥
विंशत्या घृतकुम्भानामुत्तमः स्याद्घृताचलः(१) ॥९॥
दशभिः पलसाहस्रैरुत्तमो रजताचलः ॥९॥
अष्टभारैः शर्कराद्रिर्मध्यो मन्दोऽर्द्धतोऽर्द्धतः ॥१०॥
दश धेनूः प्रवक्ष्यामि या दत्त्वा भुक्तिमुक्तिभाक् ॥१०॥
प्रथमा गुडधेनुः स्याद्घृतधेनुस्तथापरा ॥११॥
तिलधेनुस्तृतीया च चतुर्थी जलधेनुका ॥११॥
क्षीरधेनुर्मधुधेनुः शर्करादधिधेनुके ॥१२॥
रसधेनुः स्वरूपेण दशमी विधिरुच्यते ॥१२॥
कुम्भाः स्युर्द्रवधेनूनामितरासान्तु राशयः ॥१३॥
कृष्णाजिनञ्चतुर्हस्तं प्राग्ग्रीवं विन्यसेद्भुवि ॥१३॥
गोमयेनानुलिप्तायां दर्भानास्तीर्य सर्वतः ॥१४
टिप्पणी
१ अत्र रत्नाचलबोधकपाठः पतितः दशविधाचलविभागस्य प्रतिज्ञातत्वात्मत्स्यपुराणीयसप्तसप्तत्यध्याये रत्नशैलस्तथाष्टम इत्यनेन रत्नाचलस्य दशविधाचलान्तर्गतत्वेनोल्लेखनाच्च
लघ्वैणकाजिनं तद्वद्वत्सस्य परिकल्पयेत् ॥१४॥
प्राङ्मुखीं कल्पयेद्धेनुमुदक्पादां सवत्सकां ॥१५॥
उत्तमा गुडधेनुः स्यात्सदा भारचतुष्टयात् ॥१५॥
वत्सं भारेण कुर्वीत भाराभ्यां मध्यमा स्मृता ॥१६॥
अर्धभारेण वत्सः स्यात्कनिष्ठा भारकेण तु ॥१६॥
चतुर्थांशेन वत्सः स्याद्गुडवित्तानुसारतः ॥१७॥
पञ्च कृष्णलका माषस्ते सुवर्णस्तु षोडश ॥१७॥
पलं सुवर्णाश्चत्वारस्तुला पलशतं स्मृतं ॥१८॥
स्याद्भारो विंशतितुला द्रोणस्तु चतुराढकः ॥१८॥
धेनुवत्सौ गुडस्योभौ सितसूक्ष्माम्बरावृतौ ॥१९
शुक्तिकर्णाविक्षुपादौ शुचिमुक्ताफलेक्षणौ ॥१९॥
सितसूत्रशिरालौ च सितकम्बलकम्बलौ ॥२०॥
ताम्रगड्डुकपृष्ठौ तौ सितचामररोमकौ ॥२०॥
विद्रुमभ्रूयुगावेतौ नवनीतस्तनान्वितौ ॥२१॥
क्षौमपुच्छौ कांस्यदोहाविन्द्रनीलकतारकौ ॥२१॥
सुवर्णशृङ्गाभरणौ रजतक्षुरसंयुतौ ॥२२॥
नानाफलमया दन्ता गन्धघ्राणप्रकल्पितौ ॥२२॥
रचयित्वा यजेद्धेनुमिमैर्मन्त्रैर्द्विजोत्तम ॥२३॥
या लक्ष्मीः सर्वभूतानां या च देवेष्ववस्थिता ॥२३॥
धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु ॥२४॥
देहस्था या च रुद्राणी शङ्करस्य सदा प्रिया ॥२४॥
धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥२५॥
विष्णुवक्षसि या लक्ष्मीः स्वाहा या च विभावसोः ॥२५॥
चन्द्रार्कऋक्षशक्तिर्या धेनुरूपास्तु सा श्रिये ॥२६॥
चतुर्मुखस्य या लक्ष्मीर्या लक्ष्मीर्धनदस्य च ॥२६॥
लक्ष्मीर्या लोकपालानां स धेनुर्वरदास्तु मे ॥२७॥
स्वधा त्वं पितृमुख्यानां स्वाहा यज्ञभुजां यतः ॥२७॥
सर्वपापहरा धेनुस्तस्माच्छान्तिं प्रयच्छ मे ॥२८॥
एवमामन्त्रितां धेनुं ब्राह्मणाय निवेदयेत् ॥२८॥
समानं सर्वधेनूनां विधानं चैतदेव हि ॥२९॥
सर्वयज्ञफलं प्राप्य निर्मलो भुक्तिमुक्तिभाक् ॥२९॥
स्वर्णशृङ्गो शफै रौप्यैः सुशीला वस्त्रसंयुता ॥३०॥
कांस्योपदोहा दातव्या क्षीरिणी गौः सदक्षिणा ॥३०॥
दातास्याः स्वर्गमाप्नोति वत्सरान् सोमसम्मितान् ॥३१॥
कपिला चेत्तारयति भूयश्चासप्तमं कुलं ॥३१॥
स्वर्णशृङ्गीं रौप्यखुरां कांस्यदोहनकान्वितां ॥३२॥
शक्तितो दक्षिणायुक्तां दत्त्वा स्याद्भुक्तिमुक्तिभाक् ॥३२॥
सवत्सरोमतुल्यानि युगान्युभयतोमुखीं ॥३३॥
दत्त्वा स्वर्गमवाप्नोति पूर्वेण विधिना ददेत् ॥३३॥
आसन्नमृत्युना देया सवत्सा गौस्तु पूर्ववत् ॥३४॥
यमद्वारे महावीरे तप्ता वैतरणी(१) नदी ॥३४॥
तान्तर्तुञ्च ददाम्येनां(२) कृष्णां वैतरणीञ्च गां ॥३५॥
इत्याग्नेये महापुराणे महादानानि नाम दशाधिकद्विशततमोऽध्यायः ॥
टिप्पणी
१ कृष्णा वैतरणी इति ज.. , झ.. , ट.. च
२ तान्तर्तुं वै ददाम्येनामिति छ..

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP