अध्याय २४६ - रत्नपरीक्षा
अग्निपुराणात त्रिदेव – ब्रह्मा, विष्णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.
अग्निरुवाच
रत्नानां लक्षणां वक्ष्ये रत्नं धार्य्यमिदं नपैः ।
वज्रं मरकतं रत्नं पद्मरागञ्च मौक्तिकं ॥१॥
इन्द्रनीलं महानीलं वैदूर्य्यं गन्धशस्यकं ।
चन्द्रकान्तं सूर्यकान्तं स्फटिकं पुलकं तथा ॥२॥
कर्केतनं पूष्परागं तथा ज्योतीरसं द्विज ।
स्फटिकं राजपट्टञ्च तथा राजमयं शुभं ॥३॥
सौगन्धिकं तथा गञ्जं शङ्खब्र्ह्ममयं तथा ।
गोमेदं रुधिराक्षञ्च तथा भल्लातकं द्विज ॥४॥
धूलीं मरकतञ्चैव तुथकं सीसमेव च ।
पीलुं प्रवालकञ्चैव गिरिवज्रं द्विजोत्तम ॥५॥
भूजङ्गममणिञ्चैव तथा वज्रमणिं शुभं ।
टिट्टिभञ्च तथा पिण्डं भ्रामरञ्च तथोत्पलं ॥६॥
सुवर्णप्रतिबद्धानि रत्नानि श्रीजयादिके ।
अन्तःप्रभावं वैमल्यं सुसंस्थानत्वमेव च ॥७॥
सुधार्या नैव धार्य्यास्तु निष्प्रभा मलिनास्तथा ।
खण्डाः सशर्करा ये च प्रशस्तं वज्रधारणम् ॥८॥
अम्भस्तरति यद्वज्रमभेद्यं विमलं च यत् ।
षट्कोणं शक्रचापाबं लघु चार्कनिभं शुभम् ॥९॥
शुकपक्षनिभः स्निग्धः कान्तिमान्विमलस्तथा ।
स्वर्णचूर्णनिभैः सूक्ष्मैर्मरकतश्च विन्दुभिः ॥१०॥
स्फटिकजाः पद्मरागाः स्यू रागवन्तोऽतिनिर्म्मलाः ।
जातवङ्गा भवन्तीह कुरुविन्दसमुद्भवाः ॥११॥
सौगन्धिकोत्थाः काषाया मुक्ताफलास्तु शुक्तिजाः ।
विमलास्तेभ्य उत्कृष्टा ये च शङखोद्भवा मुने ॥१२॥
नागदन्तभवाश्चाग्र्याः कुम्भशूकरमत्स्यजाः ।
वेणुनागभवाः श्रेष्ठा मौक्तिकं नागजं वरं ॥१३॥
वृत्तत्वं शुक्लता स्वाच्छ्यं महत्त्वं मौक्तिके गुणाः ।
इन्द्रनीलं शुभं क्षीरे रजते भ्राजतेऽधिकं१ ॥१४॥
रञ्जयेत् स्वप्रभावेण तममूल्यं विनिर्द्दिशेत् ।
नीलरक्तन्तु वैदूर्य्यं श्रेष्ठं हारादिकं भजेत्२ ॥१५॥
इत्यादिम्हापुराणे आग्नेये रत्नपरिक्षा नाम षट्चत्वारिंशदधिकद्विशततमोऽध्यायः॥
N/A
References : N/A
Last Updated : September 20, 2020
TOP