संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
कुरुपाण्डवसङ्‌ग्रामवर्णनम्

अध्याय १४ - कुरुपाण्डवसङ्‌ग्रामवर्णनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
यौधिष्ठिरी दौर्योधनी कुरुक्षेत्रं ययौ चमूः ।
भीष्मद्रोणादिकान् हृष्ट्वा नायुध्यत गुरुनिति ॥१॥

पार्थं ह्युवाच भगवान्नशोच्या भीष्ममुख्यकाः ।
शरीराणि विनाशीनि न शरीरी विनश्यति ॥२॥

अयमात्मा परं ब्रह्म अहं ब्रह्मास्मि विद्धि तम् ।
सिद्ध्यसिद्ध्योः समो योगी राजधर्म्मं प्रपालय ॥३॥

कृष्णोक्तोथार्जुनोऽयुध्यद्रथस्थो वाद्यशब्दवान् ।
भीष्मः सेनापतिरभूदादौ दौर्योधने बले ॥४॥

पाण्डवानां शिखण्डी च तयोर्युद्धं बभूव ह ।
धार्त्तराष्ट्राः पाण्डवांश्च जघ्नुर्युद्धे सभीष्मकाः ॥५॥

धार्त्तराष्ट्रान् शिखण्ड्याद्याः पाण्डवा जघ्नुराहेवे ।
देवासुरसमं युद्धं कुरुपाण्डवसेनयोः ॥६॥

बभूव स्वः स्थदेवानां पश्यतां प्रीतिबर्द्धनम् ।
भीष्मोस्त्रैः पाण्डवं सैन्यं दशाहोभिर्न्यपातयत् ॥७॥

दशमे ह्यर्जुनौ बाणैर्भिष्मं वीरं ववर्ष ह ।
शिखण्डी द्रुपदोत्तोऽस्त्रैर्ववर्ष जलदो यथा ॥८॥

हस्त्यश्वरथपादातमन्योन्यास्त्रनिपातितम् ।
भीष्मः स्वच्छन्दमृत्युश्च युद्धमार्गं प्रदर्श्य च ॥९॥

वसूक्तो वसुलोकाय शरशय्यागतः स्थितः ।
उत्तरायणमीक्षंश्च ध्यायन् विष्णुंस्तुवन् स्थितः ॥१०॥

दुर्योधने तु शोकार्त्ते द्रोणः सेनापतिस्त्वभूत् ।
पाण्डवे हर्षिते सैन्ये धृष्टद्युम्नश्चमूपतिः ॥११॥

तयोर्युद्धं बभूवोग्रं यमराष्ट्रविवर्धनम् ।
विराटद्रुपदाद्याश्च निमग्ना द्रोणसागरे ॥१२॥

दौर्योधनी महासेना हस्त्यश्वरथपत्तिनी ।
धृष्टद्युम्नाधिपतिता द्रोणः काल इवाबभौ ॥१३॥

हतोश्वत्थामा चेत्युक्ते द्रोणः शस्त्राणि चात्यजत् ।
धृष्टद्युम्नशराक्रान्तः पतितः स महीतले ॥१४॥

पञ्चमेहनि दुर्द्धर्षः सर्वक्षत्रं प्रमथ्य च ।
दुर्योधने तु शोकार्ते कर्णः सेनापतिस्त्वभूत् ॥१५॥

अर्जुनः पाण्डवानाञ्च तयोर्युद्धं बभूव ह ।
शस्त्रशस्त्रि महारौद्रं देवासुररणोपमम् ॥१६॥

कर्णार्जुनाख्ये सङ्‌प्रामे कर्णोरीनवधीच्छरैः ।
द्वितीयेहनि कर्णस्तु अर्जुनेन निपातितः ॥१७॥

शल्यो दिनार्द्धं युयुधे ह्यबधीत्तं युधिष्ठिरः ।
युयुधे भीमसेनेन हतसैन्यः सयोधनः ॥१८॥

बहून् हत्वा नरादींश्च भीमसेनमथाब्रबीत् ।
गदया प्रहरन्तं तु भीमस्तन्तु न्यपातयत् ॥१९॥

गदयान्यानुजांस्तस्य तस्मिन्नष्टादशेहनि ।
रात्रौ सषुप्तञ्च बलं पाण्डवानां न्यपातयत् ॥२०॥

अक्षौहिणीप्रमाणन्तु अश्वत्थामा महाबलः ।
द्रौपदेयान् सापञ्चालान् धृष्टद्युन्नञ्च सोऽवधीत् ॥२१॥

पुत्रहीनां द्रौपदीं तां रुदन्तीमर्जुनस्ततः ।
शिरोमणिं तु जग्राह ऐषिकास्त्रेण तस्य च ॥२२॥

अश्वत्थामास्त्रनिर्द्दग्धं जीवयामास वै हरिः ।
उत्तरायास्ततो गर्भं स परीक्षिदभून्नृपः ॥२३॥

कृतवर्म्मा कृपो द्रौणिस्त्रयो मुक्तास्ततो रणात् ।
पाण्डवाः सात्यकिः कृष्णः सप्त मुक्ता न चापरे ॥२४॥

स्त्रियश्चार्त्ताः समाश्वास्य भीमाद्यैः स युधिष्ठिरः ।
संस्कृत्य प्रहतान् वीरान् दत्तोदकधनादिकः ॥२५॥

भीष्माच्छान्तनवाच्छ्रुत्वा धर्म्मान् सर्वांश्च शान्तिदान् ।
राजधर्म्मान्मोक्षधर्न्मान्दानधर्म्मान् नृपोऽभवत् ॥२६॥

अश्वमेधे ददौ दानं ब्राह्मणेभ्योरिमर्द्दनः ।
श्रुत्वार्जुनान्मौषलेयं यादवानाञ्च सङ्‌क्षयम्॥

राज्ये परीक्षितं स्थाप्य सानुजः स्वर्गमाप्तवान् ॥२७॥

इत्यादिमहापुराणे आग्नेये महाभारतवर्णनं नाम चतुर्दशोऽध्यायः ।

N/A

References : N/A
Last Updated : September 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP