संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
षष्टिसंवत्सराः

अध्याय १३९ - षष्टिसंवत्सराः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
षष्ट्यब्दानां प्रवक्ष्यामि शुभाशुभमतः शृणु ॥१॥
प्रभवे यज्ञकर्माणि विभवे सुखिनो जनाः ॥१॥
शुक्ले च सर्वशस्यानि प्रमोदेन प्रमोदिताः ॥२॥
प्रजापतौ प्रवृद्धिः स्यादङ्गिरा भोगवर्धनः ॥२॥
श्रीमुखे वर्धते लोको भावे भावः प्रवर्धते ॥३॥
पूरणो पूरते शक्रो धाता सर्वौषधीकरः ॥३॥
ईश्वरः क्षेम आरोग्यबहुधान्यसुभिक्षदः ॥४॥
प्रमाथी मध्यवर्षस्तु विक्रमे शस्यसम्पदः ॥४॥
वृषो वृष्यति सर्वांश्च चित्रभानुश्च चित्रतां ॥५॥
स्वर्भानुः क्षेममारोग्यं तारणे जलदाः शुभाः ॥५॥
पार्थिवे शस्यसम्पत्तिरतिवृष्टिस्तथा जयः ॥६॥
सर्वजित्युत्तमा वृष्टिः सर्वधारी सुभिक्षदः ॥६॥
विरोधी जलदान् हन्ति विकृतश्च भयङ्करः ॥७॥
खरे भवेत्पुमान् वीरो नन्दने नन्दते प्रजा ॥७॥
विषयः शत्रुहन्ता च शत्रुरोगादि मर्दयेत् ॥८॥
ज्वरार्तो मन्मथे लोको दुष्करे दुष्करा प्रजाः ॥८॥
दुर्मुखे दुर्मुखो लोको(१) हेमलम्बे न सम्पदः ॥९॥
संवत्सरो महादेवि विलम्बस्तु सुभिक्षदः ॥९॥
विकारी शत्रुकोपाय विजये सर्वदा क्वचित् ॥१०॥
प्लवे प्लवन्ति तोयानि शोभने शुभकृत्प्रजा ॥१०॥
राक्षसे निष्ठुरो लोको विविधन्धान्यमानने ॥११॥
सुवृष्टिः पिङ्गले क्वापि काले ह्युक्तो धनक्षयः ॥११॥
सिद्धार्थे सिद्ध्यते सर्वं रौद्रे रौद्रं प्रवर्तते ॥१२॥
दुर्मतौ मध्यमा वृष्टिर्दुन्दुभिः क्षेमधान्यकृत् ॥१२॥
स्रवन्ते रुधिरोद्गारी रक्ताक्षः क्रोधने जयः ॥१३॥
क्षये क्षीणधनो लोकः(२) षष्टिसंवत्सराणि तु ॥१३॥
इत्याग्नेये महापुराणे युद्धजयार्णवे षष्टिसंवत्सराणि नाम ऊनचत्वारिंशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP