संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
षट्कर्माणि

अध्याय १३८ - षट्कर्माणि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
षट्कर्माणि प्रवक्ष्यामि सर्वमन्त्रेषु तच्छृणु ॥१॥
आदौ साध्यं लिखेत्पूर्वं चान्ते मन्त्रसमन्वितं ॥१॥
पल्लवः स तु विज्ञेयो महोच्चाटकरः परः ॥२॥
आदौ मन्त्रः ततः साध्यो मध्ये साध्यः पुनर्मनुः ॥२॥
योगाख्यः सम्प्रदायोऽयङ्कुलोत्सादेषु योजयेत् ॥३॥
आदौ मन्त्रपदन्दद्यान्मध्ये साध्यं नियोजयेत् ॥३॥
पुनश्चान्ते लिखेन्मन्त्रं साध्यं मन्त्रपदं पुनः ॥४॥
रोधकः सम्प्रदायस्तु स्तम्भनादिषु योजयेत् ॥४
अधोर्ध्वं याम्यवामे तु(१) मध्ये साध्यन्तु योजयेत् ॥५॥
सम्पुटः सतु विज्ञेयो वश्याकर्षेषु योजयेत् ॥५
मन्त्राक्षरं यदा साध्यं प्रथितञ्चाक्षराक्षरं ॥६
प्रथमः सम्प्रदायः स्यादाकृष्टिवशकारकः ॥६॥
मन्त्राक्षरद्वयं लिख्य एकं साध्यक्षरं पुनः ॥७॥
विदर्भः सतु विज्ञेयो वश्याकाकर्षेषु योजयेत् ॥७
आकर्षणाद्यत्कर्म वसन्ते चैव कारयेत् ॥८॥
तापज्वरे तथा वश्ये स्वाहा चाकर्षणे शुभं ॥८॥
नमस्कारपदञ्चैव शान्तिवृद्धौ प्रयोजयेत् ॥९॥
पौष्टिकेषु वषट्कारमाकर्षे वशकर्मणि ॥९॥
विद्वेषोच्चाटने मृत्यौ फट्स्यात्खण्डीकृतौ शुभे ॥१०॥
लाभादौ मन्त्रदीक्षादौ वषट्कारस्तु सिद्धिदः ॥१०॥
यमोऽसि यमाराजोऽसि कालरूपोऽसि धर्मराट् ॥११॥
मयादत्तमिमं शत्रुमचिरेण निपातय ॥११॥
निपातयामि यत्नेन निवृत्तो भव साधक ॥१२॥
संहृष्टमनसा(२) ब्रूयाद्देशिकोऽरिप्रसूदनः ॥१२॥
पद्मे शुक्ले यमं प्रार्च्य होमादेतत्प्रसिद्ध्यति ॥१३॥
आत्मानम्भैरवं ध्यात्वा ततो मध्ये कुलेश्वरीं ॥१३॥
रात्रौ वार्तां विजानाति आत्मनश्च परस्य च ॥१४॥
टिप्पणी
१ अध ऊर्ध्वं याम्यवामे इति ख..
२ संरम्भमन्सेति छ..
दुर्गे दुर्गे रक्षणीति दुर्गां प्रार्च्यारिहा भवेत् ॥१४॥
जप्त्वा हसक्षमलवरयुम्भैरवीं घातयेदरिम् ॥१५॥१३८.०१५॥

इत्याग्नेये महापुराणे युद्धजयार्णवे षट्कर्माणि नामाष्टत्रिंशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP