संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण| ऋग्विधानम् अग्निपुराण महत्व ग्रन्थप्रस्तावना मत्स्यावतारवर्णनम् कूर्मावतारवर्णनम् वराहाद्यवतारवर्णनम् श्रीरामावतारवर्णनम् अयोध्याकाण्डवर्णनं आरण्यककाण्डवर्णनं किष्किन्धाकाण्डर्णनं सुन्दरकाण्डवर्णनं युद्धकाण्डवर्णनं उत्तरकाण्डवर्णनं श्रीहरिवंशवर्णनम् कुरुपाण्डवोत्पच्यादिकथनम् कुरुपाण्डवसङ्ग्रामवर्णनम् पाण्डवचरितवर्णनम् बुद्धाद्यतारकथनम् सृष्टिविषयकवर्णनम् स्वायम्भुववंशवर्णनम् कश्यपवंशवर्णनम् सर्गविषयकवर्णनम् सामान्यपूजाकथनम् स्नानविधिकथनम् पूजाविधिकथनम् वासुदेवादिमन्त्रनिरूपणम् मुद्रालक्षणकथनम् अभिषेकविधानम् सर्वतोभद्रमण्डलकथनम् मण्डलविधिः मार्जनविधानम् संस्कारकथनं पवित्रारोहणविधानम् होमादिविधिः पवित्राधिवासनादिविधिः पवित्राशेपणविधानम् सर्वदेवपवित्राशेहणविधिः देवालयनिर्म्माणफलम् भृपरिग्रहविधानम् अर्घ्यदानविधानम् शिलादिन्यासविधानम् प्रासादलक्षणकथनम् प्रासाददेवतास्थापनम् भूतशान्त्यादिकथनम् वासुदेवादिप्रातिमालक्षणविधिः पिण्डिकालक्षणकथनम् शालग्रामादिमूर्त्तिलक्षणकथनम् शालग्रामादिपूजनकथनम् चतुर्विंशतिमूर्त्तिंस्तोत्रकथनम् मत्स्यादिसक्षणवर्णनम् देवीप्रतिमालक्षणकथनम् सूर्यादिप्रतिमालक्षणम् देवीप्रतिमालक्षणम् लिङ्गलक्षणम् लिङ्गमानादिकथनम् पिण्डिकालक्षणकथनम् दिक्पालयागकथनम् कुम्भाधिवासविधिः स्नानादिविधिः अधिवासकथनम् वासुदेवप्रतिष्ठादिविधिः ध्वजारोहणं लक्ष्मीप्रतिष्ठाविधिः सुदर्शनचक्रादिप्रतिष्ठाकथनं कूपादिप्रतिष्ठाकथनं सभास्थापनकथनं साधारणप्रतिष्ठाविधानं जीर्णोद्धारविधानं यात्रोत्सवविधिकथनं स्नानविधानं अध्याय ७० -पादपारामप्रतिष्ठाकथनं अग्नि पुराण अग्नि पुराण सुदर्शनचक्रादिप्रतिष्ठाकथनम् अग्निस्थापनादिप्रतिष्ठाकथनम् अग्निस्थापनादिप्रतिष्ठाकथनम् कपिलादिपूजाविधानम् पवित्रारोहणकथनम् पवित्रारोहणविधि दमनकारोहणावेधिः समयदीक्षाविधानम् संस्कारदीक्षाकथनम् निर्वाणादीक्षाकथनम् निर्वाणदीक्षाविधानम् प्रतिष्ठाकलाशोधनोक्तिः विद्याविशोधनविधानम् शान्तिशोधनकथनम् निर्वाणदीक्षाकथनम् एकतत्त्वदीक्षाकथनम् अभिषेकादिकथनम् विविधमन्त्रादिकथनम् प्रतिष्ठाविधिकथनम् वास्तुपूजादिविधानम् शिलाविन्यासविधानम् प्रतिष्ठासामग्रीविधानम् अधिवासनविधिः शिवप्रतिष्ठाकथनम् गौरीप्रतिष्ठाकथनम् अध्याय ९९- सूर्यप्रतिष्ठाकथनं द्वारप्रतिष्ठा प्रासादप्रतिष्ठा ध्वजारोपणं जीर्णोद्धारः सामान्यप्रासादलक्षणं गृहादिवास्तुर्नामः नगरादिवास्तुः स्वायम्भुवसर्गः भुवनकोषः तीर्थमाहात्म्यम् गङ्गामाहात्म्यं प्रयागमाहात्म्यं वाराणसीमाहात्म्यम् नर्मदादिमाहात्म्यम् गयामाहात्म्यम् गयायात्राविधिः गयायात्राविधिः श्राद्धकल्पः भारतवर्षं महाद्वीपादि भुवनकोषः ज्योतिःशास्त्रं कालगणनं युद्धजयार्णवीयनानायोगाः युद्धजयार्णवीयज्योतिःशास्त्रसारः युद्धजयार्णवीयनानाचक्राणि नक्षत्रनिर्णयः नानाबलानि कोटचक्रम् अर्घकाण्डम् घातचक्रं घातचक्रादि सेवाचक्रम् नानाबलानि त्रैलोक्यविजयविद्या सङ्ग्रामविजयविद्या नक्षत्रचक्रं महामारीविद्या षट्कर्माणि षष्टिसंवत्सराः वश्यादियोगाः षट्त्रिंशत्पदकज्ञानम् मन्त्रौषधादिः कुब्जिकापूजा कुब्जिकापूजा मालिनीनानामन्त्राः अष्टाष्टकदेव्यः त्वरितापूजादिः सङ्ग्रामविजयपूजा लक्षकोटिहोमः मन्वन्तराणि वर्णेतरधर्माः गृहस्थवृत्तिः ब्रह्मचर्याश्रमधर्मः विवाहः आचारः द्रव्यशुद्धिः शावाशौचादिः स्रावाद्याशौचं असंस्कृतादिशौचं वानप्रस्थाश्रमः यतिधर्मः धर्मशास्त्रकथनं श्राद्धकल्पकथनं नवग्रहहोमः नानाधर्माः वर्णधर्मादिकथनं अयुतलक्षकोटिहोमाः महापातकादिकथनम् प्रायश्चित्तानि प्रायश्चित्तानि प्रायश्चित्तानि सर्वपापप्रायश्चित्तानि प्रायश्चित्तं प्रायश्चित्तानि व्रतपरिभाषा प्रतिपद्व्रतानि द्वितीयाव्रतानि तृतीयाव्रतानि चतुर्थीव्रतानि पञ्चमीव्रतानि सप्तमीव्रतानि षष्ठीव्रतानि सप्तमीव्रतानि जयन्त्यष्टमीव्रताणी अष्टमीव्रतानि नवमीव्रतानि दशमीव्रतानि एकादशीव्रताणी नानाद्वादशीव्रतानि श्रवणद्वादशीव्रतम् अखण्डद्वादशीव्रतं त्रयोदशी व्रतानि चतुर्दशीव्रतानि शिवरात्रिव्रतम् अशोकपूर्णिमादिव्रतं वारव्रतानि नक्षत्रव्रतानि दिवसव्रतानि मासव्रतानि नानाव्रतानि दीपदानव्रतं नवव्यूहार्चनं पुष्पाध्यायकथनं नरकस्वरूपम् मासोपवासव्रतं भीष्मपञ्चकव्रतं अगस्त्यार्घ्यदानकथनं कौमुदव्रतं व्रतदानादिसमुच्चयः दानपरिभाषाकथनं महादानानि नानादानानि मेरुदानानि पृथ्वीदानानि मन्त्रमाहात्म्यं सन्ध्याविधिः गायत्रीनिर्वाणं गायत्रीनिर्वाणं राज्यभिषेकः अभिषेकमन्त्राः सहायसम्पत्तिः अनुजीविवृत्तं दुर्गसम्पत्तिः राजधर्माः स्त्रीरक्षादिकामशास्त्रं राकजधर्मो सामाद्युपायो दण्डप्रणयनं युद्धयात्रा स्वप्नाध्यायः शकुनानि शकुनानि शकुनानि यात्रामण्डलचिन्तादिः षाड्गुण्यम् प्रात्यहिकराजकर्म रणदीक्षा श्रीस्तोत्रम् रामोक्तनीतिः राजधर्माः षाड्गुण्यम् सामादिः राजनीतिः पुरुषलक्षणम् स्त्रीलक्षणम् चामरादिलक्षणम् रत्नपरीक्षा वास्तुलक्षणम् पुष्पादिपूजाफलम् धनुर्वेदः धनुर्वेदकथनम् धनुर्वेदकथनम् धनुर्वेदकथनम् व्यवहारकथनम् व्यवहारकथनम् दिव्यानि प्रमाणानि दायविभागकथनम् सीमाविवादादिनिर्णयः वाक्पारुष्यादिप्रकरणम् ऋग्विधानम् यजुर्विधानम् सामविधानम् अथर्ववविधानम् उत्पातशान्तिः देवपूजावैश्वदेवबलिः दिक्पालादिस्नानम् विनायकस्नानम् माहेश्वरस्नानलक्षकोटिहोमादयः नीराजनाविधिः छत्रादिमन्त्रादयः विष्णुपञ्जरम् वेदशाखादिकीर्तनम् दानादिमाहात्म्यम् सूर्य्यवंशकीर्त्तनम् सोमवंशवर्णनम् यदुवंशवर्णनम् द्वादशसङ्ग्रामाः राजवंशवर्णनम् पुरुवंशवर्णनम् सिद्धौषधानि सर्वरोगहराण्यौषधानि रसादिलक्षणम् वृक्षायुर्वेदः नानारोगहराण्यौषधानि मन्त्ररूपौषधकथनम् मृतसञ्जीवनीकरसिद्धयोगः कल्पसागरः गजचिकित्सा अछश्ववाहनसारः अश्वचिकित्सा अश्वशान्तिः गजशान्तिः शान्त्यायुर्वेदः मन्त्रपरिभाषा नागलक्षणानि दष्टचिकित्सा पञ्चाह्गरुद्रविधानम् विषहृन्मन्त्रौषधम् गोनसादिचिकित्सा बालग्रहहरबालतन्त्रम् ग्रहहृन्मन्त्रादिकम् सूर्य्यार्च्चनम् नानामन्त्राः अङ्गाक्षरार्च्चनम् पञ्चाक्षरादिपूजामन्त्राः पञ्चपञ्चाशद्विष्णुनामानि नारसिंहादिमन्त्राः त्रैलोक्य मोहननम्त्राः त्रैलोक्यमोहनीलक्ष्म्यादिपूजा त्वरितापूजा त्वरितामन्त्रादिः त्वरितामूलमन्त्रादिः त्वरिताविद्या नानामन्त्राः त्वरिताज्ञानम् ग्रन्थप्रस्तावना नानामन्त्राः सकलादिमन्त्रोद्धारः गणपूजा वागीश्वरीपूजा मण्डलानि अघोरास्त्रादिशान्तिकल्पः पाशुपतशान्तिः षडङ्गान्यघोरास्त्राणि रुद्रशान्तिः अंशकादिः गौर्य्यादिपूजा देवालयमाहात्म्यम् छन्दःसारः छन्दःसारः छन्दःसारः छन्दोजातिनिरूपणम् विषमकथनम् अर्द्धसमनिरूपणम् समवृत्तनिरूपणम् ग्रन्थप्रस्तावना शिक्षानिरूपणम् काव्यादिलक्षणं नाटकनिरूपणम् शृङ्गारादिरसनिरूपणम् रीतिनिरूपणम् नृत्यादावङ्गकर्म्मनिरूपणम् अभिनयादिनिरूपणम् शब्दालङ्काराः अर्थालङ्गाराः शब्दार्थालङ्काराः काव्यगुणविवेकः काव्यदोषविवेकः एकाक्षराभिधानम् व्याकरणम् सन्धिसिद्धरूपम् सुब्विभक्तिसिद्धरूपम् स्त्रीलिङ्गशब्दसिद्धरूपम् नपुंसकशब्दसिद्धरूपम् कारकम् समासः तद्धितम् उणादिसिद्धरूपम् तिङ्विभक्तिसिद्धरूपम् कृत्सिद्धरूपम् स्वर्गपातालादिवर्गाः अव्ययवर्गानाम नानार्थवर्गा भूमिवनौषध्यादिवर्गाः नृब्रह्मक्षत्रविट्शूद्रवर्गाः ब्रह्मवर्गः क्षत्रविट्शूद्रबर्गाः सामान्यनामलिङ्गानि नित्यनैमित्तिकप्राकृतप्रलयाः नित्यनैमित्तिकप्राकृतप्रलयाः आत्यन्तिकलयगर्भोत्पत्तिनिरूपणम् नरकनिरूपणम् यमनियमाः आसनप्राणायामप्रत्याहाराः ध्यानम् धारणा समाधिः ब्रह्मज्ञानम् ब्रह्मज्ञानम् ब्रह्मज्ञानम् अद्वैतब्रह्मविज्ञानम् गीतासारः यमगीता आग्न्येयपुराणमाहात्म्यम् अध्याय २५९ - ऋग्विधानम् अग्निपुराणात त्रिदेव – ब्रह्मा, विष्णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे. Tags : agnipuranpuransanskritअग्निपुराणपुराणसंस्कृत ऋग्विधानम् Translation - भाषांतर अग्निरुवाचऋग्यजुःसामाथर्वविधानं पुष्करोदितम् ।भुक्तिभुक्तिकरं जप्याद्धोमाद्रामाय तद्वदे ॥१॥पुष्कर उवाच ।प्रतिवेदन्तु कर्म्माणि कार्य्याणि प्रवदामि ते ।प्रथमं ऋग्विधानं वै श्रृणु त्वं भुक्तिमुक्तिदम् ॥२॥अन्तर्ज्जले तथा होमे जपतो मनसेप्सितम् ।कामं करोति गायत्री प्राणायामाद्विशेपतः ॥३॥गायत्र्या दशसाहस्रो जपो नक्ताशिनो द्विज ।बहुस्नातस्य तत्रैव सर्वकल्पमनाशनः ॥४॥दशायुतानि जप्त्वाऽथ हविष्याशी स मुक्तिभाक् ।प्रणवो हि परं ब्रह्म तज्जपः सर्वपापहा ॥५॥ओंकारशतकजप्तन्तु नाभिमात्रोदके स्थितःजलं पिवेत् स सर्वेस्तु पापैर्वै विप्रमुच्यते ॥६॥मात्रात्रयं त्रयो वेदास्त्रयो देवास्त्रयोऽग्नयः ।महाव्याहृतयः सप्त लोका होमोऽखिलाघहा ॥७॥गायत्री परमा जाप्या महाव्याहृतयस्तथा ।अन्तर्ज्जले तथा रामप्रोक्तश्चैवाघमर्षणः ॥८॥अग्निमीले पुरोहितं सूक्तोऽयं वह्निदैवतः ।शिरसा धारयन् वह्निं यो जपेत्परिवत्सरम् ॥९॥होमं त्रिषवणं भैक्ष्यमनग्निज्चवलनञ्चरेत् ।अतः परमृचः सप्त वाय्वाद्या याः प्रकीर्त्तिताः ॥१०॥ता जपन् प्रयतो नित्यमिष्टान् कामान् समश्नुते ।मेधाकामो जपेन्नित्यं सदसन्यमितित्यृचम् ॥११॥अन्वयो यन्निमाः प्रोक्ताः नवर्चो मृत्युनाशनाः ।शुनःशेफमृषिं बद्धः सन्निरुद्धोऽथ वा२ जपेत् ॥१२॥मुच्यते सर्वपापेभ्यो गदी वाप्यगदो भवेत् ।य इच्छेच्छाश्वतं कामं मित्रं प्राज्ञं पुरन्दरं ॥१३॥ऋग्भिः षोड़शभिः कुर्य्यादिन्द्रस्येति दिने दिने ।हिहण्यस्तूपमित्येतज्जपन् शत्रून् प्रबाधते ॥१४॥क्षेमी भवति चाध्वानो ये ते पन्था जपन् नरः ।रौद्रीभिः षड्भिरीशानं स्तूयाद् यो वै दिने दिने ॥१५॥चरुं वा कल्पयेद्रौद्रं तस्यशान्तिः पराभवेत् ।उदित्युदन्तमादित्यमुपतिष्ठन् दिने दिने ॥१६॥क्षिपेज्जलाञ्जलीन् सप्त मनोदुःखविनाशनं ।द्विषन्तमित्यथार्द्धर्च्चं यद्विप्रान्तं जपन् स्मरेत् ॥१७॥आगस्कृत् सप्तरात्रेण विद्वेषमधिगच्छति ।आरोग्यकामी रोगी वा प्रस्कन्नस्योत्तमं जपेत् ॥१८॥उत्तमस्तस्य चार्द्धर्च्चो जपेद्वै विविधासने ।उदयत्यायुरक्ष्यय्यं तेजो मध्यन्दिने जपेत् ॥१९॥अस्तं प्रतिगते सूर्य्ये द्विषन्तं प्रतिबाधते ।न वयश्चेति सूक्तानि जपन् शत्रून्नियच्छति ॥२०॥एकाद्श सुपर्णस्य सर्व्वकामान्विनिर्द्दिशेत् ।आद्यात्मिकी कइत्येता जपन्मोक्षमवाप्नुयात् ॥२१॥आ नो भद्रा इत्यनेन दीर्घमायुरबाप्नुयात् ।त्वं सीमेति च सूक्तेन नवं पश्येन्निशाकरं ॥२२॥उपतिष्ठेत् समित्पाणिर्व्वासांस्याप्नोत्यसंशयं ।आयुरीप्सन्निममिति कौत्स सूक्तं सदा जपे ॥२३॥आपनः शोशुचदिति स्तुत्वा मध्ये दिवाकरं ।यथा मुञ्चति चेषीकां तथा पापं प्रमुञ्चति ॥२४॥जातवेदस इत्येतज्जपेत् स्वस्त्ययनं पथि ।भयैर्व्विमुच्यते सर्व्वः स्वस्तिमानाप्नुयात् गृहान् ॥२५॥व्युष्टायाञ्च तथा रात्र्यामेतद्दुःस्वप्ननाशनं ।प्रमन्दिनेति सूयन्त्या जपेद्गर्भविमोचनं ॥२६॥जपन्निन्द्रमिति स्नातो वै श्वदेवन्तु सप्तकं ।मुञ्चत्याज्यं तथा जुह्वत् सकलं किल्विषं नरः ॥२७॥इमामिति जपन् शश्वत् कामानाप्नोत्यभीप्सितान् ।मानस्तोक इति द्वाभ्यां त्रिरात्रोपोषितः शुचिः ॥२८॥औडुम्बरीश्च जुहुयात्समिधश्चाज्यसंस्कृताः ।छित्त्वा सर्व्वान्मृत्युपाशान् जीवेद्रोगविवर्जितः ॥२९॥ऊद्र्ध्ववाहुरनेनैव स्तुत्वा शम्भुं तथैव च ।मानस्तोकेति च ऋचा शिखाबन्धे कृते नरः ॥३०॥अधृष्यः सर्वभूतानां जायते संशयं विना ।चित्रमित्युपतिष्ठेत त्रिसन्ध्यं भास्करं तथा ॥३१॥समित्पाणिर्नरो नित्यमीप्सितं धनमाप्नुयात् ।अथ स्वप्नेति च जपन् प्रातर्मध्यन्दिने दिने ॥३२॥दुःस्वप्नञ्चार्द्दते कृत्स्नं भोजनञ्चाप्नुयाच्छुभम् ।उभे पुमानिति तथा रक्षोघ्नः परिकीर्त्तितः ॥३३॥उभे वासा इति ऋचो जपन् कामानवाप्नुयात् ।न सागान्निति च जपन् मुच्यते चाततायिनः ॥३४॥कया शुभेति च जपन् जातिश्रैष्ठमवाप्नुयात् ।इमन्नृसोममित्येतत् सर्व्वान् कामानवाप्नुयात् ॥३५॥पितरित्युपतिष्ठेत नित्यमर्थमुपस्थितं ।अग्ने नयेति सूक्तेन घृतहोमश्च मार्गगः ॥३६॥वीरान्नयमवाप्नोति सुश्लोकं यो जपेत् सदा।सङ्कतो नेति सूक्तेन विषान् सर्व्वान् व्यपोहति ॥३७॥यो जात इति सूक्तेन सर्व्वान् कामानवाप्नुयात् ।गणानामिति सूक्तेन स्निग्धमाप्नोत्यनुत्तमं ॥३८॥यो मे राजन्नितीमांन्तु दुःस्वप्नशमनीमृचं ।अध्वनि प्रस्थितो यस्तु पश्येच्छत्रुं समुत्थितं ॥३९॥अप्रसस्तं प्रशस्तं वा कुविदङ्ग इमं जपेत् ।द्वाविंशकं जपन् सूक्तमाध्यात्मिकमनुत्तमं ॥४०॥पर्वसु प्रयतो नित्यमिष्टान् कामान् समश्नुते ।कृणुष्वेति जपन् सूक्तं जुह्वदाज्यं समाहितः ॥४१॥अरातीनां हरेत् प्राणान् रक्षांस्यपि विनाशयेत् ।उपतिष्ठेत् स्वयं वह्निं परित्यचा दिने दिने ॥४२॥तं रक्षति स्वयं वह्निर्व्विश्वतो विश्वतोमुखः ।हंसः शुचिः सदित्येतच्छुचिरीक्षेद्दिवाकरं ॥४३॥कृषिं प्रपद्यमानस्तु स्थालीपाकं यथाविधि ।जुहुयात् क्षेत्रमध्ये तु स्वनीस्वाहास्तु पञ्चभिः ॥४४॥इन्द्राय च मरुद्ब्यस्तु पर्ज्जन्याय भगाय च ।यथालिङ्गन्तु विहरेल्लाङ्गलन्तु कृषीबलः ॥४५॥युक्तो धान्याय सीतायै सुनासीरमथोत्तरं ।गन्धमाल्यैर्नमस्कारैर्यजेदेताश्च देवताः ॥४६॥प्रवापने प्रलवने खलसीतापहारयोः ।अमोघङ्गर्म्म भवति वर्द्धते सर्व्वदा कृषिः ॥४७॥समुद्रादिति सूक्तेन कामानाप्नोति पावकात् ।विश्वानर इति द्वाभ्यां य ऋग्भ्यां वह्निमर्हति ॥४८॥स तरत्यापदः सर्व्वा यशः प्राप्नोति चाक्षयं ।विपुलां श्रियमाप्नोति जयं प्राप्नोत्यनुत्तमं ॥४९ ।.अग्ने त्वमिति च स्तुत्वा धनमाप्नोति वाञ्छितं ।प्रजाकामो जपेन्नित्यं वरुणदैवतत्रयं ॥५०॥स्वस्त्या त्रयं जपेत् प्रातः सदा स्वस्त्ययनं महत् ।स्वस्ति पन्था इति प्रोच्य स्वस्तिमान् व्रजतेऽध्वनि ॥५१॥विजीगीषुर्वनस्पते शत्रणां व्याधितं भवेत् ।स्त्रिया गर्भप्रमूढाया गर्भमोक्षणमुत्तमं ॥५२॥अच्छावदेति सूक्तञ्च वृष्टिकामः प्रयोजयेत् ।निराहारः क्लिन्नवासा न चिरेण प्रवर्षति ॥५३॥मनसः काम इत्येतां पशुकामो नरो जपेत् ।कर्द्दमेन इति स्नायात्प्रजाकामः शुचिव्रतः ॥५४॥अश्वपूर्वा इति स्नायाद्राज्यकामस्तु मानवः ।रोहिते चर्म्मणि स्नायात् ब्राह्मणस्तु यथाविधि ॥५५॥राजा चर्म्मणि वैयाघ्रे छागे वैश्यस्तथैव च ।दशसाहस्रिको होमः प्रत्येकं परिकीर्त्तितः ॥५६॥आगार इति सूक्तेन गोष्ठे गां लोकमातरं ।उपतिष्ठेद् व्रजेच्चैव यदिच्छेत्ताः सदाक्षयाः ॥५७॥उपेतितिसृभी राज्ञो दुन्दुभिमभिमन्त्रयेत् ।तेजो बलञ्ज प्राप्नोति शत्रुञ्चैव नियच्छति ॥५८॥तृणपाणिर्ज्जपेत्सूक्तं रक्षोघ्नं दस्युभिर्वृतः ।ये के च ज्मेत्यृचं जप्त्वा दीर्घमायुरवाप्नुयात्६ ॥५९॥जमूतमृक्तेन तथा सेनाङ्गान्यभिमन्त्रयेत् ।यधा लिङ्गं ततो राजा विनिहन्ति रणे रिपून् ॥६०॥आग्नेयेति त्रिभिः सूक्तैर्धनमाप्नोति चाक्षयं ।अमीवहेति सूक्तेन भूतानि स्थापयेन्निशि ॥६१॥संबाधे विषमे दुर्गे बन्धो वा निर्गतः क्कचित् ।पलायन् वा गृहीतो वा सूक्तमेतत्तथा जपेत् ॥६२॥त्रिरात्रं नियतोपोष्य श्रापयेत् पायसञ्चरुं ।तेनाहुतिशतं पूर्णं जुहुयात् त्र्यम्बकेत्यृचा ॥६३॥समुद्दिश्य महादेवं जीवेदब्दशतं सुखं ।तच्चक्षुरित्यचा स्नात उपतिष्ठेद्दिवाकरं ॥६४॥उद्यन्तं मध्यागञ्चैव दीर्घमायुर्ज्जिजीविषुः ।इन्द्रा सोमेति सूक्तन्तु कथितं शत्रुनाशनं ॥६५॥यस्य लुप्तं व्रतं मोहाद्व्रात्यैर्वा संसृजेत्सह ।उपोष्याज्यं स जुहुयात्त्वमग्ने व्रतपा इति ॥६६॥आदित्येत्यृक् च सम्राजं जप्त्वा वादे जयी भवेत् ।महीति च चतुष्केण मुच्यते महतो भयात् ॥६७॥ऋचं जप्त्वा यदि ह्येतत् सर्व्वकामानवाप्नुयात् ।द्वाचत्वारिंशतिं चैन्द्रं जप्त्वा नाशयते रिपून् ॥६८॥वाचं महीति जप्त्वा च प्राप्नोत्यारोग्यमेव च ।शन्नो भवेति द्वाभ्यान्तु भुक्त्वान्नं प्रथतः शुचिः ॥६९॥हृदयं पाणिना स्पृष्ट्वा व्याधिबिन्नाभिभूयते ।उत्तभेदमिति स्नातो हुत्वा शत्रुं प्रमापयेत् ॥७०॥शन्नोग्न इति सूक्तेन हुतेनान्नमवाप्नुयात् ।कन्या वारर्षिसूक्तेन दिग्दोषाद्विप्रमुच्यते ॥७१॥यदत्य कव्येत्युदिते जप्तेऽवश्यं जगद्भवेत् ।यद्वागिति च जप्तेन वाणी भवति संस्कृता८ ॥७२॥वाचो विदमिति त्वेतां जपन् वाचं समश्नुते ।पवित्राणां पवित्रन्तु पावमान्येयृचो मताः ॥७३॥वैखानसाऋचस्त्रिंशत्पवित्राः परमा मताः ।ऋचो द्विषष्टिः प्रोक्ताश्च परस्वेत्यृषिसत्तम ॥७४॥सर्व्वकल्मषनाशाय पावनाय शिवाय च ।स्वादिष्टयेतिसूक्तानां सप्तषष्टिरुदाहृता ॥७५॥दशोत्तराण्यृचाञ्चैताः पावमान्यः शतानि षट्।एतज्जपंश्च जुह्वच्च घोरं मृत्युभयं जयेत् ॥७६॥आपोहिष्ठेति वारिस्थो जपेत्पापभयार्द्दने ।प्रदेवन्नेति नियते जपेच्च मरुधन्वसु ॥७७॥प्राणान्तिके भये प्राप्ते क्षिप्रमायुस्तु विन्दति ।प्रावेयाबित्यृचमेकां जपेच्च मनसा निशि ॥७८॥व्युष्टायामुदिते सृर्य्ये द्युते जयमवाप्नुयात् ।मा प्रगामेति मूढश्च पन्थानं पथि विन्दति ॥७९॥क्षीणायुरिति मन्येत् यङ्कञ्चित् सुहृदं प्रियं ।यक्तेयमिति तु रत्नातस्तस्य मूर्द्धानमालभेत् ॥८०॥सहस्रकृत्वः पञ्चाहं तेनायुर्विन्दते महत् ।इदं मेध्येति जुहुयात् घृतं प्राज्ञः सहस्रशः ॥८१॥पशुकामो गवां गोष्ठे अर्थकामश्चतुष्पथे ।वयः सुपर्ण इत्येतां जपन् वै विन्दते श्रियं ॥८२॥इविष्यन्तीयमब्यस्य सर्व्वपापैः प्रमुच्यते ।तस्य रोगा विनश्यन्ति कायाग्निर्वर्द्धते तथा ॥८३॥या ओषधयः स्वस्त्ययनं सर्व्वव्याधिविनाशनं ।वृहस्पते अतीत्येतद्वृष्टिकामः प्रयोजयेत् ॥८४॥सर्व्वत्रेति परा शान्तिर्ज्ञेया प्रतिरथस्तथा ।सूत संकाश्यपन्नित्यं प्रजाकामस्य कीर्त्तितं ॥८५॥अहं स्द्रेति इत्येतद्वाग्मी भवति मानवः ।न योनौ जायते विद्वान् जपन्रतीति रात्रिषु ॥८६॥रात्रिसुक्तं जपन्रात्रौ रात्रिं क्षेमी नयेन्नरः ।कल्पयन्तीति च चजपन्नित्यं कृत्त्वारिनाशनं ॥८७॥आयुष्यञ्चैव वर्च्चस्यं सूक्तं दाक्षायणं महत् ।उत देवा इति जपेदामयघ्नं धृतव्रतः ॥८८॥अयप्तग्ने जनित्येतज्जपेदग्निभये सति ।अरण्यानीत्यरण्येषु जपेत्तद्बयनाशनं ॥८९॥व्राह्मीमासाद्य सूक्ते द्वे ऋचं चब्राह्मीं शतावरीं ।पृथगद्भिर्घृतैर्वाथ मेधां लक्ष्मीञ्च विन्दति ॥९०॥माम इत्यसपत्नघ्नं संग्रामं विजिगीषतः ।ब्रह्मणोग्निः संविदानं गर्भमृत्युनिवारणं ॥९१॥अपैहीति जपेत्सूक्तं शुषिर्दुस्वप्ननाशनं ।येनेदमिति वै जप्त्वा समाधिं विन्दते परं ॥९२॥मयो भूर्व्वात इत्येतत् गवां स्वस्त्ययनं परं ।शाम्वरीमिन्द्रजालं वा मायामेतेन वारयेत् ॥९३॥महीत्रीणामवरस्त्विति पथि स्वस्त्ययनं जपेत् ।अग्नये बिद्विषन्नेवं जपेच्च रिपुनाशनं ॥९४॥वास्तोष्पतेन मन्त्रेण यजेत् गृहदेवताः ।जपस्यैष विधिः प्रोक्तो हुते ज्ञेयो विशेषतः ॥९५॥होमान्ते दक्षिणा देयै पापशान्तिर्हुतेन तु ।हुतं शाम्यति चान्नेन अन्नहेमप्रदानतः ॥९६॥विप्राशिषस्त्वमोघाः स्युषंहिःस्नानन्तु सर्वतः ।सिद्धार्थका यवा धान्यं पयो दधि घृतं तथा ॥९७॥क्षीरवृक्षास्तथेध्मन्तु हामा वै सर्वकामदाः ।समिपः कण्टकिन्यश्च राजिका रुधिरं विषं ॥९८॥अबिचारे तथा शैलं अशनं शक्तवः पथः ।दधि भैक्ष्यं फलं मृलमृग्विधानमुदाहृतं ॥९९॥इत्यादिमहापुराणे आग्नेये ऋग्विधानं नाम उनषष्ट्यधिकद्विशततमोऽध्यायः॥ N/A References : N/A Last Updated : September 20, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP