अध्याय २९८ - गोनसादिचिकित्सा
अग्निपुराणात त्रिदेव – ब्रह्मा, विष्णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.
अग्निरुवाच
गोनसादिचिकित्साञ्च वशिष्ठ श्रृणु वच्मि ते ।
ह्रीँ ह्रीँ अमलपक्षि स्वाहा॥
ताम्बूलखादनान्मन्त्री हरेन्मण्डलिनो विषं ॥१॥
लशुनं रामठफ्लं कुष्ठाग्निव्योषकं विषे ।
स्नुहीक्षीरं गव्यघृतं पक्षं पीत्वाऽहिजे विषे ॥२॥
अथ राजिलदष्टे च पेया कृष्णा ससैन्धवा ।
आज्यक्षौद्रशकृत्तोयं पुरीतत्या विषापहं ॥३॥
सकृष्णाखण्डदुग्धाज्यं पातव्यन्तेन माक्षिकं ।
व्योषं पिच्छं विडालास्थि नकुलाङ्गरुहैः समैः ॥४॥
चूर्णितैर्म्मेषदुग्धाक्तैर्धूपः सर्वविषापहः ।
रोमनिर्गुण्डिकाकोलवर्णैर्वा लशुनं समं ॥५॥
मुनिपत्रैः कृतस्वेदं दष्टं काञ्जिकपाचितैः ।
मूषिकाः षोडश प्रोक्ता रसङ्कार्पासकजम्पिवेत् ॥६॥
सतैलं मूषिकार्त्तिघ्नं फलिनीकुसुमन्तथा ।
सनागरगुडम्भक्ष्यं तद्विषारोचकापहं ॥७॥
चिकित्सा विंशतिर्भूता लूताविषहरो गणः ।
पद्मकं पाटली कुष्ठं नतमूशीरचन्दनं ॥८॥
निर्गुण्डी शारिवा शेलु लूतार्त्तं सेचयेज्जलैः ।
गुञ्जानिर्गुण्डिकङ्कोलपर्णं शुण्ठी निशाद्वयं ॥९॥
करञ्जास्थि च तत्पङ्कैः वृश्चिकार्त्तिहरं श्रृणु ।
मञ्जिष्ठा व्योषपुष्पं शिरीषकौमुदं ॥१०॥
संयोज्याश्चतुरो योगा लेपादौ वृश्चिकापहाः॥
ओं नमो भगवते रुद्राय चिवि छिन्द किरि
भिन्द खङ्गेन छेदय शुलेन भेदय चक्रेण दारय
ओं ह्रूँ फट् ।
मन्त्रेण मन्त्रितो देयो गर्द्धभादीन्निकृन्तति ॥११॥
त्रिफलोशीरमुस्ताम्बुमांसीपद्मकचन्दनं ।
अजाक्षीरेण पानादेर्गर्द्धभादेर्विषं हरेत् ॥१२॥
हरेत् शिरीषपञ्चाङ्गं व्योषं शतपदीविषं ।
सकन्धरं शिरीषास्थि हरेदुन्दूरजं विषं ॥१३॥
व्योषं ससर्पिः पिण्डीतमूलमस्य विषं हरेत् ।
क्षारव्योषवचाहिङ्गुविडङ्गं सैन्धवन्नतं ॥१४॥
अम्बष्ठातिबलाकुष्ठं सर्वकीटविषं हरेत् ।
यष्टिव्योषगुडक्षीरयोगाः शुनो विषापहः ॥१५॥
ओं सुभद्रायै नमः ओं सुप्रभायै नमः ।
यान्यौषधानि गृह्यन्ते विदानेन विना जनैः ॥१६॥
तेषां वीजन्त्वया ग्राह्यमिति ब्रह्माऽव्रवीच्च नाम् ।
ताम्प्रणम्योषधीम्पश्चात् यवान् प्रक्षिप्य मुष्टिना ॥१७॥
दश जप्त्वा मन्त्रमिदं नमस्कुर्य्यात्तदौषधं ।
त्वामुद्धराम्यूद्र्ध्वनेत्रामनेनैव च भक्षयेत् ॥१८॥
नमः पुरुषसिंहाय नमो गोपालकाय च ।
आत्मनैवाभिजानाति रणे कृष्णपराजयं ॥१९॥
एतेन सत्यवाक्येन अगदो मेऽस्तु सिध्यतु॥
नमो वैदूर्य्यमाते तन्न रक्ष मां सर्वविषेभ्यो गौरि गान्धारि
चाण्डालि मातङ्गिनि स्वाहा हरिमाये ।
औषधादौ प्रयोक्तव्यो मन्त्रोऽयं स्थावरे विषे ॥२०॥
भुक्तमात्रे स्थिते ज्वाले पद्मं शीताम्बुसेवितं ।
पाययेत्सघृतं क्षौद्रं विषञ्चेत्तदनन्तरं ॥२१॥
इत्यादिमहापुराणे आग्नेये गोनसादिचिकित्सा नाम अष्टनवत्यधिकद्विशततमोऽध्यायः॥
N/A
References : N/A
Last Updated : September 23, 2020
TOP