संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
भारतवर्षं

अध्याय ११८ - भारतवर्षं

भगवान् अग्निदेवांनी या अग्नि पुराणात चौसष्ट योगनींचे का सविस्तार वर्णन केले आहे.


अग्निरुवाच
उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणं ॥१॥
वर्षं तद्भारतं नाम नवसाहस्रविस्तृतं ॥१॥
कर्मभूमिरियं स्वर्गमपवर्गं च गच्छतां ॥२॥
टिप्पणी
१ यस्तु लभेच्छ्राद्धकृतं फलमिति ख.. , छ.. , ज.. च
२ वाराणसी इति ख.. , ङ.. , छ.. , ज.. च
महेन्द्रो मलयः सह्यः शुक्तिमान् हेमपर्वतः(१) ॥२॥
विन्ध्यश्च पारिपात्रश्च सप्तात्र कुलपर्वताः ॥३॥
इन्द्रद्वीपः कसेरुश्च ताम्रवर्णो गभस्तिमान् ॥३॥
नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथ वारुणः ॥४॥
अयं तु नवमस्तेषु द्वीपः सागरसंवृतः ॥४॥
योजनानां सहस्राणि द्वीपोयं दक्षिणोत्तरात् ॥५॥
नव भेदा भारतस्य(२) मध्यभेदेऽथ पूर्वतः ॥५॥
किराता यवनाश्चापि ब्राह्मणाद्याश्च मध्यतः ॥६॥
वेदस्मृतिमुखा नद्यः पारिपात्रोद्भवास्तथा ॥६॥
विन्ध्याच्च नर्मदाद्याः स्युः सह्यात्तापी पयोष्णिका ॥७॥
गोदावरीभीमरथीकृष्णवेणादिकास्तथा ॥७॥
मलयात्कृतमालाद्यास्त्रिसामाद्या महेन्द्रजाः ॥८॥
कुमाराद्याः शुक्तिमतो(३) हिमाद्रेश्चन्द्रभागका ॥८॥
पश्चिमे कुरुपाञ्चालमध्यदेशादयःस्थिताः ॥९॥९॥
इत्याग्नेये महापुराणे भारतवर्षं नामाष्टादशाधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP