संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
स्वायम्भुवसर्गः

अध्याय १०७ - स्वायम्भुवसर्गः

भगवान् अग्निदेवांनी या अग्नि पुराणात देवालय निर्माणच्या हेतु विषयांत  में आख्यान दिले आहे.


अग्निरुवाच(४)
वक्ष्ये भुवनकोषञ्च पृथ्वीद्वीपादिलक्षणं ॥१॥
अग्निध्रश्चाग्निबाहुश्च वपुष्मान्द्युतिमांस्तथा ॥१॥
मेधा मेधातिथिर्भव्यः सवनः पुत्र एव च(५) ॥२॥
- - - - - - - -- - - - - - - - - -
टिप्पणी
४ ईश्वर उवाचेति ख.. , छ.. च
५ सवनः क्षय एव च इति क..
--- - - - -- - - - -- - - - - - -
ज्योतिष्मान् दशमस्तेषां सत्यनामा सुतोऽभवत् ॥२॥
प्रियव्रतसुताः ख्याताः सप्तद्वीपान्ददौ पिता ॥३॥
जम्बुद्वीपमथाग्नीध्रे प्लक्षं मेधातिथेर्ददौ ॥३॥
वपुष्मते शाल्मलञ्च ज्योतिष्मते कुशाह्वयं ॥४॥
क्रौञ्चद्वीपं द्युतिमते शाकं भव्याय दत्तवान् ॥४॥
पुष्करं सवनायादादग्नीध्रेऽदात्सुते शतं(१) ॥५॥
जम्बूद्वीपं पिता लक्षं नाभेर्दत्तं हिमाह्वयं ॥५॥
हेमकूटं किम्पुरुषे हरिवर्षाय नैषधं ॥६॥
इलावृते मेरुमध्ये रम्ये नीलाचलश्रितं(२) ॥६॥
हिरण्वते श्वेतवर्षं कुरूंस्तु कुरवे ददौ ॥७॥
भद्राश्वाय च भद्राश्वं केतुमालाय पश्चिमं ॥७॥
मेरोः प्रियव्रतः पुत्रानभिषिच्य ययौ वनं ॥८॥
शालग्रामे तपस्तप्त्वा ययौ विष्णोर्लयं नृपः ॥८॥
यानि कुम्पुरुषाद्यानि ह्यष्टवर्षाणि सत्तम ॥९॥
तेषां स्वाभाविकी सिद्धिः सुखप्राया ह्ययत्नतः ॥९॥
जरामृत्युभयं नास्ति धर्माधर्मौ युगादिकं ॥१०॥
नाधमं मध्यमन्तुल्या हिमाद्देशात्तु नाभितः(३) ॥१०॥
ऋषभो मेरुदेव्याञ्च ऋषभाद्भरतोऽभवत् ॥११॥
ऋषभो दत्तश्रीः पुत्रे शालग्रामे हरिङ्गतः ॥११॥
भरताद्भारतं वर्षं भरतात्सुमतिस्त्वभूत्(४) ॥१२॥
भरतो दत्तलक्ष्मीकः शालग्रामे हरिं गतः ॥१२॥
- --- -- - - -- - - - -- - - - - -- - - -
टिप्पणी
१ सुतेभ्य उ इति ख.. , छ.. च
२ रम्येनीलाचलाश्रियमिति ख.. , ङ.. , झ.. च । रम्यं नीलाचले स्थितमिति घ..
३ हिमाद्देशान्तनाभित इति छ..
४ सुमतिस्तत इति ग..
- -- - - - -- - - -- - - -- - - -- - -
स योगी योगप्रस्तावे(१) वक्ष्ये तच्चरितं पुनः ॥१३॥
सुमतेस्तेजसस्तस्मादिन्द्रद्युम्नो व्यजायत(२) ॥१३॥
परमेष्ठी ततस्तस्मात्प्रतीहारस्तदन्वयः ॥१४॥
प्रतीहारात्प्रतीहर्ता प्रतिहर्तुर्भुवस्ततः ॥१४॥
उद्गीतोथ च प्रस्तारो विभुः प्रस्तारतः सुतः(३) ॥१५॥
पृथुश्चैव ततो नक्तो नक्तस्यापि गयः सुतः ॥१५॥
नरो गयस्य तनयः तत्पुत्रोऽभूद्विराट्ततः ॥१६॥
तस्य पुत्रो महावीर्यो धीमांस्तस्मादजायत ॥१६॥
महान्तस्तत्सुतश्चाभून्मनस्यस्तस्य चात्मजः ॥१७॥
त्वष्टा त्वष्टुश्च विरजा(४)रजस्तस्याप्यभूत्सुतः ॥१७॥
सत्यजिद्रजसस्तस्य जज्ञे पुत्रशतं मुने ॥१८॥
विश्वज्योतिःप्रधानास्ते भारतन्तैर्विवर्धितं ॥१८॥
कृतत्रेतादिसर्गेण सर्गः स्वायम्भुवः स्मृतः ॥१९॥

इत्याग्नेये महापुराणे स्वायम्भुवः सर्गो नाम सप्ताधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP