संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
यदुवंशवर्णनम्

अध्याय २७५ - यदुवंशवर्णनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
यदोरासन्‌पञ्च पुत्रा ज्येष्ठस्तेषु सहस्रजित् ।
नीलाञ्जिको रधुः क्रोष्टुः शतजिच्च सहस्रजित् ॥१॥

शतजिद्धैहयो रेणुहयो हय इति त्रयः ।
धर्म्मनेत्रो हैहयस्य धर्म्मनेत्रस्य संहनः ॥२॥

महिमा संहनस्यासीन्महिम्नो भद्रसेनकः ।
भद्रसेनाद् दुर्गमोऽभूद्‌दुर्गभात्कनकोऽभवत् ॥३॥

कनकात् कृतवीर्य्यस्तु कृताग्निः करवीरकः ।
कृतौजाश्च चचतुर्थोऽभूत् कृतवीर्य्यात्तु सोऽर्जुनः ॥४॥

दत्तोऽर्ज्जुनाय तपते सप्तद्वीपमहीशताम् ।
ददौ बाहुसहस्रञ्च अजेयत्वं रणेऽरिणा ॥५॥

अधर्म्मै वर्त्त मानस्य विष्णुहस्तान्मृतिर्ध्रु बा ।
दश यज्ञसहस्राणि सोऽर्ज्जुनः कृतवान्तृपः ॥६॥

अनष्टद्रव्यता राष्ट्रे तस्य संस्मरणादभूत् ।
न नूनं कार्त्तवीर्य्यस्य गतिं यास्यन्ति वै नृपाः ॥७॥

यज्ञैर्द्दानैस्तपोभिश्च विक्रमेण श्रुतेन च ।
कार्त्तवीर्यस्य च शतं पुत्त्राणां पञ्च वै पराः ॥८॥

सूरसेनश्च सूरश्च धृष्टोक्तः कृष्ण एव च ।
जयध्वजश्च नामासीदावन्त्यो नृपतिर्महान् ॥९॥

जयध्वजात्तालजङ्घस्तालजङ्घात्ततः सुताः ।
हैहयानां कुलाः पञ्च भोजाश्चावन्तयस्तथा ॥१०॥

वीतिहोत्राः स्वयं जाताः शौण्डिकेयास्तथैव च ।
वीतिहोत्रादनन्तोऽभूदनन्ताद्‌दुर्ज्जयो नृपः ॥११॥

क्रोष्टोर्व्वंशं प्रवक्षअयामि यत्र जातो हरिःस्वयम् ।
क्रोष्टोस्तु वृजिनीवांश्च स्वाहाऽभूद्‌वृजिनीवतः ॥१२॥

स्वाहापुत्रो रुषद्‌गुश्च तस्य चित्रस्थः सुतः ।
शशविन्दुश्चित्ररथाच्चक्रवर्त्ती हरौ रतः ॥१३॥

शशविन्दोश्च पुत्त्राणां शतानामभवच्छतम् ।
धीमतां चारुरूपाणां भूरिद्रविणतेजसाम् ॥१४॥

पृथुश्रवाः प्रधानोऽभूत्तस्य पुत्त्रः सुयज्ञकः ।
सुयज्ञस्योशनाः पुत्रस्तितिक्षुरुशनः सुतः ॥१५॥

तितिक्षोस्तु मरुत्तोऽभूत्तस्मात्कम्बलवर्हिषः ।
पञ्चाशद्रुक्मकवचाद्रुक्मेषुः पृथुरुक्मकः ॥१६॥

हविर्ज्यामघः पापघ्नो ज्यामघः स्त्रीजितोऽभवत् ।
सेव्यायां ज्यामघादासीद्विदर्बस्तस्य कौशिकः ॥१७॥

लोमपादः क्रथः श्रेष्ठात् कृतिः स्याल्लोमपादतः ।
कौशिकस्य चिदिः पुत्रस्तस्माच्चैद्या नृपाः स्मृताः ॥१८॥

क्रथाद्विदर्भपुत्राश्च कुन्तिः कुन्तेस्तु धृष्टकः ।
धृष्टस्य निधृतिस्तस्य उदर्काख्यो विदूरथः ॥१९॥

दशार्हपुत्रो व्योमस्तु व्योमाज्जीमूत उच्यते ।
जीमूतपुत्रो विकलस्तस्य भीमरथः सुतः ॥२०॥

भीमरथान्नवरथस्ततो दृढ़रथोऽभवत् ।
शकुन्तिश्च दृढ़रथात् शकुन्तेश्च करम्भकः ॥२१॥

करम्भाद्देवलातोऽभुत् देवक्षेत्रश्च तत्सुतः ।
देवक्षेत्रान्मधुर्नाम मधोर्द्रवरसोऽभवत् ॥२२॥

द्रवरसात् पुरुहुतोऽभूज्जन्तुरासीत्तु तत्सुतः ।
गुणी तु यादवो राजा जन्तुपुत्रस्तु सात्त्वतः ॥२३॥

सात्त्वाताद्भजमानस्तु वृष्णिरन्धक एव च ।
देवावृधश्च तत्वारस्तेषां वंशास्तु विश्रुताः४ ॥२४॥

भजमानस्य वाह्योऽभूद्‌वृष्टिः कृमिर्निमिस्तथा ।
देवावृधाद्वभ्रुरासीत्तस्य श्लोकोऽत्र गीयते ॥२५॥

यथैव श्रृणुमो दूरात् गुणांस्तद्वत्समन्तिकात् ।
वभ्रुः श्रेष्ठो मनुष्याणआं देवैर्देवावृधः समः ॥२६॥

चत्वारश्च सुता वभ्रोर्वासुदेवपरा नृपाः ।
कुहुरो भजमानस्तु शिनिः कम्बलवर्हिषः ॥२७॥

कुहुरस्य सुतो धृष्णुर्धृष्णोस्तु तनयो धृतिः ।
धृतेः कपोतरोमाभूत्तस्य पुत्रस्तु तित्तिरिः ॥२८॥

तित्तिरेस्तु नरः पुत्रस्तस्य चन्दनदुन्दुभिः ।
पुनर्वसुस्तस्य पुत्र आहुतश्चाहुकीसुतः ॥२९॥

आहुकाद्देवको जज्ञे उग्रसेनस्ततोऽभवत् ।
देववानुपदेवश्च देवकस्य सुताः स्मृता ॥३०॥

तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ ।
देवकी श्रुतदेवी च मित्रदेवी यशोधरा ॥३१॥

श्रीदेवी सत्यदेवी च सुरापी चेति सप्तमी ।
नवोग्रसेनस्य सुताः कंसस्तेषाञ्च पूर्वजः ॥३२॥

न्यग्रोधश्च सुनामा च कङ्कः शङ्‌कुश्च भूमिपः ।
सुतनूराष्ट्रपालश्च युद्धमुष्टिः सुमुष्टिकः ॥३३॥

भजमानस्य पुत्रोऽथ रथमुख्यो विदूरथः ।
राजाधिदेवः शूरश्च विदूरथसुतोऽभवत् ॥३४॥

राजाधिदेवपुत्रौ द्वौ शोणाश्वः श्वेतवाहनः ।
शोणाश्वस्य सुताः पञ्च शमी शत्रुजिदादय ॥३५॥

शमीपुत्रः प्रतिक्षेत्रः प्रतिक्षेत्रस्य भोजकः ।
भोजस्य हृदिकः पुत्रो हृदिकस्य दशात्मजाः ॥३६॥

कृतवर्म्मा शतधन्वा देवार्हो भीषणादयः ।
देवार्हात् कम्बलवर्हिरसमौजास्ततोऽभवत् ॥३७॥

सुदंष्ट्रश्च सुवासश्च धृष्टोऽभूदसमौजसः।
गान्धारी चैव माद्री च धृष्टभार्य्ये बभूवतुः ॥३८॥

सुमित्रोऽभूच्च गान्धार्य्यां माद्री जज्ञे युधाजितम् ।
अनमित्रः शिनिर्धृष्टात्ततो वै देवमीढुषः ॥३९॥

अनमित्रसुतो निघ्नो निघ्नस्यापि प्रसेनकः ।
सत्राजितः प्रसेनोऽथ मणिं सूर्य्यात् स्यमन्तकम् ॥४०॥

प्राप्यारण्ये चरन्तन्तु सिंहो हत्वाऽग्रहीन्मणिं ।
हतो जाम्बतवता सिंहो जाम्बवान् हरिणा जितः ॥४१॥

तस्मान्मणिं जाम्बवतीं प्राप्यागाद्‌द्वारकां पुरीम् ।
सत्राजिताय प्रददौ शतधन्वा जघान् तम् ॥४२॥

हत्वा शतधनुं कृषणो मणिमादाय कीर्त्तिभाक् ।
बलयादवमुख्याग्रे अक्रूरान्मणिमर्पयेत् ॥४३॥

मिथ्याभिशस्तिं कृष्णस्य त्यक्त्वा स्वर्गी च सम्पठन् ।
सत्राजितो भङ्गकारः सत्यभामा हरेः प्रिया ॥४४॥

अनमित्राच्छिनिर्जज्ञे सत्यकस्तु शिनेः सुतः ।
सत्यकात्‌सात्यकिर्जज्ञे युयुधानाद्‌धुनिर्ह्यभूत् ॥४५॥

धुनेर्युगन्धरः पुत्रः स्वाह्योऽभूत स युधाजितः ।
ऋषभक्षेत्रकौ तस्य ह्यृषबाच्च स्वफल्ककः ॥४६॥

स्वफल्कपुत्रो ह्यक्रूरो अक्रूरच्च सूधन्वकः ।
शूरात्तु वसुदेवाद्याः पृथा पाण्डोः प्रियाऽभवत् ॥४७॥

धर्म्माद्युधिष्ठिरः पाण्डोर्वायोः कुन्त्यां वृकोदरः ।
इन्द्राद्धनञ्जयो माद्र्यां नकुलः सहदेवकः ॥४८॥

वसुदेवाच्च रोहिण्यां रामः सारणदुर्गमौ।
वसुदेवाच्च देवक्यामादौ जातः सुसेनकः ॥४९॥

कीर्तिमान् भद्रसेनश्च जारुख्यो विष्णुदासकः ।
भद्रदेहः कंश एतान् षड्‌गर्भान्निजघान ह ॥५०॥

ततो बलस्ततः कृष्णः सुभद्रा भद्रभाषिणी ।
चारुदेष्णश्च शाम्बाद्याः कृष्णाज्जाम्बवतीसुताः ॥५१॥

इत्यादिमहापुराणे आग्नेये यदुवंशवर्णनं नाम पञ्चसप्तत्यधिकद्विशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP