संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
पुष्पादिपूजाफलम्

अध्याय २४८ - पुष्पादिपूजाफलम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
पुष्पैस्तु पूजनाद्विष्णुः सर्वकार्य्येषु सिद्धिदः ।
मालती मल्लिका यूथी पाटला करवीरकं ॥१॥

पावन्तिरतिमुक्तश्च१ कर्णिकारः कुरण्टकः ।
कुब्जकस्तगरो नीपो वाणो वर्वपमल्लिका ॥२॥

अशोकस्तिलकः कुन्दः पूजायै स्यात्तमालजं ।
विल्वपत्रं शमीपत्रं पत्रं भृङ्गरजस्य तु ॥३॥

तुलसीकालतुलसीपत्रं वासकमर्च्चने ।
केतकीपत्रपुष्पं च पद्मं रक्तोत्पलादिकं ॥४॥

नार्क्कन्नोन्मत्तकङ्गाञ्ची पूजने गिरिमल्लिका ।
कौटजं शाल्मलीपुष्पं कण्टकारीभवन्नहि ॥५॥

घृतप्रस्थेन विष्णोश्च स्नानङ्गो कोटिसत्‌फलं ।
आढकेन तु राजा स्यात् घृतक्षीरैर्द्दिवं व्रजेत् ॥६॥

इत्यादिमहापुराणे आग्नेये पुष्पादिपूजाफलं नाम अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP