संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
नरकस्वरूपम्

अध्याय २०३ - नरकस्वरूपम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
पुष्पाद्यैः पूजनाद्विष्णोर्न याति नरकान्दवे ॥१॥
आयुषोऽन्ते नरः प्राणैरनिच्छन्नपि मुच्यते ॥१॥
जलमग्निर्विषं शस्त्रं क्षुद्व्याधिः पतनं गिरेः ।॥२॥
निमित्तं किञ्चिदासाद्य देही प्राणैर्विमुच्यते ॥२॥
अन्यच्छरीरमादत्ते यातनीयं स्वकर्मभिः ॥३॥
भुङ्क्तेऽथ पापकृत्दुःखं सुखं धर्माय सङ्गतः ॥३॥
नीयते यमदूतैस्तु यमं प्राणिभयङ्करैः ॥४॥
कुपथे दक्षिणद्वारि धर्मिकः पश्चिमादिभिः ॥४॥
यमाज्ञप्तैः किङ्करैस्तु पात्यते नरकेषु च(२) ॥५॥
टिप्पणी
१ आसनं मूर्तिषोढाङ्गमिति ख..
२ पात्यते नरकेष्वपि इति ख.. । पात्यते नरके सदा इति ङ.. ।
पीड्यते नरकेऽधुनेति घ.. , छ.. च
स्वर्गे तु नीयते धर्माद्वसिष्ठाद्युक्तिसंश्रयात् ॥५॥
गोघाती तु महावीच्यां वर्षलक्षन्तु पीड्यते ॥६॥
आमकुम्भे महादीप्ते ब्रह्महा भूमिहारकः ॥६॥
महाप्रलयकं यावद्रौरवे पीड्यते शनैः ॥७॥
स्त्रीबालवृद्धहन्ता तु यावदिन्द्राश्चतुर्दश ॥७॥
महारौरवके रौद्रे गृहक्षेत्रादिदीपकः ॥८॥
दह्यते कल्पमेकं स चौरस्तामिस्रके पतेत् ॥८
नैककल्पन्तु शूलाद्यैर्भिद्यते यमकिङ्करैः ॥९॥
महातामिस्रके सर्पजलौकाद्यैश्च पीड्यते ॥९॥
यावद्भूमिर्मातृहाद्या असिपत्रवनेऽसिभिः(१) ॥१०॥
नैककल्पन्तु नरके करम्भवालुकासु च ॥१०॥
येन दग्धो जनस्तत्र दह्यते वालुकादिभिः ॥११॥
काकोले कृमिविष्ठाशी एकाकी मिष्टभोजनः ॥११॥
कुट्टले मूत्ररक्ताशी पञ्चयज्ञक्रियोज्झितः ॥१२॥
सुदुर्गन्धे रक्तभोजी भवेच्चाभक्ष्यभक्ष्यकः ॥१२॥
तैलपाके तु तिलवत्पीड्यते परपीडकः ॥१३॥
तैलपाके तु पच्येत शरणागतघातकः ॥१३॥
निरुच्छासे दाननाशी रसविक्रयकोऽध्वरे ॥१४॥
नाम्ना वज्रकवाटेन महापाते तदानृती ॥१४॥
महाज्वाले पापबुद्धिः क्रकचेऽगम्यगामिनः ॥१५॥
सङ्करी गुडपाके च(२) प्रतुदेत्परमर्मनुत् ॥१५॥
टिप्पणी
१ असिपत्रवनेऽग्निभिरिति ङ..
२ गुरुपाके चेति ख.. , ज.. च
क्षारह्रदे(१) प्राणिहन्ता क्षुरधारे च भूमिहृत् ॥१६॥
अम्बरीषे गोस्वर्णहृद्द्रुमच्छिद्वज्रशस्त्रके ॥१६॥
मधुहर्ता परीतापे कालसूत्रे परार्थहृत् ॥१७॥
कश्मलेऽत्यन्तमांसाशी उग्रगन्धे ह्यपिण्डदः ॥१७॥
दुर्धरे तु काचभक्षी वन्दिग्राहरताश्च ये ॥१८॥
मञ्जुषे नरके लोहेऽप्रतिष्ठे श्रुतिनिन्दकः ॥१८॥
पूतिवक्त्रे कूटसाक्षी परिलुण्ठे धनापहा ॥१९॥
बालस्त्रीवृद्धघाती च कराले ब्राह्मणार्तिकृत् ॥१९॥
विलेपे मद्यपो विप्रो महाताम्रे तु मेदिनः(२) ॥२०॥२०॥
तथाक्रम्य पारदारान् ज्वलन्तीमायसीं शिलां ॥२१॥
शाल्मलाख्ये तमालिङ्गेन्नारी बहुनरङ्गमा ॥२१॥
आस्फोटजिह्वोद्धरणं स्त्रीक्षणान्नेत्रभेदनं ॥२२
अङ्गारराशौ क्षिप्यन्ते मातृपुत्र्यादिगामिनः ॥२२॥
चौराः क्षुरैश्च भिद्यन्ते स्वमांसाशी च मांसभुक् ॥२३॥
मासोपवासकर्ता वै न याति नरकन्नरः ॥२३॥
एकादशीव्रतकरो भीष्मपञ्चकसद्व्रती ॥२४॥

इत्याग्नेये महापुराणे नरकस्वरूपवर्णनं नाम त्र्यधिकद्विशततमोऽध्यायः ॥
टिप्पणी
१ क्षारकूपे इति ख.. , छ.. च
२ महाप्रेते तु भेदन इति ख.. , ग.. , घ.. , ड.. , छ.. , ज.. च

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP