संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
शकुनानि

अध्याय २३० - शकुनानि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


पुष्कर उवाच
औषधानि च युक्तानि धान्यं कृष्णमशोभनं ।
कार्पासं तृणशुष्कञ्च गोमयं वै धनानि च ॥१॥

अङ्गारं गुडसर्जौ च मुण्डाभ्यक्तञ्च नग्नकं ।
अयः पङ्कं चर्म्मकेशौ उन्मत्तञ्च नपुंसकं ॥२॥

चण्डालश्वपचाद्यानि नरा बन्धनपालकाः ।
गर्भिणी स्त्री च विधवाः पिण्याकादीनि वै मृतं ॥३॥

तुषभस्मकपालास्थिभिन्नभाण्डमशस्तकं ।
अशस्तो वाद्यशब्दश्च भिन्न भैरवझर्क्भरः ॥४॥

एहीति पुरतः शब्दः शस्यते न तु पृष्ठतः ।
गच्छेति पश्चाच्छब्दोऽग्र्यः पुरस्तात्तु विगर्हितः ॥५॥

क्व यासि तिष्ठ मा गच्छ किन्ते तत्र गतस्य च ।
अनिष्टशब्दा मृत्यर्थं क्रव्यादश्च ध्वजादिगः ॥६॥

स्खलनं वाहनानाञ्च शस्त्रभङ्गस्तथैव च ।
शिरोघातश्च चद्वाराद्यैश्छत्र वासादिपातनं ॥७॥

हरिमभ्यर्च्य संस्तुत्य स्यादमङ्गल्यनाशनं ।
द्वितीयन्तु ततो दृष्ट्वा विरुद्धं प्रविशेद् गृहं ॥८॥

श्वेताः सुमनसः श्रेष्ठाः पूर्णकुम्भो महोत्तमः ।
मांसं मत्स्या दूरशब्दा वृद्ध एकः पशुस्त्वजः ॥९॥

गावस्तुरङ्गमा नागा देवाश्च ज्वलितोऽनलः ।
दूर्वार्द्रगोमयं वेश्या स्वर्णरूप्यञ्च रत्नकं ॥१०॥

वचासिद्धार्थकौषध्यो मुद्र आयुधखड्‌गकं ।
छत्रं पीठं राजलिङ्गं शवं रुदितवर्जितं ॥११॥

फलं घृतं दधि पयो अक्षतादर्शमाक्षिकं ।
शङ्ख इक्षुः शुभं वाक्पं भक्तवादित्रगीतकं ॥१२॥

गम्भीरमेघस्तनितं तडित्तुष्टिश्च मानसी ।
एकतं सर्वलिङ्गानि मनसस्तुष्टिरेकतः ॥१३॥

इत्यादिमहापुराणे आग्नेये माङ्गल्याध्यायो नाम त्रिंशदधिकद्विशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP