संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
शिवप्रतिष्ठाकथनम्

अध्याय ९७ - शिवप्रतिष्ठाकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
(३)प्रातर्नित्यविधिं कृत्वा द्वारपालप्रपूजनं ॥१॥
प्रविश्य प्रग्विधानेन देहशुद्ध्यादिमाचरेत् ॥१॥
दिक्पतींश्च समभ्यर्च्य शिवकुम्भञ्च वर्धनीं ॥२॥
टिप्पणी
३ वासुदेव दयाशील लीलया मां समुद्धर । घरोद्धारे समर्थोसि ममोद्धारे कियञ्छ्रमः ॥इति श्लोको ख.. , छ.. पुस्तकेधिकोत्रास्ति
अष्टमुष्टिकया(१) लिङ्गं वह्निं सन्पर्प्य च क्रमात् ॥२॥
शिवाज्ञातस्ततो गच्छेत्प्रासादं शस्त्रमुच्चरन्(२) ॥३॥
तद्गतान् प्रक्षिपेद्विघ्नान् हुम्फडन्तशराणुना(३) ॥३॥
न मध्ये स्थापयेल्लिङ्गं बेधदोषविशङ्कया ॥४॥
तस्मान्मध्यं परित्यज्य यवार्धेन यवेन वा ॥४॥
किञ्चिदीशानमाश्रित्य शिलां मध्ये निवेशयेत् ॥५॥
मूलेन तामनन्ताख्यां सर्वाधारस्वरूपिणीं(४) ॥५॥
सर्वगां सृष्टियोगेन विन्यसेदचलां शिलां ॥६॥
अथवानेन मन्त्रेण शिवस्यासनरूपिणीं ॥६॥
ओं नमो व्यापिनि भगवति स्थिरेऽचले ध्रुवे ॥७॥
ह्रं लं ह्रीं स्वाहा(५)
त्वया शिवाज्ञया शक्ते स्थातव्यमिह सन्ततं ॥७॥
इत्युक्त्वा च समभ्यर्च्य(६) निरुध्याद्रौद्रमुद्रया(७) ॥८॥
वज्रादीनि च रत्नानि तथोशीरादिकौषधीः ॥८
लोहान् हेमादिकांस्यन्तान् हरितालादिकांस्तथा ॥९॥
धान्यप्रभृतिशस्त्रांश्च पूर्वमुक्ताननुक्रमात् ॥९॥
प्रभारागत्वदेहत्ववीर्यशक्तिमयानिमान्(८) ॥१०॥
भावयेन्नेकचित्तस्तु लोकपालेशसंवरैः(९) ॥१०॥
पूर्वादिषु च गर्तेषु(१०) न्यसेदेकैकशः क्रमात्(११) ॥११॥
टिप्पणी
१ अष्टपुत्रियेति ख.. , घ.. , छ.. च । अष्टपुष्पिकयेति ग.. , ङ.. , च । अष्टपुष्टिकया इति ज..
२ प्रासादमस्त्रमुच्चरनिति ख.. , ङ.. च । प्रसादं शास्त्रमुच्चरन्निति ग.. , ज.. च
३ हुं फडन्तशिवात्मनेति ख.. , ग.. , छ.. च । हुं फडन्तशिवाणुनेति ज..
४ सर्वाधानस्वरूपिणीमिति ज..
५ ह्रं लं ह्रं स्वाहेति ख.. , छ.. , च । ओं ह्रां लं हां स्वाहेति ज..
६ इत्युक्त्वा तं समभ्यर्च्येति ख.. , छ.. च । इत्युन्मूलं समभ्यर्चेति ग.. । इत्युच्चार्य समभ्यर्च्येति ङ..
७ विरुन्ध्याद्रोधमुद्रयेति ख.. , ग.. , ङ.. च
८ वीर्याशक्तिमनुक्रमादिति घ..
९ लोकपालेशसञ्चरैरिति घ..
१० पूर्वादिवत्स्वगर्तेषु इति ङ..
११ प्रभारागेत्यादिः न्यसेदेकैकशः क्रमादिति पाठः, छपुस्तके नास्ति
हेमजं तारजं कूर्मं वृषं वा द्वारसम्मुखं(१) ॥११॥
सरित्तटमृदा युक्तं पर्वताग्रमृदाथवा(२) ॥१२॥
प्रक्षिपेन्मध्यगर्तादौ(३) यद्वा मेरुं सुवर्णजं ॥१२॥
मधूकाक्षतसंयुक्तमञ्जनेन समन्वितं ॥१३॥
पृथिवीं राजतीं यद्वा यद्वा हेमसमुद्भवां ॥१३॥
सर्ववीजसुवर्णाभ्यां समायुक्तां विनिक्षिपेत्(४) ॥१४॥
स्वर्णजं राजतं वापि सर्वलोहसमुद्भवं(५) ॥१४॥
सुवर्णं कृशरायुक्तं पद्मनालं(६) ततो न्यसेत् ॥१५॥
देवदेवस्य शक्त्यादिमूर्तिपर्यन्तमासनं ॥१५॥
प्रकल्प्य पायसेनाथ लिप्त्वा(७) गुग्गुलुनाथवा ॥१६॥
श्वभ्रमाच्छाद्य वस्त्रेण तनुत्रेणास्त्ररक्षितं(८) ॥१६॥
दिक्पतिभ्यो बलिं(९) दत्वा समाचान्तोऽथ देशिकः ॥१७॥
शेवेन वा शिलाश्वभ्रसङ्गदोषनिवृत्तये(१०) ॥१७॥
शस्त्रेण वा शतं सम्यग्जुहुयात्पूर्णया सह ॥१८॥
टिप्पणी
१ द्वारसम्पुटमिति ग.
२ मृदा पुन इति ग..
३ मध्यगर्तायामिति ख.. , घ.. , ङ.. च
४ मधूकाक्षतेत्त्यादिः, विनिक्षिपेदित्यन्तः पाठो ग.. पुस्तके नास्ति
५ सर्वलोहसमन्वितमिति ग..
६ पञ्चधान्यमिति ख.. , घ.. च
७ लिप्तेति घ.. , ङ.. च
८ श्वभ्रमाच्छाद्य वस्त्रेण तन्मात्रेण स्वरक्षितमिति ख.. , ङ.. च । यन्त्रमाच्छाद्य शस्त्रेण तनुत्रेण स्वरक्षितमिति ज.. । श्वभ्रेत्त्यादिपाठो छ.. पुस्तके नास्ति
९ दिक्पालादिभ्यो बलिमिति ड..
१० शिलास्तत्र सङ्गदोषनिवृत्तये इति घ.. , ज.. च । शिलाश्वभ्रमङ्गदोषवृत्तये इति ख.. , छ.. च
एकैकाहुतिदानेन सन्तर्प्य वास्तुदेवताः ॥१८॥
समुत्थाप्य हृदादेवमासनं मङ्गलादिभिः ॥१९॥
गुरुर्देवाग्रतो गच्छेन्मूर्तिपैश्च दिशि स्थितैः(१) ॥१९॥
चतुर्भिः सह कर्तव्या देवयज्ञस्य(२) पृष्ठतः ॥२०॥
प्रासादादि(३) परिभ्रम्य भद्राख्यद्वारसम्मुखं ॥२०॥
लिङ्गं संस्थाप्य दत्वार्घ्यं प्रासादं सन्निवेशयेत्(४) ॥२१॥
द्वारेण द्वारबन्धेन द्वारदेशेन तच्छिला ॥२१॥
द्वारबन्धे शिखाशून्ये तदर्धेनाथ तदृते(५) ॥२२॥
वर्जयन्(६) द्वारसंस्पर्शं द्वारेणैव महेश्वरं ॥२२॥
देवगृहसमारम्भे कोणेनापि प्रवेशयेत् ॥२३॥
अयमेव विधिर्ज्ञेयो व्यक्तलिङ्गेऽपि सर्वतः ॥२३॥
गृहे प्रवेशनं द्वारे लोकैरपि समीरितं ॥२४॥
अपद्वारप्रवेशेन विदुर्गोत्रक्षयं गृहं(७) ॥२४॥
अथ पीठे(८) च संस्थाप्य लिङ्गं द्वारस्य सम्मुखं ॥२५॥
तूर्यमङ्गलनिर्घेषैर्दूर्वाक्षतसमन्वितं ॥२५॥
समुत्तिष्ठं हृदेत्युक्त्वा महापाशुपतं पठेत् ॥२६॥
टिप्पणी
१ मूर्तिपैः स्वदिशि स्थितैरिति ज..
२ बन्धुभिः सह कर्तव्या देवयानस्येति ख.. । बन्धुभिः सहकारे च देवालयस्य इति ग.. , ज.. च
३ प्रासादार्धमिति ज..
४ सम्प्रवेशयेदिति घ..
५ तदर्धेनाथ घातयेतिति झ.. । तदर्धेनाथ तत्सुते इति ग.. । तदर्धेनाथ तद्यतिमिति घ.. । तदर्धे वाथ तत्सुतमिति ज.. । तदर्धे नाथ तद्युते इति ङ..
६ बन्धने इति ख.. । बन्ध्यनिति घ.. । रक्षयनिति झ.. । वर्जयेदिति छ..
७ वित्तगोत्रक्षयं गुहमिति ग..
८ अथ चैवं इति ज.. , झ.. , घ.. च
अपनीय घटं श्वभ्राद्(१) देशिको मूर्तिपैः सह ॥२६॥
मन्त्रं सन्धारयित्वा तु(२) विलिप्तं(३) कुङ्कुमादिभिः ॥२७॥
शक्तिशक्तिमतोरैक्यं ध्यात्वा चैव तु रक्षितं(४) ॥२७॥
लयान्तं(५) मूलमुच्चार्य स्पृष्ट्वा श्वभ्रे निवेशयेत्(५) ॥२८॥
अंशेन ब्रह्मभागस्य यद्वा अंशद्वयेन च ॥२८॥
अर्धेन वाष्टमांशेन सर्वस्याथ प्रवेशनं(७) ॥२९॥
विधाय सीसकं नाभिदीर्घाभिः(८) सुसमाहितः ॥२९॥
श्वभ्रं(९) वालुकयापुर्य ब्रूयात्स्थिरीभवेति च(१०) ॥३०॥
ततो लिङ्गे स्थिरीभूते ध्यात्वा(११) सकलरूपिणं ॥३०॥
मूलमुच्चार्य शक्त्यन्तं सृष्ट्या च निष्कलं(१२) न्यसेत् ॥३१॥
स्थाप्यमानं यदा लिङ्गं याम्यां दिशमथाश्रयेत्(१३) ॥३१॥
तत्तद्दिगीशमन्त्रेण पूर्णान्तं दक्षिणान्वितं ॥३२॥
टिप्पणी
१ घटं तत्र इति झ..
२ मन्त्रं सन्धारयित्वाथ इति ख.. । पत्रस्थं धारयित्वा तु, इति घ..
३ सुलिप्तमिति ग..
४ लक्षितमिति घ.. , ज.. , झ.. , च
५ नमोन्तमिति ड..
६ शक्तिमुद्रे निवेशयेदिति ज..
७ अर्धेन चाष्टमांशेन सर्वस्याधः प्रवेशनमिति ज..
८ सीसकं वाग्भिर्दीर्घाभिरिति छ.. । सीसकं चापि दीर्घारिति ज..
९ अथेति क.. , ङ.. , छ.. च
१० लयामन्तमित्यादिः, स्थिरीभवेति च इत्यन्तः सार्धश्लोकद्वयात्मकः पाठो झ.. पुस्तके नास्ति
११ ध्यायेदिति घ..
१२ सृष्ट्यादिविकलमिति झ.. । सृष्ट्यादिनिष्फलमिति ख.. , घ.. , च । सृष्ट्यादि निष्फलमिति ग.. , ड.. च
१३ ततो लिङ्गे इत्यादिः, दिशमथाश्रयेदित्यन्तः पाठो ज.. पुस्तके नास्ति
सव्ये स्थाने च वक्रे च(१) चलिते स्फुटितेपि वा ॥३२॥
जुहुयान्मूलमन्त्रेण बहुरूपेण(२) वा शतं ॥३३॥
कुञ्चान्येष्वपि दोषेषु शिवशान्तिं समाश्रयेत्(३) ॥३३॥
युक्तं न्यासादिभिर्लिङ्गं(४) कुर्वन्नेवं न दोषभाक् ॥३४॥
पीठबन्धमतः कृत्वा लक्षणस्यांशलक्षणं(५) ॥३४॥
गौरीमन्त्रं लयं नीत्वा सृष्ट्या पिण्डीञ्च विन्यसेत् ॥३५॥
सम्पूर्य पार्श्वसंसिद्धिं वालुकावज्रलेपनं(६) ॥३५॥
ततो मूर्तिधरैः सार्धं गुरुः शान्तिं घटोर्ध्वतः ॥३६॥
संस्थाप्य कलशैरन्यैस्तद्वत्(७) पञ्चामृतादिभिः ॥३६॥
विलिप्य चन्दनाद्यैश्च(८) सम्पूज्य जगदीश्वरं ॥३७॥
उमामहेशमन्त्राभ्यां तौ स्पृशेल्लिङ्गमुद्रया ॥३७॥
ततस्त्रितत्त्वविन्यासं षडर्चादिपुरःसरं(९) ॥३८॥
कृत्वा मूर्तिं तदीशानामङ्गानां ब्रह्मणामथ ॥३८॥
ज्ञानी लिङ्गे(१०) क्रियापीठे विनास्य स्नापयेत्ततः ॥३९॥
गन्धैर्विलिप्य सन्धूप्य व्यापित्वे शिवे न्यसेत् ॥३९॥
स्रग्धूपदीपनैवेद्यैर्हृदयेन फलानि च ॥४०॥
टिप्पणी
१ वक्रेणेति ख..
२ चतूरूपेण इति झ..
३ स्थाप्यमानमित्यादिः, शान्तं समाश्रयतित्यन्तः पाठी ग.. , ङ.. , पुस्तके नास्ति
४ उक्तन्यासविधिं लिङ्गे इति ख.. । उक्तन्यासविधौ लिङ्गे इति ग..
५ पीठ बन्धमधः कृत्वा कुर्वन्नेव न दोषभाकिति ख.. , ग.. च । पीठ बन्धमतः कृत्वा लक्षणस्याङ्गलक्षणमिति घ..
६ पार्श्वसिद्धिं च वालुकाव्रजलेपनमिति ज..
७ सप्तारन्यकलशैरन्यैः स्तुत्वा इति झ..
८ चतुराज्यैश्च इति झ..
९ षडर्घादिपुरःसरमिति झ.. । षडग्रादिपुरःसरमिति ख..
१० ज्ञानलिङ्गे इति झ..
विनिवेद्य यथाशक्ति समाचम्य महेश्वरं ॥४०॥
दत्वार्घं च जपं कृत्वा(१) निवेद्य वरदे करे(२) ॥४१॥
चन्द्रार्कतारकं यावन्मन्त्रेण शैवमूर्तिपैः(३) ॥४१॥
स्वेच्छयैव त्वया नाथ स्थातव्यमिह मन्दिरे ॥४२॥
प्रणम्येव वहिर्गत्वा(४) हृदा वा प्रणवेन वा ॥४२॥
संस्थाप्य वृषभं पश्चात्पूर्ववद्वलिमाचरेत् ॥४३॥
न्यूनादिदोषमोषाय(५) ततो मृत्युजिता शतं ॥४३॥
शिवेन सशिवो हुत्वा शान्त्यर्थं पायसेन च ॥४४॥
ज्ञानाज्ञानकृतं यच्च तत्पूरय महाविभो(६) ॥४४॥
हिरण्यपशुभूम्यादि(७) गीतवाद्यादिहेतवे ॥४५॥
अम्बिकेशाय तद्भक्त्या शक्त्या सर्वं निवेदयेत् ॥४५॥
दानं महोत्सवं पश्चात्कुर्याद्दिनचतुष्टयं ॥४६॥
त्रिसन्ध्यं त्रिदिनं मन्त्री होमयेन्मूर्तिपैः सह ॥४६॥
चतुर्थेहनि पूर्णाञ्च चरुकं बहुरूपिणा ॥४७॥
निवेद्य सर्वकुण्डेषु सम्पाताहुतिसोधितम्(८) ॥४७॥
दिनचतुष्टयं यावत्तन्निर्माल्यन्तदूर्धतः ॥४८॥
निर्माल्यापनयं कृत्वा स्नापयित्वा तु(९) पूजयेत् ॥४८॥
पूजा सामान्यलिङ्गेषु कार्या साधारणाणुभिः(१०) ॥४९॥
टिप्पणी
१ जलं हुत्वा इति ग..
२ निवेद्य वरदेवके इति ज..
३ मन्त्रेशैर्मूर्तिपैः सह इति झ.. । मन्त्रेशैर्मूर्तिजैः सह इति घ..
४ वहिष्कृत्वा इति झ.. । वहिर्हत्वा इति घ..
५ न्यूनादिदोषमोक्षायेति ज.. । न्यानादिदोषनाशायेति ङ..
६ महाप्रभो इति झ..
७ हिरण्यवस्त्रधूपादि इति झ..
८ पायसाहुतिसोधितमिति झ.. । सम्पाताहुतिशोधनमिति ग..
९ स्नापयित्वा च इति ग..
१० साधारणांशुभिरिति ख.. । साधारणादिकमिति ग..
विहाय लिङ्गचैतन्यं कुर्यात्स्थाणुविसर्जनं ॥४९॥
असाधारणलिङ्गेषु क्षमस्वेति विसर्जनं ॥५०॥
आवाहनमभिव्यक्तिर्विसर्गः शक्तिरूपता ॥५०॥
प्रतिष्ठान्ते क्वचित्प्रोक्तं स्थिराद्याहुतिसप्तकं ॥५१॥
स्थिरस्तथाप्रमेयश्चानादिबोधस्तथैव च ॥५१॥
नित्योथ सर्वगश्चैवाविनाशी दृष्ट एव च(१) ॥५२॥
एते गुणा महेशस्य सन्निधानाय कीर्तिताः(२) ॥५२॥
ओं नमः शिवाय स्थिरो भवेत्याहुतीनां क्रमः ॥५३॥
एवमेतञ्च सम्पाद्य विधाय शिवकुम्भवत्(३) ॥५३॥
कुम्भद्वयञ्च तन्मध्यादेककुम्भाम्भसा भवं ॥५४॥
संस्नाप्य तद्द्वितीयन्तु कर्तृस्नानाय धारयेत् ॥५४॥
दत्वा बलिं समाचम्य वहिर्गच्छेत्शिवाज्ञया(४) ॥५५॥
जगतीवाह्यतश्चण्डमैशान्यान्दिशि मन्दिरे ॥५५॥
धामगर्भप्रमाणे च(५) सुपीठे(६) कल्पितासने ॥५६॥
पूर्ववन्न्यासहोमादि विधाय ध्यानपूर्वकं ॥५६॥
संस्थाप्य विधिवत्तत्र ब्रह्माङ्गैः(७) पूजयेत्ततः ॥५७॥
अङ्गानि पूर्वयुक्तानि(८) ब्रह्माणी त्वर्चना यथा(९) ॥५७॥
टिप्पणी
१ विलासी तृप्त एव च इति ख.. , ङ.. , छ.. , ज.. च । अविनाशी तृप्त एव च इति ङ..
२ सन्निधाय प्रकीर्तिता इति ख.. , छ.. च
३ ओं नम इत्यादि, शिवकुम्भवतित्यन्तः पाठो झ.. पुस्तके नास्ति । शिवाय शिवकुम्भवतिति ग..
४ वहिः कुम्भे शिवाज्ञया इति झ..
५ वामगर्भप्रमाणेन इति झ..
६ स्वपीठे इति ग..
७ ब्रह्माद्यैरिति ग.. , झ.. च
८ पूर्वमुक्तानि इति ख.. , ग.. , ङ.. , छ.. च । पूर्वभुक्तानीति ज..
९ त्वधुना यथा इति ख..
एवं सद्योजाताय ओं ह्रूं फट्(१) नमः । ओं विं वामदेवाय ह्रूं फट्नमः । ओं बुं(२) अघोराय ह्रूं फट्नमः । ओं(३) तत्पुरुषाय वौमीशानाय च ह्रूं फट् ॥
जपं विवेद्य(४) सन्तर्प्य विज्ञाप्य नतिपूर्वकं ॥५८॥
देवः सन्निहितो यावत्तावत्त्वं सन्निधो भव ॥५८॥
न्यूनाधिकञ्च यत्किञ्चित्कृतमज्ञानतो मया(५) ॥५९॥
तवत्प्रसादेन चण्डेश तत्सर्वं परिपूरय ॥५९॥
वाणलिङ्गे वाणरोहे(६) सिद्धलिङ्गे स्वयम्भुवि ॥६०॥
प्रतिमासु च सर्वासु न चण्डोऽधिकृतो भवेत् ॥६०॥
अद्वैतभावनायुक्ते स्थण्डिलेशविधावपि(७) ॥६१॥
अभ्यर्च्य चण्डं ससुतं यजमानं हि भार्यया ॥६१॥
पूर्वस्थापितकुम्भे न स्नापयेत्स्नापकः(८) स्वयं ॥६२॥
स्थापकं यजमानोपि सम्पूज्य च(९) महेशवत्(१०) ॥६२॥
वित्तशाठ्यं विना दद्याद्भूहिरण्यादि(११) दक्षिणां ॥६३॥
टिप्पणी
१ ओं सद्योजाताय हूं फटिति झ.. । एवं सद्योजाताय ओं ह्रूं फट्नम इति ख.. , छ.. च । ओं एवं सद्यो जाताय हूं फट्नम इति ग.. , ज.. च
२ ओं वं इति झ..
३ ओं एवं चेति छ.. । ओं एवं चेदिति ङ.. । ओं वै इति ज..
४ धूपं निवेद्य इति घ..
५ कृतमज्ञानतोपि वा इति ग..
६ बाणलिङ्गे चले लोहे इति ज..
७ स्थण्डिले सन्निधावपि इति ज.. , झ.. च
८ स्थापक इति ज..
९ प्रपूज्य च इति ज..
१० महेश्वरमिति ख.. , छ.. च
११ गोहिरण्यादि इति ज.. , झ.. च
मूर्तिमान् विधिवत्पश्चात्जापकान् ब्राह्मणांस्तथा ॥६३॥
देवज्ञं शिल्पिनं प्रार्च्य दीनानाथादि(१) भोजयेत् ॥६४॥
यदत्र सम्मुखीभावे स्वेदितो भगवन्मया ॥६४॥
क्षमस्व नाथ तत्सर्वं कारुण्याम्बुनिधं मम(२) ॥६५॥
इति विज्ञप्तियुक्ताय यजमानाय सद्गुरुः ॥६५॥
प्रतिष्ठापुण्यसद्भावं(३) स्फुरत्तारकसप्रभं(४) ॥६६॥
कुशपुष्पाक्षतोपेतं स्वकरेण समर्पयेत् ॥६६॥
ततः पाशपतोपेतं(५) प्रणम्य परमेश्वरं ॥६७॥
ततोऽपि बलिभिर्भूतान् सन्निधाय निबोधयेत् ॥६७॥
स्थातव्यं भवता तावद्यावत्सन्निहितो हरः(६) ॥६८॥
गुरुर्वस्त्रादिसंयुक्तं गृह्णीयाद्यागमण्डपं ॥६८॥
सर्वोपकरणं शिल्पी तथा स्नापनमण्डपं(७) ॥६९॥
अन्ये देवादयः स्थाप्या मन्त्रैरागमसम्भवैः ॥६९॥
आदिवर्णस्य भेदाद्वा(८) सुतत्त्वव्याप्तिभाविताः(९) ॥७०॥
साध्य(१०) प्रमुखदेवाश्च सरिदोषधयस्तथा ॥७०॥
क्षेत्रपाः किन्नराद्याश्च पृथिवीतत्त्वमाश्रिताः ॥७१॥
टिप्पणी
१ दीनानाथांश्चेति ज..
२ देव त्वं नाथ तत्सर्वं कारुण्यान्मनवे नम इति झ..
३ प्रतिष्ठायज्ञसम्भारमिति ग..
४ स्फुरत्तारकसन्निभमिति
५ ततः पशुपतिं जप्त्वा इति ख.. , ग.. च
६ भव इति ख.. , घ.. च
७ गुरुर्वस्त्राणीत्यादिः, स्नानमण्डपमित्यन्तः पाठो झ.. पुस्तके नास्ति
८ आदिवर्णस्य शेषाद्वा इति झ..
९ स्वातन्त्र्या व्याप्तिरीरिता इति ग.. । स्वतत्त्वव्याप्तिभाविता इति छ.. । स्वतन्त्रव्याप्तिभेदत इति ज..
१० जाप्य इति झ..
स्नानं सरस्वतीलक्ष्मीनदीनामम्भसि क्वचित् ॥७१॥
भुवनाधिपतीनाञ्च स्थानं यत्र व्यवस्थितिः ॥७२॥
अण्डवृद्धिप्रधानान्तं त्रितत्त्वं ब्रह्मणः पदं ॥७२॥
तन्मात्रादिप्रधानान्तं(१) पदमेतत्त्रिकं हरेः(२) ॥७३॥
नाट्येशगणमातॄणां यक्षेशशरजन्मनां ॥७३॥
अण्डजाः शुद्धविद्यान्तं पदं गणपतेस्तथा ॥७४॥
मायांशदेशशक्त्यनतं शिवा शिवोप्तरोचिषां(३) ॥७४॥
पदमीश्वरपर्यन्तं व्यक्तार्चासु च कीर्तितं ॥७५॥
कूर्माद्यं कीर्तितं यच्च यच्च रत्नादिपञ्चकं(४) ॥७५॥
प्रतिक्षिपेत्पीठगर्ते च पञ्चब्रह्मशिलां विना ॥७६॥
षड्भिर्विभाजिते गर्ते(५) त्यक्त्वा भावञ्च पृष्ठतः ॥७६॥
स्थापनं पञ्चमांशे च यदि वा वसुभाजिते ॥७७॥
स्थापनं सप्तमे भागे प्रतिमासु सुखावहं ॥७७॥
धारणाभिर्विशुद्धिः स्यात्स्थापने लेपचित्रयोः ॥७८॥
स्नानादि मानसन्तत्र शिलारत्नादिवेशनं(६) ॥७८॥
नेत्रोद्घाटनमन्त्रेष्टमासनादिप्रकल्पनं ॥७९॥
पूजा निरम्बुभिः पुष्पैर्यथा चित्रं न दुष्यति ॥७९॥
विधिस्तु चललिङ्गेषु सम्प्रत्येव निगद्यते ॥८०॥
टिप्पणी
१ तन्मात्रादिप्रयाणान्तमिति ख..
२ तत्त्वमेकं चित्रं हरेरिति घ..
३ स्नानं सरस्वतीत्यादिः, रोचिषामित्यन्तः पाठो झ.. पुस्तके नास्ति
४ यद्रत्नादिकपञ्चकमिति ज..
५ षडभिर्भाजिते गर्भे इति ङ..
६ शिलावाहादिवेशनं इति झ.. । शिलारत्ननिवेशनमिति ख..
पञ्चभिर्वा त्रिभिर्वापि पृथक्कुर्याद्(१) विभाजिते(२) ॥८०॥
भगत्रयेण भागांशो भवेद्भागद्वयेन वा ॥८१॥
स्वपीठेष्वपि(३) तद्वत्स्याल्लिङ्गेषु तत्त्वभेदतः ॥८१॥
सृष्टिमन्त्रेण संस्कारो विधिवत्स्फाटिकादिषु ॥८२॥
किञ्च ब्रह्मशिलारत्नप्रभूतेश्चानिवेदनं(४) ॥८२॥
योजनं पिण्डिकायाश्च मनसा परिकल्पयेत् ॥८३
स्वयम्भूवाणलिङ्गादौ(५) संस्कृतौ नियमो न हि ॥८३॥
स्नापनं संहितामन्त्रैर्न्यासं होमञ्च कारयेत् ॥८४॥
नदीसमुद्ररोहाणां स्थापनं पूर्ववन्मतं ॥८४॥
ऐहिकं मृण्मयं लिङ्गं पिष्टकादि च तक्षणात्(६) ॥८५॥
कृत्वा सम्पूजयेच्छुद्धं सीक्षणादिविधानतः(७) ॥८५॥
समादाय ततो मन्त्रानात्मानं सन्निधाय च ॥८६॥
तज्जले प्रक्षिपेल्लिङ्गं वत्सरात्कामदं भवेत् ॥८६॥
विष्ण्वादिस्थापनं चैव पृयङ्मन्त्रैः समाचरेत् ॥८७॥

इत्याग्नेये महापुराणे शिवप्रतिष्ठा(८) नाम सप्तनवतितमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP