संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
वर्णधर्मादिकथनं

अध्याय १६६ - वर्णधर्मादिकथनं

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


पुष्कर उवाच
वेदस्मार्तं प्रवक्ष्यामि धर्मं वै पञ्चधा स्मृतं(१) ॥१॥
वर्णत्वमेकमाश्रित्य योऽधिकारः प्रवर्तते ॥१॥
टिप्पणी
१ धर्मं वै परमामृतमिति ख.. , छ.. च
वर्णधर्मः स विज्ञेयो यथोपनयनन्त्रिषु ॥२॥
यस्त्वाश्रमं समाश्रित्य पदार्थः संविधीयते ॥२॥
उक्त आश्रमधर्मस्तु भिन्नपिण्डादिको यथा ॥३॥
उभयेन निमित्तेन यो विधिः सम्प्रवर्तते ॥३॥
नैमित्तिकः स विज्ञेयः प्रायश्चित्तविधिर्यथा ॥४॥
ब्रह्मचारी गृही चापि वानप्रस्थो यतिर्नृप ॥४॥
उक्त आश्रमधर्मस्तु धर्मः स्यात्पञ्चधा परः(१) ॥५॥
षाड्गुण्यस्याभिधाने यो दृष्टार्थः स उदाहृतः ॥५॥
स त्रेधा मन्त्रयागाद्यदृष्टार्थ इति मानवाः ॥६॥
उभयार्थो व्यवहारस्तु दण्डधारणमेव च ॥६॥
तुल्यार्थानां विकल्पः स्याद्यागमूलः प्रकीर्तितः ॥७॥
वेदे तु विहितो धर्मः स्मृतौ तादृश एव च ॥७॥
अनुवादं स्मृतिः सूते(२) कार्यार्थमिति मानवाः ॥८॥
गुणार्थः परिसङ्ख्यार्थो वानुवादो विशेषतः(३) ॥८॥
विशेषदृष्ट एवासौ फलार्थ इति मानवाः ॥९॥
स्यादष्टचत्वारिंशद्भिः संस्कारैर्ब्रह्मलोकगः ॥९॥
गर्भाधानं पुंसवनं सीमन्तोन्नयनः ततः ॥१०॥
जातकर्म नामकृतिरन्नप्राशनचूडकं ॥१०॥
संस्कारश्चोपनयनं वेदव्रतचतुष्टयं ॥११॥
स्नानं स्वधर्मचारिण्या योगः स्याद्यज्ञपञ्चकं ॥११॥
टिप्पणी
१ धर्म एष सनातन इति ङ..
२ अर्थवादं स्मृतिः सूत इति ख.. , छ.. च
३ वार्थवादो विशेषत इति ख.. , छ.. च
देवयज्ञः पितृयज्ञो मनुष्यभूतयज्ञकौ ॥१२॥
ब्रह्मयज्ञः सप्तपाकयज्ञसंस्थाः पुरोऽष्टकाः ॥१२॥
पार्वणश्राद्धं श्रावण्याग्रहायणी च चैत्र्यपि ॥१३॥
आश्वयुजी सप्तहविर्यज्ञसंस्थास्ततः स्मृताः ॥१३॥
अग्न्याधेयमग्निहोत्रं(१) दर्शः स्यात्पशुबन्धकः ॥१४॥
चातुर्मास्याग्रहायेष्टिर्निरूढः पशुबन्धकः ॥१४॥
सौत्रामणिसप्तसोमसंस्थाग्निष्टोम आदितः ॥१५॥
अत्यग्निष्टोम उक्थश्च षोडशी वाजपेयकः ॥१५॥
अतिरात्रास्तथा स्तोम अष्टौ चात्मगुणास्ततः ॥१६॥
दया क्षमानसूया च अनायासोऽथ मङ्गलं ॥१६॥
अकार्पण्यास्पृहाशौचं यस्यैते स परं व्रजेत् ॥१७॥
प्रचारे मैथुने चैव प्रस्रावे दन्तधावने ॥१७॥
स्नानभोजनकाले च पट्सु मौनं समाचरेत् ॥१८॥
पुनर्दानं पृथक्पानमाज्येन यपसा निशि ॥१८॥
दन्तच्छेदनमुष्णं च सप्त शक्तुषु वर्जयेत् ॥१९॥
स्नात्वा पुष्पं न गृह्णीयाद्देवायोग्यन्तदीरितं ॥१९॥
अन्यगोत्रोप्यसम्बद्धः(२) प्रेतस्याग्निन्ददाति यः ॥२०॥
पिण्डञ्चोदकदानञ्च स दशाहं समापयेत् ॥२०॥
उदकञ्च तृणं भस्म द्वारम्पन्थास्तथैव च ॥२१॥
टिप्पणी
१ अग्न्याधानमग्निहोत्रमिति ख.. , छ.. च
२ अन्यगोत्रोऽन्यसम्बन्ध इति ख.. , घ.. , ञ.. च
एभिरन्तरितं कृत्वा पङ्क्तिदोषो न विद्यते ॥२१॥
पञ्च प्राणाहुतीर्दद्यादनामाङ्गुष्ठयोगतः ॥२२॥२२॥
इत्याग्नेये महापुराणे वर्णधर्मादिर्नाम षट्षष्ट्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP