संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
वासुदेवादिप्रातिमालक्षणविधिः

अध्याय ४४ - वासुदेवादिप्रातिमालक्षणविधिः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


भगवानुवाच
वासुदेवादिप्रतिमालक्षणं प्रवदामि ते ।
प्रासादस्योत्तरे पूर्वमुखीं वा चोत्ताराननाम् ॥१॥

संस्थाप्य पूज्य च बलिं दत्त्वाथो मध्यसूत्रकम् ।
शिल्पी तु नवधा विभज्य नवमेंऽशके ॥२॥

सूर्पभक्तैः शिलायां तु भागं स्वाङ्गुलमुच्यते ।
द्व्यङ्गुलं गोलकं नाम्ना कालनेत्रं तदुच्यते ॥३॥

भागमेकं त्रिदा भक्त्वा पार्ष्णिभागं प्राकल्पयेत् ।
भागमेकं तथा जानौ ग्रीवायां भागमेव च ॥४॥

मुकुटं तालमात्रं स्यात्तालमात्रं तथा मुखम् ।
तालेनैकेन कण्ठन्तु तालेन हृदयं तथा ॥५॥

नाभिमेढ्रान्तरन्तालं द्वितालावूरुकौ तथा ।
तालद्वयेन जङ्घा स्यात् सूत्राणि श्रृणु साम्प्रतम् ॥६॥

कार्य्यं सूत्रद्वयं पादे जङ्घामध्ये तथापरम् ।
जानौ सूत्रद्वयं कार्य्यमूरुमध्ये तथापरम् ॥७॥

मेढ्रे तथापरं कार्य्यं कट्यां सूत्रन्तथापरम् ।
मेखलाबन्धसिद्ध्यर्थं नाभ्यां चैवापरन्तथा ॥८॥

हृदये च तथा कार्य्यं कण्ठे सूत्रद्वयं तथा ।
ललाटे चापरं कार्यं मस्तके च तथापरम् ॥९॥

मुकुटोपरि कर्त्तव्यं सूत्रमेकं विचक्षणैः ।
सूत्राण्यूद्‌र्ध्वं प्रदेयानि सप्तैव कमलोद्भव ॥१०॥

कक्षात्रिकान्तरेणैव षट् सूत्राणि प्रदापयेत् ।
मध्यसूत्रं तु सन्त्यज्य सूत्राण्येव निवेदयेत् ॥११॥

ललाटं नासिकावक्त्रं कर्त्तव्यञ्चतुरङ्गुलम् ।
ग्रीवाकर्णौ तु कर्त्तव्यौ आयामाच्चतुरङ्गुलौ ॥१२॥

द्व्यङ्गुले हनुके कार्य्ये विस्ताराच्चिवुकन्तथा ।
अष्टाङ्गुलं ललाटन्तु विस्तारेण प्रकीत्तिंतम् ॥१३॥

परेण द्व्यङ्गुलौ शङ्खौ कर्त्तव्यावलकान्वितौ ।
चतुरङ्गुलमाख्यातमन्तरं कर्णनेत्रयोः ॥१४॥

द्व्यङ्गुलौ पृथुकौ कर्णौ कर्णापाङ्गार्द्धंपञ्च मे ।
भ्रूसभेन तु सूत्रेण कर्णक्षोत्रं प्रकीत्तितम् ॥१५॥

विद्धं षडङ्गुलं कर्णमविद्धञ्चतुरङ्गुलम् ।
चिवुकेन समं विद्धमविद्धं वा षडङ्गुलम् ॥१६॥

गन्धपात्रं तथावर्त्तं शष्कुलीं कल्वयेत्तथा ।
द्व्यङ्गुलेगधरः कार्यस्तस्यार्द्धेनोत्तराधरः ॥१७॥

अर्द्धाङ्गुलं तथा नेत्रं वक्त्रन्तु चतुरङ्गुलम् ।
आयामेन तु वैपुल्यात् सार्द्धमङ्गुलमुच्यते ॥१८॥

अचव्यात्तमेवं स्याद्वक्त्रं व्यात्तं द्व्यङ्गुलमिष्यते ।
नासावंशसमुच्छायं मूले त्वेकाङ्गुलं मतम् ॥१९॥

उच्छाया द्व्यङ्गुलं चाग्रे करवीरोपमाः स्मृताः ।
अन्तरं चक्षुषोः कार्यं चतुरङ्गुलमानतः ॥२०॥

द्व्यङ्गुलं चाक्षिकोणं च द्व्यङ्गुलं चान्तरं तयोः ।
तारा नेत्रत्रिभागेण दृक्‌तारा पञ्चमांशिका ॥२१॥

त्र्यङ्गुलं नेत्रविस्तारं द्रोणी चार्द्धाङ्गुला मता ।
तत्‌प्रमाणा भ्रुवोर्लेखा भ्रुवौ चैव समे मते ॥२२॥

भ्रूमध्यं द्व्यङ्गुलं कार्यं भ्रूदैर्घ्यं चतुरङ्गुलम् ।
षट्‌त्रिंशदङ्गुलायामम्मस्तकस्य तु वेष्टनम् ॥२३॥

मूर्त्तीनां केशवादीनां द्वात्रिंशद्वेष्टनं भवेत् ।
पञ्च नेत्रा त्वधोग्रीवा विस्तारद्वेष्टनं पुनः ॥२४॥

त्रिगुणं तु भवेदूद्धर्वं विस्तृताष्टाङ्गुलं पुनः ।
ग्रीवात्रिगुणमायामं ग्रीवावक्षोन्तरं भवेत् ॥२५॥

स्कन्दावष्टाङ्गुलौ कार्यौ त्रिकलावंशकौ शुभौ ।
सप्तनेत्रौ स्मृतौ बाहू प्रवाहू षोडशाङ्गुलौ ॥२६॥

त्रिकलौ विस्तृतौ बाहू प्रवाहू चापि तत्‌समौ ।
बाहुदण्डोद्ध्‌र्वतो ज्ञेयः परिणाहः कला नव ॥२८॥

नाहः प्रबाहुमध्ये तु षोडशाङ्गुल उच्यते ।
अग्रहस्ते परीणाहो द्वादशाङ्गुल उच्यते ॥२९॥

विस्तारेण करतलं कीर्त्तितं तु षडङ्गुलम् ।
दैर्घ्यं सप्ताङ्गुलं कार्यं मध्या पञ्चाङ्गुला मता ॥३०॥

तर्ज्जन्यनामिका चैव तस्मादर्द्धाङ्गुलं विना ।
कनिष्ठाङ्गुष्ठकौ कार्यौ चतुरङ्गुलम्मितौ ॥३१॥

द्विपर्वोङगुष्ठकः कार्यः शेषांगुल्यस्त्रिपर्विकाः ।
सर्वासां पर्वणोर्द्धेन नखमानं विधीयते ॥३२॥

वक्षसो यत् प्रमाणन्तु जठरं तत्‌प्रमाणतः ।
अङ्‌गुलैकं भवेन्नाभी वेधेन च प्रमाणतः ॥३३॥

ततो मेढ्रान्तरं कार्यं तालमात्रं प्रमाणतः ।
नाभिमध्ये परीणाहो द्विचत्वारिंशदङ्गुलैः ॥३४॥

अन्तरं स्तनयोः कार्य्यं तालमात्रं प्रमाणतः ।
चिवुकौ यवमानौ तु मण्डलं द्विपदं भवेत् ॥३५॥

चतुः षष्ट्यङ्गुलं कार्यं वेष्टनं वक्षसः स्फुटम् ।
चतुर्मुखञ्च तदधोवेष्टनं परिकीर्त्तितम् ॥३६॥

परिणाहस्तथा कट्या चतुः पञ्चाशदङ्गुलैः ।
विस्तारश्चोरुमूले तु प्रोच्यते द्वादशाङ्गुलः ॥३७॥

तस्मादभ्यधिकं मध्ये ततो निम्नतरं क्रमात् ।
विस्तृताष्टाङ्गुलं जानुत्रिगुणा परिणाहतः ॥३८॥

जङ्घा मध्ये तु विस्तारः सप्ताङ्गुल उदाहृतः ।
त्रिगुणा परिधिश्चास्य जङ्घाग्रं पञ्चविस्तरात् ॥३९॥

त्रिगुणा परिधिस्चास्य पादौ तालप्रमाणकौ ।
आयामादुत्थितौ पादौ चतुरङ्गुलमेव च ॥४०॥

गुल्फात् पूर्वं तु कर्त्तव्यं प्रमाणाच्चतुरङ्गेलम् ।
त्रिकलं विस्तृतौ पादौ त्र्यङ्गुलो गुह्यकः स्मृतः ॥४१॥

पञ्चाङ्गुलन्तु नाहोस्य दीर्घा तद्वत् प्रदेशिनी ।
अष्टमाष्टांशतो न्यूताः शेषाङ्गुल्यः क्रमेण तु ॥४२॥

सपादाङ्गुलमुत्तसेधमङगुष्ठस्य प्रकीर्त्तितम् ।
यवोनमङ्गुलं कार्यमङ्गुष्ठस्य नखं तथा ॥४३॥

अर्द्धाङ्गुलं तथान्यासां क्रमान् न्यूनं तु कारयेत् ।
त्र्यङ्गुलौ वृषणौ कार्यौ मेढ्रं तु चतुरङ्गुम् ॥४४॥

परिणाहोत्र कोषाग्रं कर्त्तव्यञ्चतुरङ्गुलम् ।
षडङ्गुलपरीणाहौ वृषणौ परिकीर्त्तितौ ॥४५॥

प्रतिमा भूषणाढ्या स्यादेतदुद्देशलक्षणम् ।
अनयैव दिशा कार्यं लोके दृष्ट्वा तु लक्षणम् ॥४६॥

दक्षिणे तु करे चक्रमधस्तात् पद्ममेव च ।
वामे शङ्खं गदीदसितद्वासुदेवस्य लक्षणात् ॥४७॥

श्रीपुष्टी चापि कर्त्तव्ये पद्मवीणाकरान्विते ।
ऊरुमात्रोच्छितायामे मालाविद्याधरौ तथा ॥४८॥

प्रभामण्डलसंस्थौ तौ प्रभा हस्त्यादिभूषणा ।
पद्माभं पादपीठन्तु प्रतिमास्वेवमाचरेत् ॥४९॥

इत्यादिमहापुराणे आग्नेये प्रतिमालक्षणं नाम चतुश्चत्वार्रिशोऽध्यायः ।

N/A

References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP