अथवृत्तांताः ॥
व्यासानुगमनं पूर्व ब्रह्मांडस्य समुद्धवः । माया च वैष्णवी यस्मात्संसारेदोषकीर्तनम् ॥१॥
पापभेदस्ततस्तस्माच्छुभासुभविनिर्णयः । शकटव्रतमाहात्म्यं तिलकव्रतकीर्तनम् ॥२॥
अशोक्करवीराख्यं व्रतं तस्माच्च कोकिलम् । बृहत्तपोव्रतं नाम रुद्रोपोषणमेव च ॥३॥
द्वितीयाव्रतमाहात्म्यशून्यशयनं तथा । कामाख्या तु तृतीया च मेघपालीव्रतं तथा ॥४॥
पंचग्निसाधना रम्या तृ तीयाव्रतमुत्तमम् । त्रिरात्रं गोष्पदं नाम हरिकालीव्रतं तथा ॥५॥
ललिताख्या तृतीया च योगाख्या च तथा परा । उमामहेश्वरं नाम तथा रंभातृतीयकम् ॥६॥
सौभाग्यख्या तृतीया च आर्द्रानंदकरी तथा । चैत्रे भाद्रपदे माघे तृतीयाव्रतमुच्यते ॥७॥
अनंतरे तृतीया च गणशांतिव्रतं तथा । सारस्वतव्रतं नाम पंचमी व्रतमुच्यते ॥८॥
तथा श्रीपंचमी नाम षष्ठी शोकप्रणाशिनी । फलषष्ठी च मंदारषष्ठी व्रतमथोच्यते ॥९॥
ललिताव्रतषष्ठी च षष्ठीकार्तिकसंज्ञिता । महत्तपःसप्तमी च विभूषासप्तमी तथा ॥१०॥
आदित्यमंडपविधिस्त्रयोदशीति सप्तमी । कृकवाकुप्लवङ्गा च तथैवाभय सप्तमी ॥११॥
कल्याणसप्तमी नाम शर्करासप्तमीव्रतम । सप्तमी कमलाख्या च तथान्याशुभसप्तमी ॥१२॥
स्त्रपनव्रतसप्तम्यौ तथैवाचलसप्तमी । बुधाष्टमीव्रतं नाम तथा जन्माष्टमबिव्रतम् ॥१३॥
दूर्वाकृष्णाष्टमी प्रोक्तअनयाव्रतमष्टमी । अष्टम्यर्काष्टमी चाथ श्रीवृक्षनवमीनवम् ॥१४॥
ध्वजाख्या नवमी चैव उल्काख्या नवमी तथा । दशावतारव्रतकं तथाशादशमीव्रतम् ॥१५॥
रोहिणींद्रहरिशंभुब्रह्मसूर्यावियोगकम । गोवत्सद्वादशी नाम व्रतमुक्तं ततः परम् ॥१६॥
नीराजद्वादशी च भीष्मपंचकमेव च । मल्लिकाख्या द्वादशी च भीमद्वादशिकोत्तमम् ॥१७॥
श्रवणद्वादशी नाम संप्राप्तिद्वादशीव्रतम् । गोविन्दद्वादशी नाम व्रतमुक्तं ततः परम् ॥१८॥
अखंडद्वादशीनामतिलद्वादश्यतः परम् । सुकृतद्वादशी नाम धरणीव्रतमेव च ॥१९॥
विशोकद्वादशी नाम विभूतिद्वाद्शीव्रतम् । पुष्पर्क्षद्वादशी चैव द्वादशी श्रवणर्क्षगा ॥२०॥
अनंगद्वादशी चैव अङ्कपादव्रतं तथा । निम्बार्ककरबीराथ यमादर्शत्रयोदशी ॥ अनंगद्वादशी चापि पालिरम्भाव्रते तथा ॥२१॥
चतुर्दशीव्रतं प्रोक्तं ततोऽनन्तचतुर्दशी । श्रावणीव्रतं नक्तं च चतुर्दश्याष्टमीमीदिने ॥२२॥
व्रतं शिवचतुर्दश्यां फलत्यागचतुर्दशी । वैशाखी कार्तिकी माघी व्रतमेतनंतरम् ॥२३॥
कार्तिक्यां कृर्त्तिकायोगे कृत्तिकाव्रतमीरितम् । फाल्गुने पौर्णिमायां तु व्रतं पूर्णमनोरथम ॥२४॥
अशोकपूर्णिमानाम अनंतव्रतमेव च । व्रतं हि सांभरायिण्यं सक्षत्रपुरुषव्रतम् ॥२५॥
शिवनक्षत्रपुरुषंसंपूर्ण येन मुच्यते । कामदानं व्रतं वृंताकबिधिरेव च ॥२६॥
आदित्यस्य दिने नक्तं संक्रात्युद्यापने फलम् । भद्रावतमगस्त्यार्घो नवचन्द्रार्कमेव च ॥२७॥
अर्घः शुक्रबृहस्पत्योः पंचाशीतिव्रतानि च । माघस्त्रानं नित्यस्त्रानं रुद्रस्त्रानविधिस्तथा ॥२८॥
चंद्रार्कग्रहणे स्त्रानं विधिश्वान्नाशने तथा । वापीकूपडागानामुत्सर्गो वृक्षयोजनम् ॥२९॥
देवपूजादिपदानवृषोत्सर्गीविधिस्तथा । फाल्गुन्युत्सवकं नाम तथान्यः सदनोत्सवः ॥३०॥
भूतमाता च श्रावण्यां रक्षाबंधविधिस्तथा । विधिस्तथा नवम्यास्तु तथा चन्द्रमहोत्सवः ॥३१॥
दीपालिकायां तु होमोलक्षहोमविधि स्तथा । कोटिहोमो महाशीतिर्गणनाथस्य शांतिका ॥३२॥
तथा नक्षत्रहोमोथगोदानावाधरव च । गुडधेनुर्घृतनुस्तिलधेनुव्रतं तथा ॥३३॥
जलधेनुविधिः प्रोक्तो लवणस्य तथापरा । धेनुः कार्या विधिं ज्ञात्वा नवनीतस्य चापरा । सुवर्णधेनुश्व तथा देवकार्य चिकीर्षुभिः ॥३४॥ [ ८१६४ ]
इति श्रीभविष्ये महापुराणे श्रीकृष्णयुधिष्ठिरसंवादे संक्षिप्तानुक्रमणिकाकथनं नामाष्टोत्तरद्विशततमोऽध्यायः ॥२०८॥
समाप्तोऽयं भविष्यपुराणग्रन्थः ॥