युधिष्ठिर उवाच ॥
भूमिदानं क्षत्रियाणां नान्येषामुपपद्यते । ते ह्युपार्जयितुं शक्ता दातुं पालयितुं यथा ॥१॥
भूमिदानसमं किंचिदन्यत्कथय यादव । संप्राप्तवित्तैर्यच्छक्यं संसारभयमीरुभिः ॥२॥
श्रीकृष्ण उवाच ॥
सौवर्णी विधिवत्कृत्वा साद्धिदुमवतीं शुभाम् । महीं प्रयच्छ विप्राणां तत्तुल्या सा निगद्यते ॥३॥
शुणुष्वैकमना भृत्वा महादानं नरोत्तम । सविधानं प्रवक्ष्यामि फलं यत्नेनयद्धवेत् ॥४॥
चंद्रसूर्योपरागे च जन्मर्क्षे विषुवे तथा । युगादिषु च दातव्यमयने च विधानतः ॥५॥
अन्येध्वपि च कालेषु प्रशस्ते धनसंचये । पापक्षयाय दातव्यं यधोऽर्थे वा नरैर्भुवि ॥६॥
हेम्नः पलशतेमोक्ता तदर्धेनापि शक्तितः । कुर्यात्पंचपलादूर्ध्वमसमर्थोऽपि भक्तिमान् ॥७॥
कारयेत्पृथिवीं हैमीं जंबुदीपानुकारिणीम् । मर्यादापर्वतवतीं मध्ये मेरुसमन्विताम् ॥८॥
लोकपालष्टकांपेतां ब्रह्मविश्वे शसंयुताम् । नानापर्वतपूर्णा च रत्नाभरणभूषिताम् ॥९॥
सर्वसस्वविचित्रांमी सर्वगंधाधिवासिताम् । ईदृशी तु महीं कृत्वा कारयेन्मंडपं ततः ॥१०॥
दशद्वादशहस्तं च चतुर्वक्रं सतोरणम् । मध्ये च वेदिकां कुर्याद्धनुर्हस्ताम प्रमाणतः ॥११॥
ईशान्यां सुरसंस्थानमाग्रेय्यां कुंडमेव च । पताकभिरलंकृत्य देवतायतनान्यथ ॥१२॥
लोकपालाग्रहाश्वैव पूज्या मार्ल्याविलेपनैः । होमं कुर्यार्द्विजाः । शांताश्वातुश्वराणिकः शुभाः ॥१३॥
सालंकाराः सवस्त्राश्व्म माल्यचंदनभूषिताः । अग्निसंस्थापनं तत्र क्लत्वा पूर्व ततोमहीम् ॥१४॥
आनयेयुर्द्विजो राजन्ब्रह्मवोषपुरःसरम् । शंखतूर्यनिनादैश्व गेयमंगलनिंस्वनैः ॥१५॥
तिलैः प्रच्छादितां वेदिं कृत्वा तत्राधिवासयेत् । अथाष्ठदशधान्यानि रसांश्व लवनादिकान् ॥१६॥
तथाष्टौ पूर्णकलशान्समंतात्स्थापयेच्छुभान् । वितानकं च कौशेयं फलानि विविधानि च ॥१७॥
अंशुकानि विचित्राणि श्रीखंडशकलानि च । इत्त्येवं रचयित्वा तामधिवासन पूर्वकम् ॥१८॥
ततो होमावसानेषु निष्पन्ने सर्वशांतिके । शुल्कमाल्यांबरधरो हजमानः स्वयततः ॥१९॥
कृत्वा प्रदक्षिणं पृथ्वीं गृहीत्वा कुसुमांजलिम् । पुण्यकालमथात्ताद्य मंत्रानितामुदीरयेत् ॥२०॥
नमस्ते सर्वदेवानां त्वमेव भवनं यतः । धात्री त्वमसि भूतानामतः पाहि वसुंधरे ॥२१॥
वसु धारयसे यस्मात्सर्वसौख्यप्रदायकम् । वसुंधरा तता जाता तस्मात्पाहि भयादलम् ॥२२॥
चतुर्मुखोऽपि नोगच्छेद्यस्मादंतं तवाचले । अनंतायै नमस्तुभ्यं पाहि संसारकर्दमात् ॥२३॥
त्वमेवलक्ष्मीगोविंदे शिवे गौरीति संस्थिता । गायत्री ब्रह्मणः पार्श्वे ज्योत्स्त्रा चंद्रे रवौ प्रभा ॥२४॥
बुद्धिर्बृहस्पतौ ख्याता मेधा मुनिषु संस्थितः । विश्वं प्राप्य स्थिता यस्मात्ततो विश्वंभरामता ॥२५॥
धृतिः क्षितिः क्षमा क्षोणि पृथिवी वसुधा मही । एताभिर्मूर्तिभिः पाहि देवि संसारसागरात् ॥२६॥
एवमुच्चार्य तां देवीं ब्राह्मणेभ्यो निवेदयेत् । धरार्द्ध वा चतुर्भागं गुरवे प्रतिपादयेत् ॥२७॥
अनेन विधिना यस्तु दद्याद्देवीं धरां बुधः । पुण्यकाले च संप्राप्ते सपदं यातिवैष्णवम् ॥२८॥
यदि कर्तु न शक्रोति पुण्येह्रि बहुविस्तरम् । संस्थाप्य शोभने स्थाने महीमेव प्रदापयेत् ॥२९॥
विमानेनार्कवर्णेन किंकिणीजालमालिना । नारायणपुरं गत्वा कल्पत्रयमथावसेत् ॥३०॥
क्षीणपुण्यइहाभ्येत्य राजा भवति धार्मिकः । विजयीशत्रुदमनो बहुभृत्यपरिच्छदः ॥३१॥
शतकोट्याधिपः शूरश्वक्रवतीं महाबलः। सप्तजन्मानि दानस्य माहात्म्यद्राज्यमाप्नुयात् ॥३२॥
द्वीपाविकर्षविषमां विधिवद्विधाय हैमीं महीं सुरमहीमिव विन्ध्यमध्याम् ।लोकेशशक्रशिवकेशवसंयुतां च प्रायच्छ पार्थ तव र्किबहुनोदितेन ॥३३॥ [ ७२०४ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे पृथिवीदानविधिवर्णनं नाम पंचषष्टयुत्तरेशततमोऽध्यायः ॥१६५॥