श्रीकृष्ण उवाच ॥
अथातः संप्रवक्ष्यामि सर्वपापप्रणाशिनीम् । सर्वकामप्रदां पुण्यां षष्ठीं मन्दारसंज्ञिताम् ॥१॥
माघस्यामलपक्षे तु पञ्चभ्यां लघुभुङ्रनरः । दन्तकाष्ठं ततः कृत्वा षष्ठीमुपवसेद्बुधः ॥२॥
विप्रान्संपूजयित्वा तु मन्दारं प्राशयेन्निशि । ततः प्रभाते चोत्थाय कृतस्त्रानः षुनर्द्विजान् ॥३॥
भोजयेच्छक्तितः कृत्वा मन्दारकुसुमाष्टकम् । सौवर्णं पुरुष तद्वत्पद्महस्त सुशोभनम् ॥४॥
पद्मं कृष्णतिलैः कृत्वा तास्त्रपाव्रेऽष्टपव्रकम् । पूज्यं मन्दारकुसुमैर्भास्करापेति पूर्वतः ॥५॥
नमस्कारेण तद्वच्च सूर्यायेत्यनले दले । दक्षिणे तद्वदर्काय तथार्यम्णे च नैऋते ॥६॥
पश्चिमे वसुधाव्रे च वायव्य चण्डभाजवे । पूष्णे ह्युत्तरतः पूज्य आनन्दायेत्यतः परम् ॥७॥
कर्णिकायां तु पुरुषः पूज्यः सर्वात्मनेति च । शुक्लवस्त्रैः समावेष्टन्य भक्ष्यैर्माल्यफलादिभिः ॥८॥
एवमभ्यर्च्य तत्सर्वं दद्याद्वेदविदे पुनः । भुञ्जीतातैललवणं वाग्यतः प्राङ्रमुखो गृही ॥९॥
अनेन विधिना सर्वं सप्तम्यां मासि मासि च । कुर्यात्संवत्सरंयावाद्वत्तशाठन्यविवर्जितः ॥१०॥
एतदेव व्रतान्ते तु निधाय कलशोपरि । गोभिर्विभवतः सार्द्धं दातव्यं भूतिमिच्छता ॥११॥
नमो मन्दारनाथाय मन्दारभवनाय च । त्वं च वै तारयस्वास्मानस्मात्संसारकर्दमात् ॥१२॥
अनेन विधिना यस्तु कुर्यान्मन्दारकं व्रतम् । विपाप्मा स सुखी मर्त्यो कल्पं च दिवि मोदते ॥१३॥
इमामघौघपलध्वान्तसद्वर्तिदीपिकाम् । गच्छन्प्रगृह्य संसारशर्वर्यां न स्खलेन्नरः ॥१४॥
मन्दारषष्ठीं विख्यातामीप्सितार्थफलप्रदाम् यः पठेच्छृणुयाद्वापि सोपि पापैः प्रमुच्यते ॥१५॥
षष्ठीमुपोष्य तिलपङ्कजकर्णिकायां संपूज्य भास्करमहो सुरवृक्षपुष्पैः । यत्याप्रुवन्ति पुरुषा न हितत्कदाचिद्रोभूहिरण्यतिलदाः पदमाप्रुवन्ति ॥१६॥ [ १८१८ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मन्दारषष्ठीव्रतनिरूपणं नाम चत्वारिंशोऽध्यायः ॥४०॥