श्रीकृष्ण उवाच ॥
उल्काख्यां नवमीं राजन्कथयामि निबोधताम् । या काश्यपेन कथिता तारकस्यार्तिनाशिनी ॥१॥
अश्वयुक्छुक्लपक्षे या नवमी लोकविश्रुता । नद्यां स्त्रात्वा समभ्यर्च्य पितृदेवीं यथाविधि ॥२॥
पश्वात्संपूजयेद्देवीं चामुण्डां भैरवप्रियाम् । पुष्पैर्धूपैस्मनैवेद्यैर्मांसमत्स्यसुरासवैः ॥३॥
पूजयित्वा स्तव कुर्यान्मन्व्रेणानेन मानवः । समारोप्याञ्जलिं मूर्न्धि जानुभ्यामवनीं गतः ॥४॥
महिषन्घि महामाये चामुण्डे मुण्डमालिनि । द्रव्यमारोग्यविजयो देहि देवि नमोऽस्तुते ॥५॥
कुमारीर्भोजयेत्पश्वान्नवनीलसुकञ्चुकैः । परिधानैर्भूषणैश्व भूषयित्वा क्षमापयेत् ॥६॥
सप्तपञ्चाप्यथैकां वा चित्तवृत्तानुरूपतः । श्रद्धया तुष्यते देवी इति वीरानुशासनम् ॥७॥
अभ्युक्ष्य मण्डलं कृत्वा गोमयेन शुचिस्मितः । दत्त्वासने चोपवसेत्पाव्रं च पुरतो न्यसेत् ॥८॥
ततः सुसिद्धमन्नं यत्तत्सर्वे परिवेषयेत् । सघृतं पायसं चापि स्थापयेत्पाव्रसन्निधौ ॥९॥
तृणानां षष्टिमादाय चादाय धमनीं तथा । प्रज्वालयेत्ततो भोज्यं यावज्ज्वलति पावकः ॥१०॥
प्रशान्ते भोजनं त्यक्त्वा समाचम्य प्रसन्नधीः । चामुण्डां ह्रदये ध्यात्वा गृहकृत्यपरो भवेत् ॥११॥
अनेन विधिनी सर्वं मासि मासि समाचरेत । ततः संवत्सरस्यान्ते भोजयित्वा कुमारिकाः ॥१२॥
वस्त्रैराभरणैः पूज्य प्रणिपत्य क्षमापयेत । सुवर्णं शक्तितो दद्याद्नां च विप्राय शोभनाम् ॥१३॥
य एवं कुरुते पार्थ पुरुषो नवमीव्रतम् । न तस्य शव्रवो नव्रवो नार्तिः स राजा नष्टतस्करः ॥१४॥
भूताः प्रेताः पिशाचा न जनयन्ति भयं गृहे । समुद्यतेषु शस्त्रषु हन्ता तस्य न विद्यते ॥१५॥
रक्षते तं सदोद्युक्ता सर्वास्वापत्सु चण्डिका । नरो वा यदि वा नारी व्रतमेतत्समाचरेत् ॥१६॥
उल्कावत्स सपत्नानां ज्वलन्नास्ते सदा ह्रदि ॥१७॥
त्तां शुष्ककोद्रवमुखीं प्रकटोरुदंष्ट्रां कापालिनीं समवलम्बितमुण्डमालाम् । उक्तव्रतेषु । रुषो नवमीषु चण्डीं संपूज्य कस्य ह्रदये न च श करोति ॥१८॥ [ २५ - ७ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वाणि श्रीकुष्णयुधिष्ठिरसंवाद उल्कानवमीव्रतवर्णन नाव द्विषष्टितमोऽध्यायः ॥६२॥