श्रीकृष्ण उवाच ॥
गौरीं विवाह्य जग्राहः हरः पाशुपतं व्रतम् । उमापतिः पशुपतिर्ध्यानासक्तो वभूव ह ॥१॥
ब्रह्मादिभिः समामंत्र्य विबुधैः पुत्रलब्धये । गौर्या मनोभिलषितपूरणाय प्रहषितैः ॥२॥
प्रहितः क्षोभणार्थाय समर्थ इति मन्मथः । ततो मारः स्मरः कामोऽप्याजगाम् तमाश्रमम् ॥३॥
रतिप्रीतिमदोन्मादवसंतश्रीसहायवान् । निधानवारुणीदर्पशृंगारैः परिवारिथ ॥४॥
आम्राशोकवनत्तंसो मालतीकृतशेखरः वीणामृदंगसंगीतकोकिलाशृंगदूतकः ॥५॥
झल्लरीवाद्यसंघुष्टभांडागारिकलेखकः । पानमत्ताङ्गनारुढो हिन्दोलाश्वर्यमंत्रैमान् ॥६॥
दक्षिणानिलगंधाढ्यः कटाक्षेतवर्षवान् । महाराजाधिराजो वा स्मरः प्राप्तो हरांलिकम् ॥७॥
स पुष्पचापमाकृष्य मदनोन्मादनं शरम् । चिक्षेप त्रिपुरघ्नाय समाधेर्भगहेतवे ॥८॥
बुद्धा तं तस्य संकल्पः रुद्रः क्रोधाज्ज्वलन्रुषा । ललाटाद्वह्रिमसृजत्तृतीयनयनद्धारः ॥९॥
कामो विलोकितस्तेन भस्मीभूतश्व तत्क्षणात् । दग्धं दृष्टाव स्मरं शोकाद्रति - प्रीती स्थिते सदा ॥१०॥
कारुण विलपत्यौ ते सर्वमन्यद्दिशं गतम् । ततः शोकातंहृदया गौरी रुद्रमुवाच ह ॥११॥
भगवन्नस्मदर्थे तं कामं निर्दग्धवानसि । तेनैतं पश्य नार्यौ ते कामस्य रुदितः कथम् ॥१२॥
कुरु प्रसादं देवेश रतिपीत्यै वृषध्वज । संजीवय स्मरं शंभो मूर्तिमंतें पुनः कुरु ॥१३॥
तच्छुत्वा तु महादेवो हृष्टः प्रोवाच पार्वतीम् । उपप्लुतं जगत्सर्व मन्मथेन शरीरिणा ॥१४॥
मया दग्धस्य कामस्य पुनरागमनं कुतः । किंतु ते मानयन्वाक्यं करोमि सफलं प्रिये ॥१५॥
अस्मिन्वसंतसमयेशुल्कपक्षेत्रयोदशी । अस्यां मनोभवो देवि भविष्यति शरीरवान् ॥१६॥
एतेन बीजभूतेन जगद्घुर्णिष्यतेऽखिलम् । एवं वरनिमं दत्वा मन्मथाय युधिष्ठिर ॥१७॥
जगां हिमवच्छुंगं कैलासं पार्वतीप्रियः । तदेतत्सर्वमाख्यातं स्मरस्य चरितं नृप ॥१८॥
पूजाविधानमपरं कथयामि शृणुष्व तत् । अस्यां स्त्रात्वा त्रयोदश्यामशोकाख्यं नगं लिखेत् ॥१९॥
सिन्दूरजतितैरंगैरतिप्रीतिसमन्वितम् । कामदेवं वसंतं च वाजिवक्रं झषध्वजम् ॥२०॥
सौवर्णं वा महाराज वार्क्षचित्रमथापि वा । लीलाविलासगमनं गर्वितं चाप्सरोगणम् ॥२१॥
गन्धर्वगीतवादिप्रेक्षणीयसमाकुलम् । नद्यावर्तिरतिक्रीडाप्रीतिविद्याधरैर्युतम् ॥२२॥
मध्याह्रे भोजयेद्भक्त्या भक्ष्यैर्धूपैः स्त्रगंबरैः । मंत्रेणानेन कौतेय नरो नार्या समन्वितः ॥२३॥
नमो बामाय कामाय देवदेवाय मर्तये । ब्रह्मविष्णुशिवेन्द्राणां मनः क्षोभकराय वै ॥२४॥
कृत्वैवमार्चयित्वा तु देवदेवं मनोभवम् । ततस्तस्याग्रतो देया मोदका मुखमोदकाः ॥२५॥
नानाप्रकारन्भक्ष्यांश्वकामोमेप्रीयतामिति । ततोविसर्जयेद्विप्रान्दत्वा युग्मं सदक्षिणम् ॥२६॥
स्वपतिं पूजयेन्नारी वस्त्रमालाविभूषणैः कामोऽयमिति संचिंत्य प्रहृष्टेनांतरात्मना ॥२७॥
मन्मथायतने तस्मिन्यजमानः सुहृद्धृतः । रात्रौ जागरणं कुर्यात्सुखरात्रिर्यथा भवेत् ॥२८॥
कर्पूरकुंकुमक्षोदगंधतांबूलसर्जनैः । नानाप्रकारैर्भक्ष्यैश्व कुर्याद्रात्रौ महोत्सवम् ॥२९॥
दीपप्रज्वालनैर्नृत्यैः प्रेक्षणैः प्रेक्षणोत्सवैः । एवं यः कुरुते पार्थ वर्षे वर्षे महोत्सवम् ॥३०॥
वसंतसमये प्राप्ते हृष्टस्तुष्टो नृपः पुरे । तस्य संवत्सरं यावल्लोको योगैर्विमुच्यते ॥३१॥
सुभिक्षंक्षेममारोग्यं यशः श्रीः सौख्यमुत्तमम् । कामवर्षी च पर्जन्यस्तस्मिन्राट्रे प्रजायते ॥३२॥
तुष्यते तु भृशं देवो द्वादशार्द्वालोचनः । तथा कामश्व विष्णुश्व वसंतश्व प्रजापतिः ॥३३॥
धानाश्व सुपर्णाः पतगा नगाः । तुष्टाः प्रयच्छंति सुखं तस्य कर्तुर्न संशयः ॥३५॥
चैत्रोत्सवे सकललोकमनोनिवासं कामं वसंतमलयाद्रिमरुत्सहायम् । रत्या सहार्च्य पुरुषः प्रवरा च योषित्तौ भाग्यरुपसुतसौख्ययुतः सदा स्यात् ॥३६॥ [ ५९०१ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मदनमहोत्सववर्णनं नाम पंचात्रिंशदुत्तरशततमोऽध्यायः ॥१३५॥