श्रीकृष्ण उवाच ॥
अथ पापहरं वक्ष्ये सुवर्णाचलमुत्तमम् । यस्य प्रदानाद्भवनं वैरिंच्यं याति मानवः ॥१॥
उत्तमः पलसाहस्त्रां मध्यमः पंचभिह शतैः । शदर्द्धेनावरस्तद्वदल्पवित्तोऽपि शक्तितः ॥२॥
दद्यादेकपलादूदर्ध यथाशक्त्या विचक्षणः । धान्यपर्वतवत्सर्व विदघ्यानृपसत्तम ॥३॥
विष्कंभशैलांस्तद्वच्चकृत्वा मंत्रमुदीरयेत । नमस्ते ब्रह्मबीजाय ब्रह्मागर्भाय वै नमः ॥४॥
यस्मादनंतफलदस्तस्मात्पाहि शिलोच्चय । यस्मादग्नेरपत्यं त्वं यस्मादुल्बं जगत्पतेः ॥५॥
हेमपर्वतरुपेण तस्मात्पाहि नगोत्तम । अनेन विधिना यस्तु दद्यात्कनकपर्वतम् ॥६॥
स याति परमं स्थानं यत्र देवो महेश्वरः । तत्र वर्षशतं तिष्ठेत्ततो याति परां गतिम ॥७॥
हेमाचलात्परं दानं न चान्यद्विद्यते क्कचित् हैमं महींद्रमणिशृंगशतैरुपेतं लोकाधिपाष्टकयुतं सहितं मुनीद्रैः यः शक्तिमान्वितरतीह गणेशलोके कल्पं कुमारवदसौ कुरुपुंगवाऽऽस्ते ॥९॥ [ ७८२१ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे हेमाचलदानविधिवर्णनं नामाष्टनवत्युत्तरशततमोःध्यायः ॥१९८॥