युधिष्ठिर उवाच ॥
यदारोग्यकरं पुंसां यदनंतफलप्रदम् । व्रतं तद्ब्रूहि गोविन्द सर्वपापप्रणाशनम् ॥१॥
श्रीकृष्ण उवाच ॥ यत्तद्धिश्वात्मनो धाम परं सनातनम् । सूर्याग्निचन्द्ररुपेण तत्रिधा जगति स्थितम् ॥२॥
तमाराध्य पुमान्किं न प्राप्नोति कुरुनन्दन । तस्मादादित्यवारेण सदा नक्ताशनो भवेत् ॥३॥
उत्पद्यते यदा भक्तिर्भानोरुपरि शाश्वती । तदारभ्य सदा कार्य नक्तमादित्यवासरे ॥४॥
पूर्वोक्तिविधिना चैव पूजयित्वा द्विजोत्तमान । ततोऽस्तसमये भानो रक्तचन्दनपङ्कजम् ॥५॥
विलिख्यद्वादशदलपूज्यसूर्येतिपूर्वतः । दिवाकरं तथाग्रेये विवस्वंतमतः परम् ॥६॥
भगं तु नैऋते देवं वरुणम पश्चिमे दले । महेन्द्रं मारुतदले आदित्यं तु तथोत्तरे ॥७॥
शांतमीशानभागे तु नमस्कारेण विन्यसेत् । कर्णिकापूर्वपत्रे तुसूर्यस्यतुरगान्नयसेत् ॥८॥
दक्षिणे यमनामानं मार्गड पश्चिमे दले । उत्तरेण रवि देवं कर्णिकायां तु भास्करम् ॥९॥
अर्घ्य दद्यात्ततः पार्थ सतिलारुणचंदनम् । फलाक्षतयुतं तद्वदिमं मंत्रमुदीरयेत् ॥१०॥
कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः । यस्मादग्नीं दुरुपस्त्वमतः पाहि प्रभाकर ॥११॥
अग्निमीळे नमस्तुभ्यं इषेत्वोर्जे च भास्करं । अग्न आयाहि वरद नमस्ते ज्योतिषां पते ॥१२॥
अर्घ्य दत्वा विसर्ज्याथ निशि तैलविवर्जितम् । भुञ्जीत भावितमना भास्करं संस्मरन्मुहुः ॥१३॥
प्रक्तनेऽह्री शनौ चैव तैलाभ्यंगं विवर्जयेत् । वत्सरांते कारयित्वा काञ्चनं कमलोत्तमम् ॥१४॥
पुरुषं च यथाशक्त्या कारयेद्द्विभुजं तथा ॥१५॥
सुवर्णशृंगी कपिलां महार्घ्या रौप्यखुरां कांस्यदोहां सवत्साम् । पूर्णे गुडस्योपरि ताम्रपात्रे पद्मं च ततो निदध्यात् ॥१६॥
गां कल्पयित्वा पुरुषं सपद्मं दद्यादनेकव्रतानायकाय । अव्यंगरुपाय जितेन्द्रियाय कुटुंबिने शुद्धमनुद्ध ताय ॥१७॥
नमोऽस्तु ऋक्सामयजुविंधात्रे पद्मप्रबोधाय जगत्सवित्रे । त्रयीमयाय त्रिगुणात्मने च त्रिलोकनाथाय नमो नमस्ते ॥१८॥
इत्यनेन विधानेत वर्षमेकं तु यो नरः । नक्तमादित्यवारेण कुर्यास्सनीरुजो भवेत् । धनधान्यसमायुक्तः पुत्रपौत्रसमन्वितः ॥१९॥
मर्त्ये स्थित्वा चिरं कालं सूर्यलोकमवाप्नुयात् ॥२०॥
कर्मसंकिक्षयमवाप्य पार्थिवः शोकदुःखमयरोगवर्जितः । स्याद मित्रकुलकालसंनि मोधर्ममूर्तिमितौजसा चुतः ॥२१॥
वा च मर्तृगुरु देवात्परा वेदमूर्तिदिजनक्तमाचरत् । तापि लोकममरेशपूजिता याति कौरव स्वेर्न्न संशयः ॥२२॥
यः पठेदथ शृणोति वानरः पश्यतीत्थमथवानुमोदयेत् । सोऽपि शक्रभवनेदिवौकसैः कल्पकोटिशतमेकमीडयते ॥२३॥ [ ४९०८ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वति श्रीकृष्णयुधिष्ठिरसंवादे आदित्यदिननक्तयिधिवर्णनं नाम पंचदशोत्तरशतत मोऽध्यायः ॥११५॥