युधिष्ठिर उवाच ॥
भूतमातेति संहृष्टो ग्रामे ग्रामे पुरे पुरे । गायन्नृत्यन्हसँल्लोकः सर्वतः परिधावति ॥१॥
उन्मत्तवत्प्रलपति क्षितौ पतति मत्तवत् । कुद्धवद्धावति पुरोन्मत्तवत्कर्ष्यते बहिः ॥२॥
मुखांगभंगान्कुरुते लोके वातगृहीतवत् । भूतवद्भस्मगात्रतु कर्दनवगाहते ॥३॥
किमेष शास्त्रनिर्दिष्टो मार्गः लौकिकः । मुह्यते मे मनः कृष्ण त्वं तु वक्तुमिहार्हसि ॥४॥
श्रीकृष्ण उवाच ॥
शृणु पार्थ प्रवक्ष्यामि यत्ते किञ्चिन्मनोगतम् । आस्तिकः श्रद्दधाश्व भवतीति मतिर्मम ॥५॥
पार्वत्या सहितः पार्थ मन्दरे चारुकंदरे । क्रीडन्नास्ते मुदा युक्तैर्दिव्यक्रेडनकैर्हरः ॥६॥
हंसोन्नतगतिं चारुकुंभभ्राजिकुचद्वयाम् । सिञ्चत्सद्रशनां ह्र्ष्टां दृष्ट्रवा गौरीं जगद्रुरुः ॥७॥
दग्धकामोऽपि च हरः संदीप्तमदनोऽभवत् । निःसृतां कामयामासमर्हाहशयने शिवः ॥८॥
रतस्थयोस्तयोर्जातं दिव्यं वर्षशतं यदा । तदा देवीसमुच्छ्राय निरोधान्निर्गता बहिः ॥९॥
मूत्रोदकात्समुत्तस्थौ नारी निर्दारितोदरा । कृष्णा करालवदना पिंगाक्षा मुक्तमूर्द्धजा ॥१०॥
कपालमालाभरणा ललज्जिह्रोर्ध्वपिंडका । खट्वाङ्गकंकालधरामुद्राङ्कितकराशिवा ॥११॥
व्याघ्रचर्माबरधरा रणत्किंणिमेखला । डमङुममरुकाकेत्कारापूरितांबरा ॥१२॥
तस्याः पार्श्वनुजाश्वान्या गतिवाद्यलयानुगाः । उत्तालतालमबला नृत्यंति च हसंति च ॥१३॥
कपालखट्वाङ्गधरा गजचर्मावगुंठिताः । तथैव शंकराज्जातस्तद्रूपाभरणः पुमान् ॥१४॥
अनुगम्यमानो बहुभिर्भतैरतिभयंकरैः । सिंहशार्दूलवदनैरदनैरदनोल्लिखितांबरैः ॥१५॥
एकीभूतैः क्षणेनैव तौभवानीभवोद्भवौ । दृष्ट्रवा हृष्टमना देवः प्राह देवीं सुविस्मिताम् ॥१६॥
कल्याणि पश्य पश्यैतौ मत्त्वदङ्गसमुद्भवौ । बीभत्साद्भुतशृंगावरायुधविधारिणौ ॥१७॥
भ्रातृभांडौ यथा देवि तथेतौ च मतौ सम । नृनार्योरतरं किञ्चित्सादृश्यात्प्रतिभासयेत् ॥१८॥
भ्रातृभांडा भूतमाता तथैवोदसेविका । संज्ञात्रयं तयोः कृत्वा ततः प्रादाद्वरं हरः ॥१९॥
भुक्त्वाहोपगतांचैतांजरत्तरुतलस्थिताम् । सेवयिष्यंतिभक्त्याजलसंपूर्णकंडुकैः ॥२०॥
चन्दनेन समालभ्य पुष्पधूपैरथार्य ताम् । भोजयेत्क्षिप्रया चैव कृशरापूपपायसैः ॥२१॥
य एवं कुरुते देवि न पिशाचा न राक्षसाः पीडांकुर्वति शिशवो यांति वृद्धिं निरामयाः ॥२३॥
युधिष्ठिर उवाच ॥
कदा पूजा प्रकर्तव्या भूतमातुः सुखर्थिभिः । पुरुषैः पुरुषव्याघ्र यत्तन्मे वक्तुमर्हसि ॥२४॥
श्रीकृष्ण उवाच ॥
सर्वत्रैषा भगवती बालानां हितकारिणी । नामभेदैः क्रियाभेदैः कालभेदैश्वपुज्यते ॥२५॥
प्रतित्प्रभृति ज्येष्ठे यावत्पंचदशी तिथिः । तावत्पूजा प्रकर्तव्या प्रेरणैः प्रेक्षणीयकैः ॥२६॥
विकर्मफलनिर्दशः पांडवानां विडंबनम् । प्रदृश्यंतेहास्यपरैर्नरैद्भुतचष्टितैः ॥२७॥
विश्वास्य धनलोभेन संध्यायां निहतः पथि । आरोहणं च शूलाग्रे न पश्यंतं हि पश्यति ॥२८॥
दृष्टो भवद्भिः संहृष्टः परपारावमर्शकः । छित्वा स्वहस्तैर्यद्दत्तो विभुना मुख्यमोदकः ॥२९॥
शीर्णसूक्ष्मेण पत्रेण बालामालानुमोदिताः । मुष्कभुग्रासभारुढो मुखं कृत्वा च पश्चिमे ॥३०॥
हे जनाः किं न पश्यध्वं स्वामिद्रोहकरं परम् । करपत्रैर्विदार्यतमुच्छलच्छोणितच्छटम् ॥३१॥
चरैः संप्राप्तः सर्वोद्वेगकरः परम् । दंडग्रहारानिहतो नीयते दंडपाशिकैः ॥३२॥
प्रेक्षकैर्वेष्टितः स्तेनो रटत्येष विमंडितः । संयम्य नीयते यं तु मुखः क्रौर्यविलेक्षणः ॥३३॥
सितकेशं सितश्मश्रुं सितांबरधरं द्विजम् । पापिनं हि चपेटाभिर्हन्यमानं न पश्यत ॥३४॥
गृहान्निष्क्राम्यतां रंडे वृद्धो भूत्वाप्यसौ स्त्रियाः । स्वस्या असौ न कुरुतै मूढो भरणपोषणम् ॥३५॥
भैरवाभरणोत्तालाव्यालयज्ञोपवतिनः । प्रदत्वा ताण्डवपदान्पश्यध्वं ध्वस्तदीपकान् ॥३६॥
निर्वेदकोऽस्य हृदये न किंचिंदपि तिष्ठति । गृहीतं यदनेनेदं बाले नापि महाव्रतम् ॥३७॥
रक्तदृक्काककृष्णाङ्गं शबरं किं न पश्यत । तरुकोटरांतरगतो च्छित्वा च शुकशावकान् ॥३८॥
बहुभिः कोठकी कृत्य शरौघैः शकली कृतम् । विमुक्तढक्काहुंकारसुप्रहारं निरीक्षत ॥३९॥
इमां कृष्णार्द्धवदनां गृहीतां सिंदुरार्चिताम् । विमुक्तकेशां नृत्यंतीं पश्यध्वं योगिनीमिव ॥४०॥
गंभीरतूर्यध्वनिना प्रवृद्धां वृत्ततांडवाम् । एवं प्रेक्षणकं कृत्वा नयेद्वृक्षतले च ताम् ॥४१॥
एवं कृते न दारिघ्रं न च दुःख भवेन्नृणाम् ॥४२॥ [ ५९४३ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे भूतमात्रुत्सववर्णनं नाम षट्त्रिंशदुत्तरशततमोऽध्यायः ॥१३६॥