श्रीकृष्ण उवाच ॥
यदेतत्ते समाख्यातं गंम्भीरं नरकार्णवम् । व्रतोपवासनियमल्पवेनोत्तीर्यते सुखम् ॥१॥
दुर्लभं प्राप्य मानुष्यं विद्युत्पतनचञ्चलम् । तथात्मानं समादध्याद्भ्रश्यते न पुनर्यथा ॥२॥
दानव्रतमयी कीर्तिर्यस्य स्यादिह देहिनः। परलोकेऽपि स तया ज्ञायते ज्ञातिवर्द्धनः ॥३॥
ज्ञायते नेह नामुव्र व्रतस्वाध्यायवर्जितः । पुरुषः पुरुषव्याघ्र तस्माद्व्रतपरो भवेत् ॥४॥
अव्र ते कथयिष्यामि इतिहासं पुरातनम् । सिद्धेन सह संवादमवन्त्यां ब्राह्मणस्य हि ॥५॥
पोगर्द्धिसिद्धन्या संसिद्धः कश्वित्सिद्धो महीतलम् । चचार विकृतं कृत्वा वपः परमभीषणम् ॥६॥
निर्गीर्णदन्तो लम्बोष्ठाः पिङ्गक्षस्तनुखूर्द्धजः । व्रुटितैककर्णो दुर्वर्णः शीर्ववस्त्रो महोदरः ॥७॥
चिपिटाक्षः स्फूटितपाज्जङ्रघाढन्यः कृशकृर्परः । दिशः पश्यति सह्रष्टो बभ्रामोद्भ्रान्तचित्तवत् ॥८॥
मूलजालिकविमेण द्दष्टः पृष्टश्व को भवान् । कदा स्वर्गात्समायातः केन कार्येण मे बद ॥९॥
कचिढ्रद्दष्टा त्वया रम्भा भाभासितदिगन्तरा । चित्तसंमोहनकरी देवानामेकसुन्दरी ॥१०॥
गत्वा सद्वचनाद्वाच्या निर्वाच्या दोषदर्शिभिः आवन्त्यस्त्वां कुशलिनीं पृच्छतिस्म द्विजोत्तमः ॥११॥
सिद्धः प्रसिद्धं तं वियं प्राहेदं विस्मयान्वितः । कथं त्वयाहं विज्ञातः स्वर्गादभ्यागतः स्फुटम् ॥१२॥
ब्राह्मणस्तमथोवाच विज्ञातोऽसि मया यथा । तथा तेऽहं प्रवक्ष्यामि क्षीणाघौघावधारय ॥१३॥
गाव्रव्रयं विरूपं स्याद् द्वितीयं वा स्वरूपतः द्दष्टवा सर्वांगवैरूप्यं विज्ञातोऽसि ततो मया ॥१४॥
दुर्लङ्रघ्या प्रकृतिः साक्षात्सहजा या तु वै भवेत् । प्रकृतेरन्यथाभावः सर्वथा लक्ष्यते जनैः ॥१५॥
विप्रस्यैवं वचः श्रुत्वा जगामादर्शनं शनैः । पुनः कैश्विदहोरावैराजगाम स तां पुरीम् ॥१६॥
मूलजालकविप्रेण पृष्टः प्राहामरावतीम् । गतोऽहं पृष्टवांस्तव्र रंभां विभ्रमकारिणीम् ॥१७॥
शक्रस्यावसरे वृत्ते व्रजन्त्याः स्वगृहं मया । त्वत्संदेशः समाख्यातः साऽवदत्को न वेझि तम् ॥१८॥
विद्यया कलया चापि पौरुषेण व्रतेन च । तपसा वा पुमान्तर्त्यो दिवि विज्ञायते चिरम् ॥१९॥
ब्राह्यणस्तमथोवाच श्रत्वा तद्वचनं प्रभो । आचरिष्याभि शकटं व्रतेनैतेन वेत्ति माम् ॥२०॥
तस्यैतद्वचनं श्रुत्वास सिद्धः सुविशुद्धधीः । प्रहस्यामन्व्र्य तं विप्रं जगामादर्शनं पुनः ॥२१॥
कदाचिच्चरता तेन स्वर्गमार्गं यद्दच्छया । द्दष्ट्र्वा रंभां द्विजप्रोक्तं सर्वभेव निवेदितम् ॥२२॥
रंभोवाच ॥ किं नजानामि त्तं विप्रं शकटव्रतचारिणम् । मूलजालैर्वर्तयन्तं महाकालवनाश्रयम् ॥२३॥
दर्शनादय संभाषादुपकारात्सहासमात् । चनुर्धा स्नेहनिर्बन्धो नृणां संजायतेधिकः ॥२४॥
न दर्शनं न संभाषा कदाचित्सह तेत मे । नामश्रवणमाव्रेण स्त्रेहः सदर्शितो महान् ॥२५॥
इत्येवमुक्त्वा रंभोरू रंभा जंभारिणोन्तिकम् । विस्मयोत्फुल्लनयन जगाम गजगामिनी ॥२६॥
गत्वा निवेदयामास स्त्रेहव्रतविचेष्टितम् । पुरतो रुद्धह्रदया ब्राह्मणस्य च धीमतः ॥२७॥
शक्रः प्रोवाच चार्वंगीं गीर्वाणह्रदयंगमाम् । किमानयामि तं विप्रं समीपं तव सुवतम् ॥२८॥
दिव्यमाल्यांबरघरं दिव्यस्त्रगनुलेपनम् । विमानबरमारोप्य दर्शयामास तं पुनः ॥२९॥
तव्रस्थः स द्विजो भोगान्भुनक्ति सह रंभया । शंकटव्रतमाहात्म्यमित्येतत्ते मयोदितम् ॥३०॥
राज्यश्रियं जगति सर्वजनोपभोग्यामाप्नोति नित्यशिवकेशवयोर्निवासम् । नाप्राप्यमस्ति भुवने सुद्दढव्रतानां तस्मात्सदा व्रतपरेण नरेण भाव्यम् ॥३१॥ [ ६५९ ]
इति श्री भविष्ये महापुराण उत्तरपर्वाणि श्रीकृष्णयुधिष्ठिरसंवादे शकटव्रतमाहात्म्यकथनं नाम सप्तमोऽध्यायः ॥७॥