युधिष्ठिर उवाच ॥
संत्यज्यालिकुलालीढकुसुमानि मृदून्यपि । दमनेनकथं लोकैः पूज्यंते नाकनायकाः ॥१॥
दोलांदोलनमाहात्म्यं रथयात्रामहोत्सवम् । कथयस्वामलं प्राज्ञ यादवांभोजभास्कर ॥२॥
श्रीकृष्ण उवाच ॥
पार्थार्थिजनासद्वक्ष क्षांतिधाम धरापते । यदेतद्भवतापृष्टं तच्छुणुष्व वदामि ते ॥३॥
पुरा सुराणामावासे मंदरे चारुकंदरे । गन्धाधारीकुलालीढो जातो दमनकस्तरुः ॥४॥
तस्य गंधमनाघ्रेयमाघ्राय सुरयोषितः । मदनोन्मादवशगा गायंति च हसंति च ॥५॥
ऋषयो नियमांस्त्यक्त्वा प्राद्रवंत गृहान्प्रति । न वेदाध्ययने ध्याने रतिस्तेषां बभूबह ॥६॥
अपराधाद्विघटितंद्वभूव प्रिये परम् । मानसं मानिनीनां तु पुनर्गधेन सांधितम् ॥७॥
गंधेनाकुलितं लोकं दृष्ट्वा ब्रह्मातमब्रवीत् । शमनिर्मितया वाचारोषात्प्रस्फुरिताधरः ॥८॥
ब्रह्योवाच ॥
जातस्त्वं लोकदमनान्नूनं दमनकाधुना । जगद्वा घूर्णसे कस्मात्कर्म नैतत्तवोचितम् ॥९॥
यत्संतस्त्वनुमन्यं ते सर्वातिवर्जितम् । यत्सेवेत नरः कर्म यत्रोद्वेगो न धीमताम् ॥१०॥
एकस्याप्यपकारं यः करोति स नराधमः । बहूनामपकाराय संप्रवृत्तः किमुच्यते ॥११॥
हष्टावर्थबाधक कर्म न कर्तव्यं कथंचन । अदृष्टं प्रतिसंदेहः सोऽस्माभिरनुमीयते ॥१२॥
ततः स्वयं प्रभवति दैवे पित्र्यै च कर्मणि । भोगार्थ च त्रिभुवनं निरादेयाभविष्येति ॥१३॥
दमनक उवाच ॥ पुरुषाद्दैवमारब्धंनक्रोधान्नार्थकारणात् । स्वभाव एष मे ब्रह्मंस्त्वया सृष्टः पुरा विभो ॥१४॥
या यस्यं जंतोः प्रकृतिः शुभा वा यदि वेतरा । सा सर्वथाह्यनुलंघ्या अवशेन हि जंतुना ॥१५॥
तत्स्वभाप्रवृत्त्स्य यदि शापस्त्वया मम । प्रदत्तः किं करोम्पेतन्न कृत्यमपराध्यति ॥१६॥
युक्तियुक्तं वचः श्रुत्वा दमनेन समीरितम् । प्रीतात्मा पद्मज प्राह करोमि तव सत्पियम् ॥१७॥
बसंते सहकारी रोत्थामंजरीपिंजरे जने । पुष्पिताशो कशोभाढ्ये वने पंस्कोकिलाकुले ॥१८॥
तस्मिन्कालेसुशानांरांस्याक्रम्य लीलया । स्थास्यासि त्वं दिनं चैकं यद्यस्य विहितं हितम् ॥१९॥
ये त्वामारोपयिष्यंति दानमानपुरस्सराः । सुराणां ते भविष्यंति सदैव सुखिनो नराः ॥२०॥
सर्वदैव शिवस्येष्टा पुण्या पापभयापहा । प्रसिद्धिं यास्यति मधौ दमनाख्या चतुर्दशी ॥२१॥
एवमुक्त्वा ययौ ब्रह्मा दमनो मंदरे गिरौ । उवास वासिताशे षभुवनो गंधसम्पदा ॥२२॥
दिव्ये गिरौ गिरिसुतादयिताधिवासे रत्नांशुक्रच्छुरितकाकनभूमिभागे । शापं वरे च हृदये विनिवेश्य ब्रह्मणस्तत्रस्थितो दमनको दमितांतरात्मा ॥२३॥
श्रीकृष्ण उवाच ॥
धर्मराज निबोधेमांदोलकमहोत्सवम् । प्रवृत्तनरनारीकं पञ्च मोच्चारसुन्दरम् ॥२४॥
सानंदं नंदनवने आर्द्रता सहितो यथा । विस्मयस्मेरनयतो बभ्रामोद्वांतसौरभः ॥२५॥
उन्मादयन्वने पुण्ये विद्याधरगणान्बहून । वसंतर्तौ नृत्यमानान्सुरासुरशतार्चितः ॥२६॥
संतातपारिजातोत्थां बद्धा समाधर्वीलताम् । कश्विदांदोलनं चक्रे समालिंग्यवनस्तनीम् ॥२७॥
गीतमांदोलकारुढस्त द्वायंत्यमरस्त्रियः । येन चोत्पादयंति स्म मन्मथस्यापि मन्मथम् ॥२८॥
तं दृष्ट्रवाष्टापदनिभाभवानी प्राह शकेरम् । कौतुकं मे समुत्पनं पश्येमाः शंकर प्रभो ॥२९॥
आंदोलकं मम कृते कारयस्व स्वलंकृतम् । त्वया सहादोलयेयं यथा चैते त्रिलोचन ॥३०॥
तद्धौरीवचनं रम्यं श्रुत्वा गोवृषभध्वजः । सद्दोलां कारयामास समाहूय महासुरान् ॥३१॥
रतंभद्वयं रोपयित्वा इष्टापूर्तमयं दृढम् । सत्यं चैवोपरिततं श्रेष्ठं काष्टकल्पयत् ॥३२॥
वासुकीं दंडकस्थाने बद्धा तां तवसप्रभम् । तत्फणामंतरापीठं कृतवान्मणिमंडितम् ॥३३॥
कृमिकार्पासकौशेयवस्त्रैः संवेष्ठितं नवैः । स्त्रग्दामालंबितप्रान्तं मणिमौक्तिकशेखरम् ॥३४॥
रचयित्वा विचित्रां तां दोलां चैलाजिनोत्तराम् । ससिद्धां सिद्धगुरवं गौरवेण न्यवेदयेत् ॥३५॥
तत्रारुढस्तु यावत्स सौम्य सोमविभूषणः । मंदरं दोलयामास पार्श्वस्थैः पार्षदै सह ॥३६॥
वामपार्श्वे तु विजया दक्षिणेन जया भवेत् । चामरा क्रांतबाहूते तेनाश्लिष्टन्यवीजताम् ॥३७॥
आंदोलयंत्या पार्वत्या सहितं सगदाक्षरम् । येन देवासुरस्त्रैणमासीदानंदनिर्भरम् ॥३८॥
जगुर्गधर्वपतयो ननृतुश्वाप्सरोगणाः । उच्छलत्तालवाद्यानि वादयंति स्म चारणाः ॥३९॥
चेलुः कुला चलाः सर्वे चुक्षुभुः सप्तसागराः । ववुर्वाताः सनिर्घाता देवे दोलां समास्थिते ॥४०॥
आलोक्य व्याकुलं लोकं देवाः शक्रपुरोग्माः । उपेत्य प्रणिपत्योचुः सर्वपापहरं परम् ॥४१॥
उपारमस्व भगवन्भवतः क्रीडयानया । जगद्वयापद्यते देव चलितः सागरश्व यत् ॥४२॥
गार्वाणगीर्भिः संहृष्टः शंकरो लोकशंकरः । समुत्पपात दोलातः प्रहर्षोत्फुल्ललोचनः ॥४३॥
उवाच वचनंपार्थ सुरसार्थस्य पश्यतः । सानुकंपं सुललितं विस्फुटार्थपदाक्षरम् ॥४४॥
श्रीमहादेव उवाच ॥
अद्यप्रभृति ये दोलाक्राडां पुष्करिणी तटे । वसंते कारयिष्यंति मंडिते त्रिदशांगणे ॥४५॥
नेत्रपट्टापटच्छनी पद्मरागविभूषिताम् । आतपत्रेण संयुक्तां विन्यस्तकनकांडकाम् ॥४६॥
विचित्राभरणाभाभिराभासितादिगंतराम् । तारकाशांताचित्रांगद्पुष्पमालामनोरमाम् ॥४७॥
मालां विद्याधराक्रांतां प्रांतरोपितदर्पणाम् । छत्रचामरसंछन्नां यथाशक्त्याप्यलंकृताम् ॥४८॥
अग्निकार्य ततः कृत्वाक्षिप्त्वा चैव दिशां बलिम् । तस्यामारोपयेद्देवमिष्टह्रष्टजनावृतः ॥४९॥
मूलमंत्रेण देवानां प्रोक्तं दोलाधिरोहणम् । पार्श्वस्थो ब्राह्मणोविद्वान्पठेद्वामंत्रमुत्तमम् ॥५०॥
गंभीरान्तरनिर्घोषैर्ललनानां निस्वनैः । स्तुतिमंगलशब्दैश्व पुष्पधूपाधिवासि ताम् ॥५१॥
एतस्मिन्नन्तरे नारीं दोहनायनिकुट्टकाम् । प्रवेशयेत्कुंकुमाढ्यां क्रीडावर्णप्रियैः सह ॥५२॥
सुवर्णशृंगिणा प्रोक्तं स्मितदंताशुकर्बुरम् । लगमानं जलं चांगे कस्य न स्यात्सुखप्रदम् ॥५३॥
जलसंल्किन्नवसनो रशनादाममंडितः । कम्बुग्रीवोल्लसन्सर्वो बभूव गणिकागणः ॥५४॥
कुंकुमक्षोदतांबूलपुष्पमालाकुलो जनः । तां विहाय जलक्रीडां नान्यस्यां विदधे मनः ॥५५॥
पीतशीतजलाघातताडितोऽपि जनः सुखम् । मन्यते नियतः कोपि प्रभावोऽयमनंगजः ॥५६॥
एवं ये तु गमिष्यंति नरा वर्त्मतया गतम् । नीरुजस्ते भविष्यंति सुखिताः शरदां शतम् ॥५७॥
पुत्रपौत्रसमायुक्ता धनधान्यसमायुताः । विहृन्य सुखसंपत्तौ ततो यास्यंति मत्पुरम् ॥५८॥
प्राप्ते वसंतसमये सुरसत्तमानामान्दोलनं सुरवराननु कुर्वते ये । ते प्राप्नुवंति भुवि जन्मतरोः फलानि दुःखार्णवात्कुलशतान्यपि तारयंति ॥५९॥ [ ५७९३ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे आन्दोलकविधिवर्णनं नामत्रयस्त्रिंशदुत्तरशततमोऽध्यायः ॥१३३॥