युधिष्ठिर उवाच ॥
अग्निष्टिका कथं देया शिशिरे शीतभीरुभिः । सर्वस्त्त्वोपकाराय करुणीकृतमानसैः ॥१॥
श्रीकृष्ण उवाच ॥
अग्निष्टिकामहं पार्थ कथयामि निबोधताम् । यथा येन विधानेन सर्वस्त्त्वसुखप्रदाम् ॥२॥
आदौ मार्गशिरे मासि शोभने दिवसे शुभाम् । अग्निष्टिकां कारयित्वा सुखासनवतीं शुभाम् ॥३॥
देवांगणे पथे गेहे विस्तीर्णे चत्वरेऽथवा । उभयोः संध्ययोः कृत्वा संशुष्कं काष्ठसंचयम् ॥४॥
ततः प्रज्वालयेदग्निं हुत्वा व्याहृतिभिः क्रमात् । अनेन विधिना हुत्वा प्रत्यहं ज्वालयेत्ततः ॥५॥
यदि कश्वित्क्षुधार्थी स्याद्भोज्यं तस्मै प्रकल्पयेत् । सुखासीनो जनस्तत्र विशीतो विज्वरस्तथा ॥६॥
यः करोति कथाः पार्थ न ताः शक्त्या मयोदितुम् । राज्वार्ता जनवार्ता यदि कश्विन्निजेच्छया ॥७॥
वदेल्लोकः सुखासीनो न केनापि निवार्यते । अनेन विधिना यत्तु दद्यादन्गिष्टिकां नरः ॥८॥
तस्य पुण्यफलं राजन्कथ्यमानं निबोध मे । विमाने चार्कसंकाशे समारुढो महाधने ॥९॥
षष्टि वर्षसहस्त्राणि षष्टिवर्षशतानि च । हर्षितोऽत्यंतसुखितो ब्रह्मलोके नहीयते ॥१०॥
इह लोकेवतीर्णश्व चतुर्वेदो द्विजो भवेत् । नीरुजः सत्रयाजी च अग्निवत्तेजसान्वितः ॥११॥
चैत्ये सुरांगणसभावसथे सुभव्यां येऽग्निष्टिकां प्रचुरकाष्ठवतीं प्रदद्युः हेमंतशैशिरऋतौ सुखदा जनानां कायाग्नेदोपनमलं पुनराप्नुवंति ॥१२॥ [ ७४८४ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्ण युधिष्ठिरसंवादे अग्निष्टिकादानविधिवर्णनं नाम त्रिसप्तत्युत्तशततमोऽध्यायः ॥१७३॥