युधिष्ठिर उवाच ॥
यदि कर्तु न शक्रोति व्रतं नक्षत्रपौरुषम् । गृहीतं रभसा कृष्ण ह्यन्यद्वा व्रतमुत्तमम् ॥१॥
संपूर्ण जायते येन यदचीर्ण पुरा स्थितम् । कुरुप्रसादं गुह्यार्थमेतन्मे वक्तुमर्हसि ॥२॥
श्रीकृष्ण उवाच ॥ साधु साधु महाबाहो कुरुराज युधिष्ठिर । रहस्यांना रहस्यं ते कथयामि व्रतोत्तमम् ॥३॥
संपूर्ण नाम तच्चापि व्रतं सम्यक्फलप्रदम् । यच्चीर्ण नरनारीभिर्भवत्संपूर्णकारकम ॥४॥
अवश्यं तच्च कर्तव्यमक्षाणफलकांक्षिभिः । किञ्चिद्भग्नं प्रमादेन यद्वतं व्रतिनां स्थितम् ॥५॥
तत्संपूर्ण भवंत्सवं व्रतेनानेन पाण्डव । उपद्रवैर्बहुविधैर्मदान्मोहाच्च पार्थिव ॥६॥
यद्भङ्गं किञ्चिदेव स्याद्व्रतं विघ्नविनायकैः । तत्संपूर्ण भवेत्पार्थ सत्यं सत्यं न संशयः ॥७॥
काञ्चनं रौप्यकं रुपं शिल्पिना तद्धटापयेत् । भग्नवते तु यो देवस्तत्स्वरुपं सुनिर्मितम् ॥८॥
रुपं स्त्रीपुंसयोर्वापि प्रारब्धं यद्व्रते किल । नवनिष्पादितं किंचिद्दैवात्सर्व तथोत्थितम् ॥९॥
द्विभुजं पङ्कजारुढं सौम्यप्रहसिताननम् । निष्पादितं शिल्पभावात्तस्मिन्नेव दिनेदिने ॥१०॥
तन्मासे च पुनः प्राप्ते ब्राह्मणो विधिना गृहे । स्त्रापयेत्पयसा दध्ना घृतक्षीरसांबुधिः ॥११॥
गंधचंदनपुष्पैश्व चर्चयेत्कुंकुमादिना । तोयपूर्णस्य कुंभस्य पृथ्व्यां विन्यस्य चंदनैः ॥१२॥
धपदीपाक्षतैर्वस्त्रैरत्नैरप्युपहारकैः । अर्घ्य दद्याच्च तन्नाम्ना मंत्रेणानेन पांडव ॥१३॥
उपसन्नस्यदीनस्यप्रायश्वित्तकृताञ्जलेः । शरणं च प्रपन्नस्य कुरुष्वाद्य दयां प्रभो ॥१४॥
परत्र भयभीतस्य परत्र भयभीतस्य भग्नखंडव्रतस्य । कुरु प्रसादं संपूर्ण व्रतं संपूर्णमस्तु मे ॥१५॥
तपश्चिद्रं व्रतच्छिद्रं यच्छिद्रं भग्नके व्रते । तव प्रसादाद्देवेश सर्वमच्छिद्रमस्तु नः स्वाहा ॥१६॥
अमुकदेवायनमः । पूर्वतौ दक्षिणतः पश्चिमतौत्तरतः । विदिक्षु चोपर्य्यस्ताद्दिक्पालेभ्यो नमो नमः ॥१७॥
इदमर्घ्यमिदं पाद्यं नैवेद्यं ते नमोनमः । एवं प्रोच्य ततः पादौ जानुनी कटिशीर्षके ॥१८॥
वक्षःकुक्षिदृष्टिपृष्ठबाह्रंसांकशिरोरुहान् । पूजयेत्तस्य देवस्य ततः पश्वत्क्षमापयत् ॥१९॥
पूजितस्त्वं यथाशक्त्या नमस्तेऽस्तु सुरोत्तम । ऐहिकामुष्टिकीं नाथ कार्यसिद्धिं दिशस्व मे ॥२०॥
एवं क्षमापयित्वा तु देवरुपं विधानतः । ततो द्विजस्य कौन्तेयविधिज्ञस्योपपादयेत् ॥२१॥
स्थित्वा पूर्वमुखो विप्रो गृह्रीयाद्दर्भपाणिना । विप्रस्य हस्ते यच्छेच्च दाता वै चोत्तरामुखः ॥२२॥
मंत्रेणानेन कौंतेय सोपवासः प्रयत्नतः । इदं व्रतं मया खंडं कृतमासीत्पुरा द्विज ॥२३॥
भगवंस्त्वत्प्रसादेन संपूर्ण तधिहास्तु मे । ब्राह्मणोऽपि प्रतीच्छेत्तु मंत्रेणानेन तद्व्रतम् ॥२४॥
वाक्संपूर्ण मनः पूर्ण पूर्ण कायव्रतेन ते । संपूर्णस्य प्रसादेन भव पूर्णमनोरथः ॥२५॥
ब्राह्मणायभिभाषंते ह्यनुमोदंति देवताः । सर्वदेवमया विप्रा नैतद्वचनमन्यथा ॥२६॥
जलधिः क्षारतां नतिः पावकः सर्वभक्षताम् । सहस्त्रनेत्रः शक्रोपि कृतो विप्रैर्महात्मभिः ॥२७॥
ब्राह्मणनां तु वचनाद्ब्रह्महत्या प्रणश्यति । अश्वमेधफलं साग्रं प्राप्यते नात्र संशयः व्यासवाल्मीणानां तु वचनाब्रह्यहत्या प्रणश्यति । अश्वमेधफलं साग्रं प्राप्यते नात्र संशयः ॥२८॥ व्यासवाल्मीकिवचनाट्ब्राह्मणयवचनाच गर्गगौतमपराशरध्ॐयांगिरसवसिष्ठनारदादिमुनिवचनात्संपूर्ण भवतु ते व्रतम् । एवं विधिविधानेन गृहीत्वा ब्राह्मणो व्रजेत् । तद्दानं प्रेषयेत्सर्व ब्राह्मणस्य गृहे स्वयम् ॥२९॥
ततः पंचमहायज्ञान्निर्वपेद्भोजनादि च । एवं यः कुरुते भक्त्या व्रतमेतत्सकृत्तथा ॥३०॥
तरय संपूरणतां याति तद्व्रतं यत्पुरास्थितम् । खंडं संपूर्णता याति प्रसन्ने व्रतदैवते ॥३१॥
संपूर्ण च ततः कृत्वा संपूर्णागो भवेद्व्रती । भोगी भव्यो लसत्कीर्तिः स्वसंपूर्णमनोरथः ॥३२॥
स्थित्वा वषशतं मर्त्ये ततः स्वर्गेऽमरो भवेत् । यथेष्टचेष्टाचारी च ब्रह्माविष्णिवन्द्रपूजितः ॥३३॥
स्वर्गलोके चिरं स्थित्वा पुनर्मोक्षमवाप्नुयात् । प्राय्श्वित्तमिदं प्रोक्तं पुरा गर्गेण मे प्रभो ॥३४॥
गोकुले गोकुलाकीर्णे मया बाल्वेऽप्युपोषितम् । एवं त्वमपि कौतेय चर संपूर्णकं व्रतम् ॥३५॥
भग्नानि यानि मदमोहवशाद्गृहीत्वाजन्मान्तरेष्वपि नरेण समत्सरेण । संपूर्णपूजनपरस्य पुरो भवंति सर्वव्रतानि परिपूर्णफलप्रदानि ॥३६॥ [ ४७२३ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे संपूर्णव्रतवर्णनंनामदशोत्तर शततमोऽध्यायः ॥११०॥