युधिष्ठिर उवाच ॥
अप्राप्ते न तथादुःखमैश्वर्यादौनरोत्तम । यथामनोरथैस्तैस्तैर्नानादुःखं भवेघृणाम् ॥१॥
यथा मनोरथैर्लब्धैर्न स्यादुःखभयं नृणाम् । ऐश्वर्याद्विच्युतोवापिसंततेर्देवलोकतः ॥२॥
अभीष्टादन्यतोवापि यदायेनविनिष्कृतिम् । प्रान्पोति पुरुषो वाथनारी वा पुण्यसंचयात् ॥३॥
तन्ममाचश्व भगवन्येन नाभ्येति विच्युतिम् । श्रीकृष्ण उवाच ॥ सत्यमेतन्महाभाग दुःखं प्रान्पोत्यसंशयः ॥४॥
ऐश्वर्यांदयचित्तस्य बंधुवर्गसुखस्य च । तदेतच्छुयतां पार्थ नेष्टात्परिच्युतिः ॥५॥
स्वर्गादेर्जायते सम्यगपवासवतां सताम् । द्वादशर्क्षाणि राजेंद्र प्रतिमासं तु यानि वै ॥६॥
तन्नान्मा चाच्युतं तेषु सभ्यक्संपूजयेन्नृप । पुष्पैर्घूपैस्तथांभोभिरभीष्टैरपरैरपि ॥७॥
आदितः कृत्तिकां कृत्वा कार्तिके नृपसत्तम । कृशरामव्र नैवेद्यै पूर्वं मासचतुष्टयम् ॥८॥
निवेदयेत्फाल्गुनादिसंयावं च ततःपरम् । आषाढा दिषु देवाय पायसं विनिवेदयेत् ॥९॥
तेनैवान्नेन राजेन्द्र ब्राह्मणान्भोजयेद्बुधः । पञ्चगव्यजलस्त्रानं तस्थैव प्राशनाच्छुचिः ॥१०॥
सभ्यक्संपूज्य राजेन्द्र ब्राह्मणान्भोजयेद्बुधः । पञ्चगव्यजलस्त्रानं तस्थैव प्राशनाच्छुचिः ॥१०॥
सभ्यक्संपूज्य राजेन्द्र तमेवपुरुषोत्तमम् । प्रणम्य प्रार्थयेद्विष्णं शुचिः स्त्रातो यथाविधि ॥११॥
नमो नमस्तोऽच्युत मे क्षयोस्तु पापस्य वृद्धिं समुषैतु पुण्वम् । ऐश्वर्यवित्तादि तथाऽक्षयं मे क्षयं च मा संततिरभ्युपैतु ॥१२॥
यथाच्युतस्त्वं परतः परस्मात्स ब्रह्मभूतः परतः परात्मा । तथाच्युतंमे कुरु वांछितं त्वं हरस्व पापं च तथाप्रमेय ॥१३॥
अच्युतानंत गोविन्द प्रसीद यदभीप्सितम् । तदक्षयममेयात्मन्कुरुष्व पुरुषोत्तम ॥१४॥
एवमेवं समभ्यर्च्य प्रार्थयित्वा तथा शिवम् । नैवेद्यं स्वयमश्नीयान्नक्तं संपूजितेच्युते ॥१५॥
ततः संवत्सरस्यांते सुखसुप्तोत्थितेऽच्युते । घृतपूर्णं ताम्रपाव्रं बाह्मणाय विवेदयेत् ॥१६॥
शक्तितो दक्षिणां दद्यादच्युतः प्रीयतामिति । ततस्तु सप्तमेव्रर्षे कुर्यादुद्यापनं बुधः ॥१७॥
कार्या चैवाच्युतस्यार्चा शक्त्या स्वर्णमयी नृप । तदग्रे ब्राह्मणी स्थाप्या स्थविरासाभरणा चह ॥१८॥
महासती रौप्यमयी समानाही सदेवता । ततस्तौ पूजयित्वा च माल्यवस्त्रविलेपनैः ॥१९॥
मंव्रेणानेन राजेन्द्र प्रणिपत्य विधानतः । प्रतिवर्षं च दत्तं चेत्ताम्रपाव्रं द्विजातये ॥२०॥
तदेकहेलया दद्यात्सहिरण्याश्वसंयुतम् । गाश्व प्रदद्यात्संपूज्य सवत्साः कांस्यदोहनाः ॥२१॥
एकां वा शक्तितो दद्याद्भक्त्या तुष्यति केशवः । घटाः सत्पाव्रनिर्दिष्टाः सान्नाः पूर्णजलोज्ज्चलाः ॥२२॥
छव्रोपानद्युगैः सार्धमेवं दत्वा विसर्जयेत् । शय्यां सतूलिकां दद्याद्गृहं चोपस्करैः सह ॥२३॥
श्रिया च सह विष्णुं च पूजयेद्भूषयेत्प्रभुम् । वस्त्रैराभरणैश्वैव प्रणिपत्य क्षमापयेत ॥२४॥
कृतेनानेन राजेन्द्र च्युतिं नान्पोति मानवः । संततेः स्वर्गवित्तादेरैश्वर्यस्य तथैव च ॥२५॥
यद्वाभिमतमन्यच्च ततो न च्यवते नरः । तस्मात्सर्वप्रयतेन मासनक्षव्रपूजनैः ॥२६॥
यजेताक्षयकामस्तु सदैव पुरुषोत्तमम् । श्रीकृष्ण उवाच ॥ अवाषि श्रूयते काचित्सिद्धा स्व्रर्गे महाव्रता ॥२७॥
नारीतपोधना भूत्वा प्रख्याता सांभरायणी । समस्तसंदेहहरा सदा स्वर्गौकसां हि सा ॥२८॥
कस्यचित्त्वथ कालस्य देवराजः शतक्रतुः । पूर्वेन्द्रचरितं राजन्पप्रच्छेदं बृहस्पतिम् ॥२९॥
पृर्वेन्द्रात्परतः पूर्वे ये बभूवः सुरेश्वराः । तेषां चरितमिच्छामि श्रोतुमंगिरसां वर ॥३०॥
एवमुक्तस्तदा तेन देवेन्द्रेणामलद्युतिः । प्राह धर्मभृतां श्रेष्ठः परमर्षिर्बृहस्पतिः ॥३१॥
नाहं चिरंतनान्वेद्मि देवराज सुरेश्वरान् । आत्मनः समकालीनमवेहि च सुरेश्वर ॥३२॥
प्रपच्छ देवेन्द्रः कोत्साभिर्मुनिपुंगवः । प्रष्टव्योऽव्र महाभाग कृतादिवसतिद्दिंवि ॥३३॥
बृहस्पतिश्विरं ध्यात्वा ततः प्राह शचीपतिम् । तपस्विनीं महाभागां पृच्छैतां सांभरायणीम् ॥३४॥
इत्युक्तस्तेनदेवेन्द्रःकौतुहलसमन्वितः । ययौ यव्र महाभागा सभ्यगास्ते तपास्विनी ॥३५॥
सा तौ द्दष्टवा समायांतौ देवराजबृहस्पती । सम्यगर्घ्येण संपूज्य प्रणिपत्याह सुव्रता ॥३६॥
नमोऽस्तुदेवराजायतथैवाङ्गिरसे नमः । यद्वां कार्यं महाभागी सकलं तदिहोच्यताम् ॥३७॥
यदि कर्तृं मया शक्यं तत्करिष्ये विमृष्य च । बृह्स्पतिरूवाच ॥ आवागभ्यागतौ प्रष्टुं त्वामत्रातिविवेकिनीम् ॥३८॥
यच्च कार्यं महाभागे पृष्टं तत्कथयस्व नः । यदि स्मरसि कल्याणि पूर्वेन्द्रचरितानि वै ॥३९॥
तदाख्याहि महाभागे देवेन्द्रस्य कुतूहलम् । सांभारायण्युवाच ॥ यो वै पूर्व सुरेंन्द्रस्य ततश्व प्रथमो हि यः ॥४०॥
तमात्पूर्वतरोयश्वतस्यापिप्रथमश्वयः । तेषां पूर्वतरा ये च वेद्मि तानखिलानहम् ॥४१॥
तेषां च चरितं कृत्स्त्रं जानाभ्यंगिरसां वर । मन्वंतराण्यनेकानि सृष्टश्वि त्रिदिवौकसाम् ॥४२॥
यथावदाचष्टतयोः पूर्वेन्द्रचरितं महत् । स्वायंभुवे यस्तु मनौ मनौ स्वारोचिषे च यः ॥४४॥
तदा जगाद चरितं यथावत्सांभरायणी । कथयामास चाश्वर्य तच्चापि कथयामि ते ॥४६॥
शंकुकर्णस्तदा दैत्यो बभूवात्यंतदुर्जयः । सलोकपालान्समरे विजित्य सह दैवतैः ॥४७॥
इंद्रस्यासाद्य भवनं प्रविवेश सुनिर्भयः । तं दृष्टा सहसा प्राप्तं शक्रः शज्यातलेऽलुठत् ॥४८॥
जुगोप सहसात्मानं शंकुकर्णभयार्दितः । दानवः शक्रशयने तस्मिन्नुपविवेश ह ॥४९॥
इन्द्राण्यपि तथा भीता गता वाचस्पतेर्गृहस् । अथ देवाः समाजग्मुर्भयाद्द्रष्टुं सुराद्विषम् ॥५०॥
आसीनं शक्रशयने प्रणिपातपुरस्सराः ॥ वासुदेवोऽपि तत्रागात्तं द्र्ष्टुं एवकंटकस् ॥५१॥
दृष्टाव कृष्णमनुप्राप्तं दानवः प्राह हर्षितः । धन्योऽहं कृतकृत्योऽहं यस्य मे गरुडध्वजः ॥५२॥
शक्रशय्यासनस्थस्य द्रष्टमभ्येति केशवः । ततः करे समालंव्य शयनाभ्याशमानयत् ॥५३॥
चकार कंठग्रहण बांधवस्येव हर्षितः । ततः कृष्णस्तु सहसा गृह्य दोर्भ्या शनैः ॥५४॥
पडियामास विहसन्नदंतं भैरवान्रवान् । ममार दानवेन्द्रोऽसौ बलाद्भग्नास्थिपञ्जरः ॥५५॥
निर्जगाम ततः शकः शय्यामूलामूलादवाक्छिराः । तुष्टाव हरिमासीनं शंखचक्रऋणदाधरम् ॥५६॥
एतद्दृष्टं मया शक्र वसंत्यासुरसद्मनि । ततः कुतूहलपरो देवराट् तां तपस्विनीम् ॥५७॥
उवाच जानासि कथं त्वमेतान्सांभरायणि । सांभरायण्युउवाच ॥ सर्व एव हि देवेन्द्राः । स्वर्गस्था येऽमरेश्वराः ॥५८॥
वभूदुरेतेचरितमेतेषांवेद्मितेनवै । चरितं च मया तेषां श्रुतं दृष्ठं तथैव च ॥५९॥
इन्द्र उवाच ॥ किं कृतं वद धर्मज्ञे त्वया येनेयमक्षया । स्वर्लोके वससतिः प्राप्ता यथानान्येन केनचित् ॥६०॥
अहो सर्वव्रतानां तु ह्युपोषितमथाद्भुतम् । प्रधानतरमत्यंतं स्वर्गवासप्रदं मतम् ॥६१॥
एवमुक्ताततस्तेन देवेन्द्रेण तपस्विनी । प्रयुवाच महाभाग यथावत्सांभरायणी ॥६२॥
मासर्क्षे ह्याच्युतोः देवः प्रतिमासं सुरेश्वर । यथोक्तव्रतया सम्यक्सप्तवर्षाणि पूजितः ॥६३॥
तस्येयं कर्मणो व्युष्टिरच्युताराधनस्य मे ॥६४॥
स्वर्गेन्द्रविभवैश्वर्य संततिर्याति चाच्युतिम् । नरो वाञ्छति तेनेत्थं तोषणीयस्ततः प्रभुः ॥६५॥
एतत्ते पूवदेवेन्द्रचरितं । धर्माथकाममोक्षाश्व वाञ्छिता विबुधाधिप ॥६७॥
विष्णोराराधनादन्यन्परमं सिद्धिकारणम् । तस्यास्तद्वचनं श्रुत्वा देवराजबृहस्पती ॥६८॥
तत्तथेत्यूचतुः सार्ध्वी चेरतुश्वापि तद्व्रतम् । तस्मात्पार्थ प्रयत्नेन प्रतिमासं समाहितः ॥६९॥
मासर्क्षाच्युतपूजायां भवेथास्तन्मनाः सदा ॥७०॥
ये सांभयणिकथाचरितव्रेतास्मिन्वर्षाणि सप्त विधिना सुधियो नयंन्ति । ते स्वर्गलोकसभिगम्य कृताधिवासाः कल्पायुतायुतशतैरपि न च्यबंते ॥७१॥ { ४६०९ }
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे सांभरायणीव्रतवर्णनं नाम सप्ताधिकशततमोध्यायः ॥१०७॥