श्रीकृष्ण उवाच ॥
पूर्णमासी महाराजसोम्यस्य दयिता तिथिः । पूर्णमासो भवेद्यस्यां पौर्णमासी ततः स्मृता ॥१॥
पौर्णमास्याम च संजातः संग्रामो जयलक्षणः । सोमस्यारिबुधैः सार्द्धं सर्वसत्वभयंकरम् ॥२॥
तारायां चन्द्रमाः सक्तस्तस्या भर्ता बृहस्पतिः । तयोरभून्महायुद्धं भार्याकृत्येषु ते पुरा ॥३॥
युधिष्ठिर उवाच ॥ तारा कस्य सुता कस्मात्स क्रुद्धः ससुररिहा । सोमेन सह संग्रामं चक्रे चक्रे चक्रगदाधर ॥४॥
धीरकृष्ण उवाच । प्रजापतेरभूत्कन्या तारा वृव्रस्य चानुजा । तां बृहस्पतये प्रादात्पृथिव्यामेकसुंदरीम् ॥५॥
देवाचायीय सा भार्या त्वनिर्देश्य तथाविधा । रूपेणातो रूपवती सेत्यवदज्जनः वस्थिता ॥६॥
बृहस्पतिं पर्यचरद्यथा चान्याः स्त्रियः क्वचित् । तां ददर्शायतापांगीं तन्वंर्गी चारुहासिनीम् ॥७॥
शीतांशुर्दर्शनादेव कामस्य वशमीयिवान् । आबभाषे च मधुरं तो एह्येहि मा चिरम् ॥८॥
इंगिताकारकुशला तारा सोमस्य चेष्टितम् । बुध्द्वा शुद्धधिया तन्वीप्राहेदंमधुराक्षरम् ॥९॥
मुनेरंगिरसःपुव्रस्त्वं च सोभ्योऽसि सोमराट् । अंगिरसो मुनेर्वीर स्नुषाहमुचितं न ते ॥१०॥
सह सौभ्येन यो योगस्तुव सिद्धोऽद्धुतो महान् । अंगिरास्त्वां किल पुरा ससुरासुरराक्षसैः ॥११॥
राजत्वे स्थापयामास नैतत्स्मरसि किं विधो । कथमद्य निशानाथ ह्यनंगेनासि पोडितः ॥१२॥
तस्माद्ववीमि ते चंद्र कामोऽयं शिथिलीकुरु । परवत्यस्मि भद्रं ते न गम्यास्मिबुधोत्तम ॥१३॥
एवमुक्तस्तथा चासौ न चैतत्कृतवांस्ततः। गृहीत्वा कर्षयासास सोमोऽनंगवशीकृतः ॥१४॥
बृहस्पतिस्तु तां ज्ञात्वा स तं सोममगर्हयत् । प्रेषयिष्यति मे भार्यां स्वयमेव ममांतिकम् ॥१५॥
एवं चिरेण विज्ञाय बृहस्पतिरुदरधीः । नाससाद स्वकां भार्यां रोषात्प्रस्फुरिताधरः ॥१६॥
आचख्यौ सर्वमिन्द्राय सोमस्येदं विचेष्ठितम् । इंद्रः समाह्रयामास देवानृषिगणांस्तथा ॥१७॥
न सोमो गणयामास ततोऽबुध्यत देवराट् । आकार्यव्रिदशान्सर्वानाचख्यौ चन्द्रचेष्टितम् ॥१८॥
तच्छुत्वा देवगंधर्वाः कोढान्धाः क्षुब्धमानसाः । प्रगृहीत प्रहरणा स्थानारुरुहुः स्वकान् ॥१९॥
सोमोऽपि देवान्सद्योघाञ्ज्ञात्वा सुकूतनिश्वयान् । दैत्यदानवरक्षांसि समानीय व्यवस्थितः ॥२०॥
आरुह्य च रथश्रेष्ठं युद्धायैव मनोदधे । प्रवृत्तं सुमहद्युद्धं शरतोमरकंपनैः ॥२१॥
कौणपैः क्ष्मासुरैः शूलैर्देवदानवदारूनम् । स तेषां सुमहद्युद्धं दत्वा तागगणाधिपः ॥२२॥
बभंज देवान्सेन्द्रांश्व हिमवृष्टन्या क्षपाकरः । स जित्वा देवगन्धर्वान्सोमो राजन्यसत्तम ॥२३॥
श्रिया परमया युक्तो यथानान्योहविर्भुजाम् । देवाश्व निजिंतास्तेन सोमेनामिततेजसा ॥२४॥
आजग्मुः शरणं देव शरण्ये स्वर्गवासिनाम् । इन्द्रः सर्वं समाचरूयौ सोमस्येद्दग्विचेष्टितम् ॥२५॥
श्रुत्वा कुद्धो ह्रषीकेश आरुह्य गरुडं रुषा । गृहीत्वा चायुधं श्रेष्ठं युद्धायैव मनोदधे ॥२६॥
प्रकर्तुं सुमहयुद्धं चक्रशांर्गगदाधरः । जगाम विबुधैः सार्धं सोमस्योपरिरोषितः ॥२७॥
विष्णुं विदित्वा संप्राप्तं सोमो दैत्यगणैः सह । युद्धाय समरामर्षी स्थितः प्रध्माप्य वारिजम् ॥२८॥
सजित्वा देवसंघातं सेन्द्रंवायुपुरस्सरम् । विष्णुनासहसंयुक्तः शस्त्रास्त्रे रसुभोजनैः ॥२९॥
यदा नासावुपरमेद्युद्धाय सह विष्णुना । तदाऽऽददे रुषा विष्णुश्वकं कोधसमन्वितः ॥३०॥
अथाह ब्रह्मा देवेशमजितं विष्णुमव्यम् । योऽसौ मेघप्रपुष्टांगं यत्वाम वच्मि निबोध तत् ॥३१॥
नास्त्यवध्यस्त्रिभुवने चक्रस्यस्य तवा नघ । सोमो द्विजाधिपत्ये च मया समभिषेचितः ॥३२॥
तस्माद्यद्युज्यते देव कर्थिऽस्मिंस्तद्विधीयताम् । अथाह भगवान विष्णुःसुरब्रह्मर्षिसन्निधौ ॥३३॥
सिनीवालीकुहू नाम तस्यां नष्टः क्षपाकरः । विनष्टोऽपि पुनर्जन्म प्राप्स्यतीति न संशयः ॥३४॥
राकां चानुमतीं प्राप्य वृद्धिरस्य भविष्यति । आप्यायितश्व श्रुत्युक्तैः पितृ पिण्डैः समंव्रकैः ॥३५॥
ब्राह्मणैर्हव्यकव्यानि देवेभ्यः प्रापयिष्यति । वृद्धिः कृद्धिः कृष्णे न चैवास्य व च जातस्य भूयसी ॥३६॥
एवमेवविधिर्दृष्टस्तस्याप्यायनमेब च । अमोघस्य न मोघत्वं भविष्यति कदाचन ॥३७॥
शप्तश्व सोमो दक्षेण स चावश्यं भविष्यति । सुदर्शनस्य च प्रीतिरेवमेव भविष्यति ॥३८॥
एवमस्त्विति देवेश यद्भवान्प्रब्रवीषि वै । ब्रह्मा प्रावाच सोम तु विनीतवदुपस्थितम् ॥३९॥
अर्पयस्य गुरोर्भार्यां न कार्यं पुनरीद्दश्यम् । स तथोक्तः समानीय ददौ तारां बृहस्पतेः ॥४०॥
पुनरूचे शशी स्पष्टं श्रृण्वतां व्रिदिवौकसाम् । अस्यां गर्भो मदीयोऽयं यदपत्यम ममैव तत् ॥४१॥
बृहस्पतिरथोवाच मयि गर्भः समाहितः । क्षेव्रे मदीये चोत्पन्नस्तस्मात्स मम पुव्रकः ॥४२॥
उक्तं च वेदशास्त्रज्ञिऋषिभिर्द्भर्मदर्शिभिः । उभं वाताह्रतं बीजं यस्य क्षेव्रे प्ररोहति ॥४३॥
क्षेव्रिणस्तस्य तद्वीजं न बीजी फलभाग्भवेत् । सम्यगुक्तं न भषता शशांकः प्राह तत्ववित् ॥४४॥
माता भस्त्रा पितुः पुव्रौ येन जातः स एव सः । इति पौराणिकाः प्राहुर्मुनयो नयचक्षुषः ॥४५॥
विवदंतौ निवार्याथ ब्रह्या प्रोवाच तां वधूम् । शनैरेकांतमानीय गर्भोऽयं कस्य शस मे ॥४६॥
एतदुक्तवती तारा र्हिया नोबाच किचन । उत्ससर्ज क्षणाद्नर्भं भाभासितसुरालयं ॥४७॥
तमुवाच ततो ब्रह्मा पुव्र कम्य सुतो भवान् । सोमस्याहं मुतो ब्रह्मन्निति तथ्ये मयोदितम् ॥४८॥
बुधोऽयै विबुधाः प्राहुः सर्वज्ञानविदां वरः । गृहीवा पुव्रकं सोमो जगाम स्वं निवेशनम् ॥४९॥
गुरुर्गृहीत्वा स्वां भार्यां जगाम भवनं शनैः । सोमोऽपि तनयं लब्ध्वा हर्षव्याकुलमानसः ॥५०॥
पौर्णमासी समाख्याता प्राप्तपूर्णमनोरथा । प्राप्तः पुव्रो मया ह्यस्यां लब्धश्व विजयस्तथा ॥५१॥
तस्मादेनामुपासिष्ये विधिना ब्रततत्परः । एवमन्योऽपि पूर्णार्थः पूर्णांशः पूर्णलक्षणः ॥५२॥
यो मामक्यां तिथौ भक्या विधित्पूजयिष्यति । तस्य प्रसादाभिमुखः सर्वकामप्रदो ह्यहम् ॥५३॥
एवमेषा तिथिः पार्थ सोमस्य दयिता शुभा । पौर्णमासी समाख्याता पूर्णो मासो भवेद्यथो ॥५४॥
तदस्यां स्त्रोतसि स्त्रात्वा संतप्यं पितृदेवताः । आलिख्य मंडले सीमं नक्षव्रैः सहितं विभुम् ॥५५॥
पूजयेत्कुसुमैर्ह्रद्यैनैंवद्यैर्घृतपाचितैः । शुक्लाक्षतिः शुकृवस्त्रैः पूजयित्वा क्षमापयेत् ॥५६॥
शाकाहरणमुन्यन्नैर्नकं भुञ्जीत वाग्यतः वसंतबांधव विधो शीतांशी स्वस्तिनः कुरु ॥५७॥
गगनार्णवमाणिक्य चन्द्र दाक्षायणीपतै । मासे मासे पौर्णंमास्यां बिधिरेष प्रकीर्तितः ॥५८॥
कृष्णपक्षेऽपि यः कश्विच्छ्र्द्धावान्वै व्रती भवेत् । तस्याप्येष विधिः प्रोक्तः सर्चसौख्यप्रदायकः ॥५९॥
अमावास्या तिथिरियं पितृणां दयिता सदा । अस्यां दत्तं तपस्तप्तं पितृणामक्षयं भवेत् ॥६०॥
अमावास्या महाराज प्रयत्नैर्यैरुपोषिता । तैरक्षय्यं भवेद्दत्तं पितृभ्यातीर्थमुत्तमम् ॥६१॥
यः कश्वित्कुरुते तस्मिन्पितृपिण्डोदकक्रियाम् । स तारयति पुण्यात्मा पुरुषानेकविंशातिम् ॥६२॥
भवेयुरक्षयास्तस्प लोकाः पितृनिषोविताः । यदा तु इह कालांते तस्याव्रागमनं भवेत् ॥६३॥
ब्राह्मणः पितृभक्तश्व सर्वविद्याविशारदः । एवं जन्मनि राजेन्द्र भवेद्धनसभान्वतः ॥६४॥
एवं संवत्सरस्यांते हैमं कृत्वा सुशोभनम् । सोमं नक्षव्रसहितं विप्राय प्रतिपादयेत् ॥६५॥
उपदेशं प्रयच्छेद्यस्तस्मै व्रतकृते नरः। संपूज्य वस्त्राभरणैर्मंव्रेणेत्थं निवेदयेत् ॥६६॥
मासे मासे विधिरयं व्रतस्यास्य नराधिप । योन शक्रोति वा कर्तुं पक्षं वाथ निरंतरम् ॥६७॥
स एकामप्यपोष्यैव कृत्वा ह्युद्यायनं सुधीः । यश्वैतत्कुरुते पार्थ पौर्णमासीव्रतं नरः ॥६८॥
सर्वपापविनिर्मुक्तश्वन्द्रवद्दिवि राजते । पुव्रपौव्रधनोपेतो यज्वा दाता प्रियंवदः ॥६९॥
संततिं विपुलां प्राप्य प्रयागे मरणं भवेत् । ततश्वैवाक्षयाँल्लोकान्प्रान्पोति सुरसेव्रितान् ॥७०॥
सेव्यमानः स गन्धर्वैः स्तूयमानः सुरासुरैः । आस्ते संपूर्णसर्वांगो यावक्तल्पायुतव्रयम् ॥७१॥
अभ्यर्चयन्ति सितपञ्चदशीषु सोमं कृष्णासु य पितृगणं जलपिंडदानैः । तेषां गृहाणि धनधान्यसुतादिसंपत्पूर्णानि पार्थिव्र भवन्ति विधोर्विधानात् ॥७२॥ [ ४२०८ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विजयपौर्णमासीव्रतवर्णनं नाम नवनवतितमोऽध्यायः॥९९॥