श्रीकृष्ण उवाच ॥
पार्थ भाद्रपदे मासि शुक्लपक्षे दिनोदये । तृतीयायां चतुर्थ्यां च शुद्धायां प्रतिवत्सरम् ॥१॥
उपवासेन गृह्रीयाद्व्रतं नान्मा तु गोपदम् । स्त्रात्वा नरो वा नारी वा पुष्पधूपविलेपनैः ॥२॥
दध्यक्षतैश्व मालाभिः पिष्टकैर्वनमालया । अभ्यञ्जयेद्नवां शूङ्रं खुरं पुच्छान्तमेव च ॥३॥
दद्याद्नवाह्रिकं भक्त्या तासां पूर्वापराह्रयोः । अनग्निपाकं भुञ्जीयात्तैलक्षारविवर्जितम् ॥४॥
व्रजन्तीनां गवां नित्यमायान्तीनां च भारत । पुरद्वारेऽथवा गोष्टे मन्व्रेणानेन मन्व्रेवित् ॥५॥
अर्धं प्रदद्याद्गृष्टन्यां वा गवां पादेषु पाण्डव ॥६॥
माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः । एवं या अदितिः सर्वमाता तस्यै नमोस्तु सहस्त्रशो मे ॥७॥
गवां मन्व्रः ॥ गावो मे अग्रतः सन्तु गावो मे सन्तु पृष्ठतः । गावो मे ह्रदये सन्तु गवां मध्ये वसाम्यहम् ॥८॥
इत्थं संपूज्य दत्त्वार्धं ततो गच्छेद्गृहाश्रमम् । पञ्चम्यां क्रोधरहितो भुञ्जीयाद्नोरसं दधि ॥९॥
शालिपिष्टं फलं शाकं तिलमन्नं च शोभनम् । भुक्तावसाने राजेन्द्र संयतस्तां निशां स्वपेत् ॥१०॥
प्रभाते गोपदं द्त्त्वा ब्राह्मणाय हिरण्मयम् । क्षमापयेद्नवां नाथं गोविन्दं गरुडध्वजम् ॥११॥
अर्च्यस्तेऽव यथा गावस्तथा गोवर्धनो गिरिः। प्रणम्याच्युतमुद्दिश्य शृणु यत्फलमान्पोयात् ॥१२॥
गोभको गोव्रतं कृत्वा भक्त्या शक्त्या च गोष्पदम् । सौभाग्यं रूपलावण्यं प्रान्पोति पृथिवीतले ॥१३॥
गोतर्णकाकुलं गेहं गोकुलं च समासतः। धनधान्यसमापेतशालीक्षुरसवृद्धिमान् ॥१४॥
सन्तानपुजितं लब्ध्वा ततः स्वर्गेऽमरो भवेत् । दिव्यरूपधरः स्त्रग्वी दिव्यालङ्कारभूषितः ॥१५॥
गन्धर्वैर्गीतवाद्येन सेव्यमानोऽप्सरोगणैः । दिव्यं युगशतं स्थित्वा ततो विष्णुपुरं व्रजेत् ॥१६॥
यो गोपदव्रतमिदं कुरुते व्रिराव्रं गाश्व प्रपूजयति गोरसपूजनाच्च । गोविन्दमादिपुरुषं प्रणतः सविव्रा मालोकमुत्तममुपैति गवां पविव्रम् ॥१७॥ [ १०१४ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्नयुधिष्टिरसंवादे तृतीयाव्रते गोष्यदतृतीयाव्रतं नामैकोनविंशोऽध्यायः ॥१९॥