श्रीकृष्ण उवाच ॥
अथातः संप्रवक्ष्यामि दानमन्यत्सुदुर्लभम् । रत्नधेन्विति विख्यातं गोलोकफलदं नृणाम् ॥१॥
पुण्यं दिनमथासाद्य गोमयेनोपलेनपनम् । कृत्वा भूमौ महाराज तत्र धेनुं प्रकल्पयेत् ॥२॥
धेनुं रत्नमयीं कुर्यात्तत्तसंकल्प्यपूर्वकम् । स्थापयेत्पद्मरागाणामेकाशीतिं मुखे बुधः ॥३॥
पुष्परागशतं धेनोः पादयोः परिकल्पयेत् । ललाटे होमतिलकं मुक्ताफलशतं दृशोः ॥४॥
भ्रृयुगे विद्रुमरातं शुक्ती कर्णद्वये स्मृते । काञ्चनानि च शृङ्गाणि शिरो वर्जशतात्मकम् ॥५॥
ग्रीवायां नेत्रपुटके गोमेदकशतं तथा । इन्द्रनीलशतं पृष्ठे वैडूर्यशतं पार्श्वके ॥६॥
स्फाटिकैरुदरं कार्य सौगन्धिकशतं कार्य सौगन्धिकशतं कटौ । खुरा हिममयाः कार्याः पुच्छ मुक्तावलीमयम् ॥७॥
सूर्यकान्तेन्दुकान्तौ च घ्राणेकर्पूरचन्दनैः । कुंकुमेन च रोमाणि रौप्यनाभिम च कारयेत् ॥८॥
गारुत्मतशतं तद्वदपाने परिकल्पयेत् । तथान्यानि च रत्नानि स्थापयेत्सर्वसंधिषु ॥९॥
कुर्याच्छर्करया जिह्रां गोमयं च गुडात्मकम् । गोमूत्रमाज्येन तथादधिग्धं स्वरुपतः ॥१०॥
पुच्छाग्रे दद्यात्स्तनयोस्ताम्रदोहनम् । कारयेदेवमेवं तु चतुर्थाशेन वत्सकम् ॥११॥
नानाफलांनि पार्श्वेषु कृत्वा पूजां प्रयत्नतः । गुडधेनुवदावाह्य इदं चोदाहरेत्ततः ॥१२॥
त्वां सर्वदेवगणवासमितिस्तुवंति रुद्रेन्द्रचन्द्रकमलासनवासुदेवाः । तस्मात्समरतभुवनत्रयदेहयुक्ता मां पाहि देवि भगसागरमज्जमानम् ॥१३॥
एवमामन्त्र्य तां धेनुं विप्राय पतिपादयेत् । संपूज्य वस्त्राभरणैर्विधिज्ञं वेदपारगम् ॥१४॥
ततश्व दक्षिणां दत्वा प्रणिपत्य क्षमापयेत् । एवं यः कुरुते पार्थ तस्य पुण्यफलं श्रृणु ॥१५॥
कल्पकोटिशतं साग्रं शिवलोके सुखं वसेत् । ततःकाले बहुतिथे राजराजो भवेदिह ॥१६॥
सर्वकामसमृद्धश्व शत्रुपक्षक्षयंकरः ॥१७॥
इति सकलविधिज्ञो रत्नधेनुप्रदानं वितरति स विमानं प्राप्य देदीप्यमानम् । सकलाकलुशमक्तो बंधुभिः पुत्रपौत्रेः सह मदनसरुचः स्थानमथ्येति शंभोः ॥१८॥ [ ६९२७ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रत्नधेनुदानव्रतिविधिवर्णनंनाम सप्तपंचा शदुत्तरशततमोऽध्यायः ॥१५७॥