युधिष्ठिर उवाच ॥
मेघपालीव्रतं कृष्ण कादाचित्क्रियते नृभिः । किं पुण्यं किमनुष्ठानं कीद्दग्वल्ली स्मृता तु सा ॥१॥
श्रीकृष्ण उवाच ॥ अश्वयुक्कृष्णपक्षे तु तृतीयायां युधिष्ठिर । मेघवाल्यै प्रदातव्यो भक्त्या स्त्रीभिर्नृभिस्तथा ॥२॥
अर्धो विरुढैर्गोधूमैः सप्तधान्यसमन्वितैः । निळतण्डुलपिण्डैर्वा दातव्यो धर्मलिप्प्तुभिः ॥३॥
ताम्बूलसद्दशैः पर्वै रक्ता वल्ली समञ्जरी वाटीषु ग्राममागेंषु प्रोत्थिता पवेतडीप च ॥४॥
मेधपाल्या धान्यतैलगुडकुङकुङ्कुमहैमनान् । पदान्यपि च कुर्वन्ति जगा वाणिज्यजीवनाः ॥५॥
पापं सत्यानृतं कृत्वा द्र्च्यलुव्र्या फलान्विताः। अर्धं दत्त्वा मे्धपाल्यै नाशयन्ति क्षणादिह ॥६॥
मानोन्मानैर्जन्ममध्ये यात्पापं कुव्रचित्कृतम् ।तत्सर्वं नाशमायाति व्रतंनानेन पाण्डव ॥७॥
मेधपाली शुभे स्थाने शुभे देशे समुत्थिता । पूजनीया वरखीभिः फलैः पुष्पैस्तथाक्षतैः ॥८॥
खर्जूरैर्नालिकेरैश्व दाडिमैः करवारकैः गधधूपैर्दाधिदीपैर्विरूढैर्धान्यसचयैः ॥९॥
रक्तवस्त्रैः समाच्छाद्य पिष्टातकविभूषिताम् । कृत्वार्घः संप्रदातव्यो मन्व्रेणानेन भारत ॥१०॥
वेदीक्तेन द्विजो विद्वांस्तच्च तस्तै निवेदयेत् । इत्येवं पूजयित्वा तां मेघपालीं पुमान्स्थितः ॥११॥
नारी वा पुरुषव्याघ्र प्रान्पोति परमां श्रियम् । स्थित्वा वर्षशतं मर्त्ये सुखसौभाघ्यवर्तिते ॥१२॥
विष्णुलोकमवान्पोति देहान्ते पानसंस्थितः । कूलानि सप्त नयति स्वर्गं स्वानि रसातलात् ॥१३॥
उद्धृत्य नाव संदेहस्त्वया कायों युधिष्ठिर ॥१४॥
नरकभीरुतया ददाति योऽर्धं फलाद्यनुयुत ननु मेधपालेः । उन्मानकूटकपटानि कृतानि यानि पापानि हन्ति सवितेव तमःप्ररोहान् ॥१५॥ [ ९५९ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मेधपालीतृतीयाव्रतवर्णनं नाम सप्तदशोऽध्यायः ॥१७॥