श्रीकृष्ण उवाच ॥
पूर्वमासीत्कृतयुगे क्षव्रिणो बहुपुव्रिणी । नान्मा कलिंगभद्रेति रूपलावण्यसंयुता ॥१॥
तुंगस्तनी पद्मनेव्रा हंसनागेन्द्रगामिनी । सौभाग्यगुणसंपूर्णा चंद्रबिबनिभानना ॥२॥
धनरनैश्व संपूर्णा मध्यदेशे वृषस्थले । राज्ञः पत्नी तु सा देवी दिलीपस्य महात्मनः ॥३॥
कलिङ्गभद्रा ललिता महादेवी गुणान्विता । महाप्रसादं मन्वाना बहुमानपुरस्सरम् ॥४॥
ब्राह्मणेभ्यश्व दानानि प्रयच्छति महासती । त्यागसंभोगसौभाग्ये द्वितीया या तु ताद्दशी ॥५॥
नारीणां तु नरश्रेष्ठ दिलीपस्य यथाविधा । यथा च कार्तिके मासि गृहीतं क्षस्त्रिकाव्रतम् ॥६॥
षण्मासेन व्रतं यवदिदं संचिंत्य चेतसि । पारितंच तया सर्वं किंचिन्माव्रंनवर्तते ॥७॥
पारणे पारणे वापि पुराणज्ञे द्विजोत्तमे । उद्यापनं प्रयच्छंती कालं नयति सुन्दरी ॥८॥
कदाचिदर्धराव्रे तु सुप्ता भर्व्रा सहैव सा । दष्टा सर्पेण रौद्रेण जगाम निधनं क्षणात् ॥९॥
तेन दोषेण सा बाला अजायोनौ ह्यजायत । वनेचरी धर्मपरा पूर्वजाति स्मरा द्दढा ॥१०॥
पूर्वाभ्यासेन तेनैव गृहीतं कृत्तिकाव्रतम् । व्यस्ता यूथपरिभ्रष्टा उपवासपरिस्थिता ॥११॥
परक्षेव्रे न गच्छंती अजा सस्यावमर्द्दनी । कार्तिक्यां गलके बधद्वा ग्रामकेण चिरागता ॥१२॥
द्दष्टाव्रिणा महाभागा पूर्वजातिस्मरेण सा । द्दष्ट्वा बद्धां च तां साध्वीं व्रतस्थां तेन साधुना ॥१३॥
मोक्षिता बदरीवद्धां । चरंती कृत्तिकाव्रतम् । गोपालबंधनान्मुक्ता अनिर्वेदपरा तु सा ॥१४॥
संप्राश्य बदरीपव्रं पीत्वा पुष्करिणीपयः । ममेत्युक्त्वाह्म संभ्रांता पारयामास तदव्रतम् ॥१५॥
तस्यै योगं ततो दत्वा । जगामास्त्रिस्तपोवनम् । सापि योगेश्वरी भूत्वा निंदित्वा जन्म चात्मनः ॥१६॥
तत्याज योगात्स्वान्प्राणान्प्रस्थिता गौतमस्य हि । ऋषेर्बभूव दुहिता ह्यहल्यागर्भसुन्दरी ॥१७॥
योगळक्ष्माति नान्मा साः कन्यागुणगणैर्युता । विद्येवदत्ता सा पिव्रा शांडिल्याय महार्षये ॥१८॥
तपोधनाय दांताय नित्यं सहचरी बभौ । ब्राह्मलक्ष्म्या दीप्यमाना साक्षाद्वेदस्मृतिर्यथा ॥१९॥
सरस्वती च स्वाहा च शशी चारुन्धती यथा । गौरी राज्ञी तथा लक्ष्मीर्गायस्त्रीचोत्तमा सती ॥२०॥
महालक्ष्मीस्तथा राजञ्छाण्डिल्यस्य गृहे बभौ । पितृदेवमनुष्याणां नित्यं शुश्रूषणे रता ॥२१॥
अथ तेनाव्रिणा द्दष्टार्पुनर्गर्भबती गृहे । भक्त्या भिक्षां प्रयच्छंती ब्राह्मणानामनिंदिता ॥२२॥
योगादिदित्वातामूचे भगवान्पूर्ववच्छानैः । योगलक्ष्मि महाभागे वर्तंते कति कृत्तिकाः ॥२३॥
सापि जातिस्मरा प्राह भगवंतं महासती । षङवर्तंते महायोगिन्नेका परवशे स्थिता ॥२४॥
तच्छुत्वास्यै भगवता सकारूण्येन चेतसा । दत्तं व्रतं तथा मंव्रो येन स्वर्गं जगाम सा ॥२५॥
इह भुक्त्वा चिरं भोगान्पुव्रपौव्रश्रियावृता । ततः सातत्पदं प्राप्ता पुनरावृत्तिदुर्ल्लमम् ॥२६॥
युधिष्टिर उवाच ॥ कीद्दशं तद्व्रतं कृष्ण मंव्रश्वापि जनार्दन । विधानं कृत्तिकानां च तं च कालं वदस्व मे ॥२७॥
श्रीकृष्ण उवाच । कृत्तिकासु स्वयं सोमः कृत्तिकासु बृहस्पतिः । यदास्यात्सोमवारेण सा म्हाकार्तिकी स्मृता ॥२८॥
ईद्दशी बहुभिर्वर्षैर्बहुपुण्यैश्व लभ्यते । तथा सा न वृथा नेया यदीच्छेच्छ्रेय आत्मनः ॥२९॥
अन्यापि कार्तिकी पार्थ समुपोष्या विधानतः । तस्या विधानं राजेन्द्र श्रृणुष्वैकमता भव ॥३०॥
कार्तिके शुक्लपक्षस्य पूर्णमास्यां दिनोदये । नक्ताय नियमं कुर्याद्दंतधावनपूर्वकम् ॥३१॥
उपवासस्य वा शक्त्या ततः स्त्रात्वा जलाशये । कुरुक्षेव्रे प्रयागे वा पुष्करे नैमिषे तथा ॥३२॥
शालग्रामे कुशावर्ते मूलस्थाने सकुंतले । गोकर्णे वार्बुदे पुण्येऽथवाप्यमरकंटके ॥३३॥
पुरे वा नगरे वापि ग्रासे घोषेऽथ पत्तने । यव्र वा तव्र वा स्नायान्नरो योषिदथापि वा ॥३४॥
देवर्षिपितृपूजां च कृत्वा होमं युधिष्ठिर । ततोऽस्तसमये प्राप्ते पाव्रं गव्यस्य सर्पिषः ॥३५॥
क्षीरस्व वा सुसंपूर्णं कृत्वा गुडफलान्वितम् । षट्प्रमाणं यथा व्योम्नि कृतिकाशकटं न्यसेत् ॥३६॥
षट्कृत्तिकानां बिंबानि स्वर्णरौप्यमयानि च । रत्नगर्भाणि कुर्याच्च स्वशक्त्या पाण्डुनंदन ॥३७॥
प्रथमा स्वर्णनिष्पन्ना द्वितीया रौप्यकीकृता । तृतीया रत्नघटिता चतुर्थी नवनीतजा ॥३८॥
पञ्चमी कणिका न्यूना षष्ठी पिष्टमयी कृता । षट् कृत्तिकाः कृतबिंबाः कृत्वालक्तकसूव्रकाः ॥३९॥
रत्नगर्भाः कुंकुमाक्ताः पृष्ठतः स्तबकान्विताः। सिंदूरचन्दनाभ्यक्ता जातीपुष्पै सुपूजिताः ॥४०॥
मंबेणानेन राजेंद्र द्वियाय प्रतिपादयेत् ॥४१॥
" ॐ सप्तर्षीदारा ह्यनलस्य वल्लभा याब्रह्मणरक्षिताः संप्रसन्नः । तुष्टाः कुमारस्य यथार्थ मातरो ममापि सुप्रीततरा भवन्तु स्वाहा " ॥४२॥
एवमुच्चर्य विप्राय प्रदेयाः कृत्तिका नृप । ब्राह्मणोपि प्रतीच्छेत मंव्रेणानेन पांडव ॥४३॥
धर्मदाः कामदास्तातु इमा नक्षव्रमातरः । कृत्तिका दुर्गसंसारात्तारयंत्वावयोः कुलम् ॥४४॥
अनेन विधिना दत्वा द्दष्टवा चैवांबरे स्थिताः । विसर्ज्य ब्राह्मणान्भक्त्या चानुव्रज्य पदानि षट् ॥४५॥
निर्वर्त्य च कथार्थं तु शृणुयात्फलमान्पुयात् । विनानेनार्कवर्णेन गत्वा नक्षव्रमंडलम् ॥४६॥
दिव्येन वपुषा युक्तः स्त्रक्चंदनविभूषितः । दिव्यनारीगणवृतः सुखं भुंक्ते ह्यनामयम ॥४७॥
दोधूयमानश्वमरैरत्नपंक्त्या विराजितः । पारिजातकमंदारपुष्पभारोपशोभिताः ॥४८॥
कृतार्थः परिपूर्णाशस्तिष्ठेदाभूतसंप्लवम् । इदं कृत्वा व्रतं पश्वाद्नत्वा स्वर्गं सभर्तृका ॥४९॥
रमते तेन साकं सा सर्वभोगसमन्विता । यश्वैतच्छृण्युयात्पार्थ भक्तियुक्तः समाधिना । नारी वा पुरुषो वापि मुच्यते सर्वकिल्बिषैः ॥५०॥ सौवर्णरौप्यमणिगोनवनीतसिद्धःषट्कृत्तिकाःकणिकपिष्ठमयीश्वकृत्वा । पाव्रे निधाय कुसुमाक्षतधूपदौपैः संपूज्य जन्मगहनं वशंति मर्त्याः ॥५१॥ [ ४४१५ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कार्तिक्यां कृत्तिकाव्रतंनामव्र्यधिकशततमोऽध्याय़ः ॥१०३॥