युधिष्ठिर उवाच ॥
युष्मद्वाक्यामृतमिदं शण्वानोहं जनार्दन । न तृप्तिमधिगच्छामि जातं कौतूहलं हि मे ॥१॥
गोपतिः किल गोविन्दस्त्रिषु लांकेषु विश्रुतः । गोवृषस्य प्रदानेन त्रैलोक्यमभिनंदति ॥२॥
तद्वोवृषभदानस्य फलं मे कथयाच्युत । श्रीकृष्ण उवाच ॥ वृषदानफलं पुण्यं शृणुष्व कथयामि ते ॥३॥
पवित्रं पावनं चैव सर्वदानोत्तमोत्तमम् । दशधेनुसमोऽनङावनेकश्वैकधुरंधरः ॥४॥
इशधेनुप्रदानाद्धि स एवैको विशिष्यते । यो हृष्टश्वातिपुष्टांगो ह्यरोगःपांडुनंदन ॥५॥
युवा भद्रःसुशीलश्व सर्वदोषविवर्जितः । धुरंधरः स्थापयते एक एव कुलं महत् ॥६॥
त्राता भवति संसारे नात्र कार्या विचारणा । अलं कृत्य वृषं पुण्यकाल उपस्थिते ॥७॥
रौप्यलांगूलसंयुक्तं ब्राह्मणाय निवेदयेत् । मंत्रेणानेन राजेन्द्र तं शुणुष्व वदामि ते ॥८॥
धर्मत्स्वं वृषरुपेण जगदानन्दकारकः । अष्टमूर्तेरधिष्टानमतः पाहि सनातन ॥९॥
दत्वैवं दक्षिणायुक्तं प्रणिपत्य विसर्जयेत् । सप्तजन्मकृतं पापं वाङमनः कायकर्मनाम् ॥१०॥
तत्सर्वै विलयं त्याति गोदानसुकृतेन च। यानं वृषभसंयुक्तं दीप्यमानं सुशोभनम् ॥११॥
आरुह्य कामगं दिव्यं स्वर्लोकमधिरोहति । यावंति तस्य रोमाणि गोवृषस्य महीपते । तावद्वर्षसहस्त्राणि गवां लोके महीयते ॥१२॥
गोलोकादवतीर्णस्तु इहकोके द्विजो भवेतु । यज्ञ याजी महातेजाः सर्वब्राह्मणपूजितः ॥१३॥
यथोक्तं ते महाराज ल्कस्य देयो वृषोत्तमः । तदहं ते प्रवक्ष्यामि पात्रं त्राणपदं नृणाम् ॥१४॥
ये क्षांतदांताः श्रुतिपूर्णकर्णजितेंद्रियाः प्राणिवधान्निवृत्ताः । प्रतिग्रहे संकुचिता गृहस्थास्ये ब्राह्मणास्तारयितुं समर्थाः ॥१५॥
ऊर्जस्विनं भरसहं दृढकंधरं च यच्छंति ये वृषमशेषगुणोपपन्नम् । दत्तेन यद्भवति गोदशकेन पुण्य सत्यं भवंति भुवि तत्फलभगिनस्ते ॥१६॥ [ ७००५ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वृषभदानव्रतविधिवर्णनं नाम षष्टयुत्तशततमोऽध्ययः ॥१६०॥