श्रीकृष्ण उवाच ॥
पञ्चदश्यां शुकृपक्षे फाल्गुनस्य नरोत्तम । पाखंडान्पतितांश्वैव तथैवान्त्यावसयिनः ॥१॥
नास्तिकान्भिन्नवृत्तांश्व पापिनो नैव चालपेतू । नारायणे गतमनाः पुरुषो हि जितेन्द्रियः ॥२॥
तिष्टन्व्रजन्प्रस्खलन्वाभुंजन्नपिजनार्दनम् । कीर्तयेच्चक्रियाकालेसप्तकृत्वः प्रकीर्तयेत् ॥३॥
लक्ष्म्या समन्वितं देवमर्चयेच्च जनार्दनम् । संध्याद्युपरमे चन्द्रस्वरूपं हरिमीश्वरम् ॥४॥
राव्रौ च लक्ष्मीं संचिन्त्य सम्यगर्घेण पूजयेत् । श्रीनिशाचन्द्ररूपस्त्वं वासुदेव जगत्पते ॥५॥
मनोमिलषितं देव पूरयस्व नमो नमः । मंव्रणानेन दत्त्वार्घं देवदेवस्य भक्तितः ॥६॥
नक्तं भुञ्जीत न स्वैरस्तैलक्षारविवर्जितम् । तथैव चैव्रवैशाखे ज्येष्ठे च नृपसत्तम ॥७॥
अर्चयेच्च यथाप्रोक्तं मासि मासि च तद्दिने । निष्पादितं भवेदेकं पारणं पार्थ शक्तितः ॥८॥
द्वितीयं चापि वक्ष्यामि पारणं ते नरोत्तम । आषाढे श्रावणे मासि प्राप्ते भाद्रपदे तथा ॥९॥
तथैवाश्वयुजेभ्यर्च्य श्रीधरं प्रियया सह । अर्धं चन्द्रमसे दत्त्वा भुञ्जीताथ यथाविधि ॥१०॥
द्वितीयमेतदाख्यातं तृतीयं पारणं शृणु । कार्तिकादिषु मासेषु तथैवाभ्यर्च्य केशवम् ॥११॥
भूत्या समन्वितं दद्याच्छशांकाय तथा निशि । भुञ्जीत च यथाख्यातं तृतीयं पारणं हि तत् ॥१२॥
प्रतिपूज्य ततो दद्याद्ब्राह्मणेभ्यश्व दक्षिणाम् । प्रतिमासं च वक्ष्यामि प्राशनं कायशुद्धये ॥१३॥
चतुरः प्रथमान्मासान्पञ्चगण्यमुदाह्रतम् । कुशोदकं तथैवान्यदुक्तं मासचतुष्टयम् ॥१४॥
सूर्यांशुतप्तं तद्च्च जलं कायबिशोधनम् । गीतवाद्यादिकं राव्रौ तथा कृष्णकथां शुभाम् ॥१५॥
कारयेव्रैव देवस्य पारणे पारणे गते । जनार्दनं सपत्नीकमर्चयेत्प्रथमं ततः ॥१६॥
सश्रीकं श्रीधरं तद्वत्तृतीये भूतीकेशवौ । प्रतिमासं तु नामानि कृष्णस्यैतानि भारत ॥१७॥
कुतोपवासः सुन्मातः सुस्त्रातः पूजयित्वा जनार्दनम । उष्णारयन्नरो याति श्रेष्ठ लोकं यथासुखम् ॥१८॥
ततो विप्राय वै दद्यादुदकुंभं सदक्षिणम् । उपानद्वखयुग्सं च च्छव्रं कनकमेव च ॥१९॥
यद्वै मासगतं नाम प्रीयतामिति कीर्तयेत् । केशवं मार्गशीर्षो तु पौषे नारायणं तथा ॥२०॥
माधवं माघमासे तु गोविन्दमपि फाल्गुने । चैव्रमासे तथा विष्णुं वैशाखे मधुसृदनम् ॥२१॥
ज्येष्ठे व्रिविक्रमं ज्ञेयं तथाषाढे च वामनम् । श्रीधरं श्रावणे तद्वद्भृषीकेशेति चापरम् ॥२२॥
रामो भाद्रपदे मासि गीयते पुण्यकांक्षिभिः । पद्मनाभमश्वयुजि दामोदरमतः परम् ॥२३॥
कार्तिके देवदेवेशं स्तुवंस्तरति दुर्गतिम् । एवं संवत्सरस्यांते प्रतिमासे कमोदितम् ॥२४॥
यदि दातुं न शक्रोति दद्याच्चैवैकहेलया । विशेषश्वाव्र कथितश्वाद्रं कृत्वा हिरण्मयम ॥२५॥
पूजयित्वा फलैर्वस्त्रैर्ब्राह्मणाय निवेदयेत् । यावतीषु तिथिष्वेवं स्मरन्नचर्यते प्रभुं ॥२६॥
तावंतिजन्मान्यमुखं नान्पोतीष्टवियोगजम् । इहैव स्वस्थतां प्राप्य मरणे स्मरणं ततः ॥२७॥
स्थानं तु मम संप्राप्य स्वर्गलोके महीयते । ततो मानुष्यमासाद्य निरातंको गतज्वरः । धनधान्यवति स्फीते जन्म साधुकुलेऽर्हति ॥२८॥
श्रीशार्वरीशमधुमान्भगवाञ्छशांकः संकल्प्य चन्दनतिलाक्षतपुष्पमिश्रम् । यच्छंति येऽर्घमनया नृपपूर्णिमायां नूनं भवंति परिपूर्णमनोरथास्ते ॥२९॥ [ ४४४४ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे पूर्णमनोरथव्रतं नाम चतुरधिकशततमोऽध्यायः ॥१०४॥